________________
टिप्पनक-परागविवृतिसंवलिता आव्यश्रोणि दरिद्रमध्यसरणि सस्तांसमुच्चस्तनं ___ नीरन्ध्रालकमच्छगण्डफलकं छेकघ्र मुग्धेक्षणम् । शालीनस्मितमस्मिताश्चितपदन्यासं बिभर्ति स्म या
स्वादिष्ठोक्तिनिषेकमेकविलसल्लावण्यपुण्यं वपुः ॥ [ ज्ञ] ॥ एकदा च राजा याममात्रे वासरे समुच्छ्रितानेकभूमिकस्य गगनयात्रायासिताभिः सिद्धाध्वगवधूभिविश्रान्तये सततमध्यासितशिखरविटङ्कवेदिकस्य भद्रशालनाम्नो महाप्रासादस्य पृष्ठे समुपविष्टः. समीपदेशो
टिप्पनकम्-शालीनस्मितं सलज्जेषद्धासम् , यत् तत् कथम् अस्मिताञ्चितपदन्यासं अनीषद्धासप्रशस्यक्रमनिक्षेपम् ? अन्यत्र अस्मीत्येतस्य भावोऽस्मिता-अहङ्कारः, तेनाचितपदम् , स्वादिष्ठा-मधुरतमा [s] |
-.-..
-
-
__mmmnama
काष्ठफलकम् , अधिशयाना राजलक्ष्मीः, लेशेनापि, सदृशविभवा समानधना, न बभूव, धनसाम्ये सुखसाधनसाम्यस्यापि सम्भवात वस्तगत्या तु निशितं तीक्ष्णम असिपखाधिष्ठित काष्ठयष्टिमित्यर्थः “पद्रः येषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तर-पीठयोः” इति मेदिनी । इत्थं चेशिवाक्येषु श्लेषानुप्राणितव्यतिरेकालङ्कारो बोध्यः । [क्ष] । पुनः या मदिरावती, एकविकसल्लावण्यपुण्यं एकम्-अद्वितीयम् , अनुपम मिति यावत् , विकसत्-परिस्फुरत् , यल्लावण्यंसौन्दर्यम्, तेन पुण्यं-पवित्रम्, वपुः शरीरम् , बिभर्ति स्म धारयति स्म । कीदृशम् ? आव्यश्रोणिः आट्या-परिपूर्णा, विस्तृतेत्यर्थः, श्रोणिः-कटिः, तदुपलक्षितनितम्बभागो यस्मिंस्तादृशम् , “कटिः श्रोणिः ककुद्मती" इत्यमरः । पुनः दरिद्रमध्यसरणि दरिद्रा-कृशा, मध्यसरणि:-मध्यभागः, कटिभाग इत्यर्थः, यस्मिंस्तादृशम् , “सरणिः श्रेणि-वर्त्मनोः" इति रभसः । पुनः त्रस्तांसं सस्तो-अवनतौ, अंसौ स्कन्धौ यस्मिंस्तादृशम् । पुनः नीरन्ध्रालकं नीरन्ध्राः-अविरलाः, निरन्तरा इति यावत् , अलकाः-केशा यस्मितादृशम् । पुनः अच्छगण्डफलकम अच्छे-निर्मले, गण्ड फलके-पट्टाकारे गण्डस्थले यस्मि. स्तादृशम् । पुनः छेकवै छेके-मनोहरे, कुटिलश्यामले इत्यर्थ मस्तादृशम् , "छेकस्त्रिषु विदग्धेषु" इति रभसः । पुनः मुग्धेक्षणं मुग्धे-रम्ये, ईक्षणे-नेत्रे, मुग्धं-रम्यम् , ईक्षणम्-अवलोकनं वा यत्र तादृशम् । पुनः शालीनस्मितं शालीनं-सलज्जम् , स्मितम्-ईषद्धासो यस्मिंस्तादृशम् , पुनः अस्मिताश्चितपदन्यासम् ईषद्धासरहितपदविक्षेपमिति पूर्वविशेषणेन विरोधः, तदुद्धारे तु अस्मिता-अहङ्कारः, तेन अञ्चितः-युक्तः, पदन्यासः-पादविक्षेपो यस्य, यद्वा अस्मितः-उपहासानास्पदम् , अश्चितः-मनोहर श्व पदन्यासो यस्य, यद्वा स्मितेन-अन्यकृतोपहासेन, अञ्चितः-युक्त इति स्मिताञ्चितः, न स्मिताश्चित इत्यस्मिताञ्चितः पदन्यासो यस्य तादृशम् । पुनः स्वादिष्ठोक्तिनिषेकं खादिष्ठा:-अतिशयेन खादवः, अतिमधुरा इति यावत् , या उक्तयः, तासां निषेकम्-आसेचनभूतम् [श] ।
परागाभिधा विवृतिः- च पुनः, एकदा एकसमये, याममात्र प्रहारमात्रे, वासरे दिवसे व्यतीते सति, "याम-प्रहरौ समो” इत्यमरः, भद्रशालनाम्नः भद्रा- शुभावहा, चासौ शाला, भद्रस्य-मजलस्य वा शाला भद्रशाल इति सार्थकसंज्ञकस्य, महाप्रासादस्य विशालराजभवनस्य, पृष्ठे उपरिभागे, समुपविष्टः सम्यगासितः सन् , स राजा विद्याधरमुनि विद्यावलेन गगनविहारिणं मुनिम् , अपश्यत् दृष्टवान् , कीदृशस्य महाप्रासादस्य ? समुच्छ्रितानेकभूमिकस्य समुच्छ्रिताः-अत्युनताः, अनेकाः, भूमिकाः-अधोऽधः सन्निविष्टावान्तरप्रसादा यस्मिंस्तादृशस्य, पुनः गगन यात्रायासिताभिः गगनयात्रया-आकाशविहारेण, आयासिताभिः परिश्रान्ताभिः, सिद्धाध्वगवधूभिः सिद्धाः-गगनगमनादिविद्यासिद्धिकलिता ये अवगाः-गगनमार्गेण विहारिणः, तेषां वधूभिः-भार्याभिः, विश्रान्तये विश्रामानुभवाय, सततं नित्यम् , अध्यासितशिखरबिटङ्कवेदिकस्य अध्यासिताः-अधिष्ठिताः, शिखरस्य, विटङ्काः-कपोतावासस्थानानि, वेदिकाचतुरस्रपरिष्कृतभूमिश्च यस्य तादृशस्य, कीदृशस्य कीदृशः सन् ? समीपदेशोपविष्टया खपार्थस्थितया, इष्टिपातपथावस्थितेन दृष्टिपातस्य-चक्षुविस्फारणस्य, यः पन्थाः-मार्गः, स्थानमिति यावत् , तत्रावस्थितेन, दृश्यमानेनेति यावत् , वदनारविन्दनिहितनिश्चलहशा वदनम् अरविन्दमिव मनोज्ञत्वादिति वदनारविन्दम्, मदिरावत्या मुखकमलम् , तत्र न तु बहिः,