Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 116
________________ ८० टिप्पनक-परागविवृतिसंवलिता न सूत्रितं भवता क भूत्वा भविष्यत्प्रतिपक्षप्रतापातपकरालिता कालमतिवाहयिष्यामि मन्दभाग्या' इति सोद्वेगमुपालन्धस्येव लब्धप्रसरया श्रिया, 'नाथ! कस्यचित् काचिदस्ति गतिः, अहमेव निर्गतिका, कुरु यत् साम्प्रतं मदुचितम्' इति सखेद्या सन्तानार्थमभ्यर्थितस्येव भुजलमया भुवा, 'देव ! त्वद्वंश्येन गोत्रा विना कालान्तरे बलवदरातिहठविलुप्यमानाभिः शरणाय कः समाश्रयणीयोऽस्माभिः' इति विज्ञापितस्येव चित्तस्थिताभिः प्रजाभिः, 'सखे ! किं मया तव समीहितसिद्धथनुपयुक्तशक्तिना वृथैव स्थितेन, अनुजानीहि माम्' इत्यादृष्टस्येव श्लथीकृतोपगृहनं प्रयाता यौवनेन, 'विद्वन् ! किमपरैस्त्रातः, आत्मानं त्रायस्व पुंनाम्नो नरकात इति सोत्प्रासं शासितस्येव गुरुकृतेन श्रुतिधर्मेण, मर्मदाही मुर्मुर इव प्रादुरभवदस्य चेतसि चिन्ताज्वरः [भ] । येन प्रतिदिवसमासादितोदामप्रौढिना निदाघतपन इव निजतेजसा ताप्यमानो गुणानुरक्तयापि राजलक्ष्म्या दुर्भगाङ्गनयेव नारमत, मूलेऽतिमधुरेष्वपि विषयोपभोगसुखेषु काशस्तम्बेष्विव तृणबुद्धि वबन्ध, टिप्पनकम्-मूले आदौ जटायां च । शरवर्ण कुमारस्य-स्कन्दस्य, उत्पत्तिकारणम् , अन्यत्र कुमारस्य-पुत्रस्य, पुष्प-कुसुममार्तवं च । सुतविभक्तभूभागान् पुनविभागस्थापितधरानदेशान् , अन्यन्न सुता इव वयः-पक्षिणः, तैः सेवितधरानदेशान् । वंशः-अन्वयो वेणुश्न [ म] 1 मात्रमपि केवल आश्रयोऽपि, न सूत्रितं न निष्पादितम् , भवता त्वया, क्व भूत्वा कुत्र स्थित्वा, कमाश्रित्येत्यर्थः, भविष्यत्प्रतिपक्षप्रतापातपकरालिता भविष्यतां-भाविमाम् , प्रतिपक्षाणां-विपक्षाणां नृपाणाम् , प्रतापातपेन-प्रतापरूपसूर्यकिरणेन, करालिता-ज्वालिता सती, अहं मन्दभाग्या भाग्यहीना, कालं समयम्, अतिवाहयिष्यामि अतिक्रमिध्यामि, इति अनेन प्रकारेण, सोद्धगं ससम्भ्रमं यथा स्यात्तथा, उपालब्धस्येव कृतोपालम्भस्येवेत्युत्प्रेक्षा। पुनः भजलग्नया खबाहुश्रितया, सखेदया खेदसहितया, भुवा पृथिव्या, नाथ ! खामिन् !, कस्यचित् अन्यस्य कस्यापि, काचित् अन्या कापि, गतिः निर्वाहोपायः, अस्ति, अहमेव, निर्गतिका निर्वाहोपायशून्या अस्मि, साम्प्रतम् इदानीम् , यद् मदुचितं यद् मम योग्यं पुत्रोत्पादनम् , तत् कुरु, इति अनेन प्रकारेण, सन्तानार्थ सन्तानहेतोः, अभ्यर्थितस्येव प्रार्थितस्येवे. त्युत्प्रेक्षा । पुनः चित्तस्थिताभिः भावनया मनोनिविष्टाभिः, प्रजाभिः, देव ! राजन् ! स्वदश्येन भववंशजेन, गोत्रा रक्षफेण, विना, कालान्तरे भवदभावकाले, बलवदरातिहठविलुप्यमानाभिः बलवद्भिः, अरातिभिः-शत्रुभिः, हठेनबलात्कारेण, विलुप्यमानाभिः-विपाद्यमानाभिः, अस्माभिः, शरणाय रक्षणाय, कः समाश्रयणीयः? सम्यगाश्रयणीयः? स्यादिति विज्ञापितस्येव । पुनः श्लथीकृतोपगूहनं शिथिलीकृतालिङ्गनं यथा स्यात्तथा, प्रयाता तदीयशरीरान्निर्गच्छता, यौवनेन यौवनावस्थया, सखे! सहवासबद्धसख्य !, समीहितसिद्धयनुपयुक्तशक्तिना समीहितस्य-अभिलषितस्य सन्तानस्य, सिद्धौ-निष्पत्ती, अनुपयुक्ता-अक्षमा, शक्तिः-सामर्थ्य यस्य तादृशेन, अतो वृथैव स्थितेन मया तव किम् न किमपीत्यर्थः, अतो माम् , अनुजानीहि प्रयातुमनुमन्यख, इति अनेन प्रकारेण, आपृष्टस्येव गृहीतानुमतिकस्येवेत्युत्प्रेक्षा। पुनः गुरुकृतेन गुरूपदिष्टेन, श्रुतिधर्मेण "पुनानो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति ख्यातः” इति वैदिकधर्मेण, विद्वन् ! अपरैः अन्यैः, प्रातः रक्षितैः सद्भिः, किम् न किमपि, पुन्नाम्नः पुदिति नाम यस्य तस्मात् , नरकात , त्रायस रक्ष, इति अनेन प्रकारेण, सोत्प्रासं सोपहासम् , शासितस्येव कृतानुशासनस्येव [भ]। येन चिन्ताज्वरेण, प्रतिदिवसम्, आसादितोद्दामप्रौढिना आसादिता-प्राप्ता, उद्दामप्रौढिः-निरतिशयतीव्रता येन तादृशेन, निजतेजसा, निदाघतपन इष ग्रीष्मसूर्य इव, ताप्यमानः तापमवाप्यमानः सन् , गुणानुरक्तयाऽपि सन्धिविग्रहादितद्गुणलुब्धयाऽपि, पक्षे शान्त्यादिगुणानुरागिण्यापि, राजलक्ष्म्या राज्यसम्पदा, दुर्भगाङ्गनयेव कुरूपस्त्रियेव, न अरमत न रमते स्म । मूले आदौ, काशस्तम्बेष्विव काशः-तृणविशेषः, तत्काण्डेष्विव, पक्षे मूलप्रदेशे, अतिमधुरेष्वपि अति. प्रियेष्वपि, विषयोपभोगसुखेषु कामिन्यादिसम्भोगसुखेषु, तृणबुद्धि तृणवदसारत्वबुद्धिम् , पक्षे तृणत्वबुद्धिम् , चबन्ध

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196