________________
तिलकमञ्जरी। पविष्टया दृष्टिपातपथावस्थितेन यदनारविन्दनिहितनिश्चलदृशा विश्रान्तमिथःसंकथेन वर्षधरवनिताप्रायेण परिजनेनोपास्यमानया सह तया प्रस्तुतालापः सहसैवान्तरिक्षण दक्षिणापथादापतन्तम् [अ], उद्योतितसमस्तान्तरिक्षम् [आ], आपीतसप्तार्णवजलस्य रत्नोद्गारमिव तीब्रोदानवेगनिरस्तमगस्त्यस्य, स्थूलकरनिःश्वासविप्रकीर्णमुत्तमाङ्गसिन्दूरनिकरमिव दक्षिणाशागजस्य, प्रचण्डपवनप्रेरितं रेणुपटलमिव सुवर्णद्वीपस्य, केरलीरक्षितशरणागतानङ्गवैलक्ष्यप्रतिनिवृत्तमीक्षणानलमिव विशालाक्षस्य, दिवापि दीप्यमानमीशानशिरःशशाङ्कप्रीत्या कैलासवासाय प्रचलितमौषधिवातमिव विन्ध्यस्य, कनकगिरिपर्यन्तचारिसूर्यतुरगानुसारेण नायनरश्मिनिवहमिव मन्दाकिनी प्रति प्रधावितमन्तकमहिषस्य, त्रिशङ्कसम्पर्कजाशौचशोधनाय शिखाजालमिव विजृम्भितमाग्नेयदेनिवासिहुतवहस्य, वैश्रवणरत्नकोशदर्शनकुतूहलादलकापुरीमुञ्चलितमन्तरात्मानमिव रोहणाचलस्य इ], तप्त
टिप्पनकम्- उदानः-ऊर्ध्ववातः। त्रिशङ्कः-चण्डालविशेषः [इ]।
निहिता-निवेशिता, निश्चला-स्थिरा, दृक्-दृष्टियन तादृशेन, पुनः विश्रान्तमिथःसंकथनेन विश्रान्ता-निवृत्ता, मिथ:परस्परं. सङ्कथा-सम्भाषणं यस्य तादृशेन. पुनः वर्षधरवनिताप्रायेण "ये स्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीखभाविनः। जात्या न दुष्टाः कार्येषु ते वै वर्षधराः स्मृताः" ॥ इत्युक्तलक्षणा अन्तःपुररक्षका वर्षधराः, तद्वनितानां-तनारीणाम, प्रायःप्राचुर्य यस्मिंस्तादृशेन, परिजनेन परिवारेण, उपास्यमानया सेव्यमानया, तया मदिरावत्या, सह प्रस्तुतालाप:प्रस्तुत:प्रारब्धः, आलापः-सम्भाषणं येन तादृशः सन् , विद्याधरमुनिमपश्यद्' इति दूरेणान्वयः, कीदृशम् ? सहसैव अकस्मादेव, अन्तरिक्षेण गगनद्वारा, दक्षिणापथात् दक्षिणस्या दिशो मार्गात् , आपतन्तम् अवतरन्तम् [अ] | पुनः उद्योतितसमस्तान्तरिक्षमार्गम् उदयोतितः-खतेजसा प्रकाशितः, समस्तः-समग्रः, अन्तरिक्षमार्ग:-आकाशमार्गो येन तादृशम् [आ]। पुनः आपीतसप्तार्णवजलस्य आ-समन्तात् ,पीतानि सप्तार्णवानां-सप्तसमुद्राणां जलानि येन ताशस्य, अगस्त्यस्य तत्संज्ञकमुनेः, तीवोदानवेगनिरस्तं तीव्रस्य-अत्यन्तोद्भुतस्य, उदान स्य-कण्ठदेशस्थवायोः, ऊर्ध्ववायोरित्यर्थः, वेगेन, निरस्तं-निष्काशितम् , रत्नोद्वारमिव निगीर्णरत्नोद्गिरणमिवेत्युत्प्रेक्षा । पुनः दक्षिणाशागजस्य दक्षिणदिग्गजस्य, स्थूलकरनिःश्वासविप्रकीर्ण स्थूलो यः कर:-शुण्डादण्डः, तस्य निःश्वासेन–नासिकावायुना, विप्रकी-विक्षिप्तम् , उत्तमाङ्गसिन्दूरनिकरमिव उत्तमाते-शिरसि,यः सिन्दूरनिकरः, तमिवेत्युत्प्रेक्षा।पुनः सुवर्णद्वीपस्य सुवर्णमयद्वीपस्य,प्रचण्डपवनेरितं प्रचण्डेन-उद्धतेन, पवनेन-वायुना, ईरित-प्रेरितम् , उद्भूतमित्यर्थः, रेणुपटलमिव धूलि पुञ्जमिवेत्युत्प्रेक्षा । पुनः विशालाक्षस्य शिवस्य, केरलीरक्षितशरणागतानङ्गवैलक्ष्यप्रतिनिवृत्तं केरलो नाम-"कोलिसर्पा महिषका दर्याश्चोलाः सकेरलाः । सर्वे ते क्षत्रियास्तात । धर्मस्तेषां निराकृतः” ॥ इति हरिवंशपुराणोक्तक्षत्रियविशेषः, तजातीया स्त्री केरली, तया रक्षितः पुनरुज्जीवितो यः, शरणागतः, अनङ्ग:-कामदेवः, तस्मात् , वैलक्ष्येण-स्वव्यापारवैफल्यजन्याश्चर्येण, प्रतिनिवृत्तं -प्रत्यावृत्तम् , ईक्षणानलमिव नेत्राग्निरूपमिवेत्युत्प्रेक्षा । पुनः विन्ध्यस्य विन्ध्याचलस्य, दिवाऽपि दिनेऽपि, दीप्यमानं भासमानम् , ईशानशिरःशशाङ्कप्रीत्या ईशानस्य-शिवस्य, शिरःशशाङ्कः-मौलिस्थितश्चन्द्रः, तत्प्रीत्या-तत्प्रेम्णा, चन्द्रस्यौषधिपतित्वात् , कैलासवासाय, प्रचलितौषधिवातमिव प्रचलिता-प्रस्थिता, या ओषधिः, तस्या वातमिव-पुञ्जमिवेत्युत्प्रेक्षा । पुनः अन्तकमहिषस्य अन्तकस्य-यमराजस्य, यो महिषस्तद्वाहनरूपः, तस्य, कनकगिरिपर्यन्तचारिसूर्यतुरगानुसारेण कनकगिरेः- सुमेरुपर्वतस्य, पर्यन्ते-उपरितनसीन्नि, संचरणशीलः यः सूर्यः, तस्य तुरगाः-रथसंबद्धा अश्वाः, तदनुसारेण-तदनुगमेन, मन्दाकिनी प्रति गङ्गां प्रति, प्रधावित प्रकर्षण शीघ्रप्रस्थितम् , नायनरश्मिनिवहमिव नायनाना-नयन सम्बन्धिनाम्, रश्मीना-किरणानाम् , निवहंपुजमिव, “श्राद्धदेवो वैवखतोऽन्तकः” इत्यमरः । पुनः आग्नेयदिनिवासिहुतवहस्य अभिर्देवता यस्याः सा आमेयी दिक्पूर्वदक्षिणदिमध्यभागः, तन्निवासिनो हुतवहस्य-अमेः, त्रिशनसम्पर्कजाशौचशोधनाय विशङ्कोः-आकाशलम्बितस्य चाण्डालविशेषस्य, यः सम्पर्कः-संसर्गः, तजं-तजन्यम् , यदशौचम्-अपवित्रत्वम् , तत्संशोधनाय तन्मार्जनाय, विजृम्भितं प्रज्वलितम् , शिखाजालमिव ज्वालापुञ्जमिवेत्युत्प्रेक्षा । पुनः रोहणाचलस्य रत्नगिरेः, वैश्रवणरत्नकोशदर्शन