Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। कदाचिनीलपटावगुण्ठिताङ्गो लागलीव कालिन्दीजलवेणिकाः प्रत्यप्रमृगमदाङ्गरागमलिनवपुषो बहुलप्रदोषाभिसारिकाः सुदूरमाचकर्ष [अ]। कदाचिटुल्लसितकनकशृङ्गसुन्दरो मन्दराद्रिरिव क्षीरोदजलवीचिभिरागृहीतविविधशङ्खशुक्तिपुटाभिरवरोधपुरन्ध्रीभिरुपसृत्योपसृत्य सिच्यमानो जलक्रीडामकरोत् [क]। कदा. चिन्मुदितसुहृद्भणोपदिश्यमानमार्गो मृगाङ्कमौलिरिव कैलासशिखरे मुखरशिखण्डिनि क्रीडागिरौ देवीसमेतः सविभ्रमं बभ्राम [ख] | कदाचिन्मन्युगौरवादतिलकिलपादपतनविभ्रमाणां प्रेयसीनां प्रसादनं प्रति निष्प्र
जलक्रीडायचं शिखरं च [क]। सुहृद्गणः-मित्रवृन्द सुहृत्प्रमथश्च, देव्यः-स्वभायाः, देवी-गौरी च [ख]।
आर्दीभवन्तः, रोमाञ्चकवचाः-सुरतसगरेऽत्राणानि यस्मिस्तादशम् , पुनः उत्कृष्टकरणप्रयोगरमणीयम् उत्कृष्टा ये करणप्रयोगा:-हस्तादीन्द्रियविक्षेपाः, तै रमणीयं-सुन्दरम् , अत्यद्भुतम् आश्चर्यजनकम् , जनसामान्यासाध्यमित्यर्थः [अं]। कदाचित् कस्मिंश्चित् काले, नीलपटावगुण्ठिताङ्गः नीलपटेन-अभिसारिकानुरूपकृष्णवस्त्रेण, अवगुण्ठित-तिरोहितम् , आई-शरीरं यस्य तादृशः सन् , कालिन्दीजलवेणिकाः यमुनाजलमिव कृष्णा येणी-केशपाशो यासां ताः, प्रत्यग्रमृगमदाङ्गरागमलिनवपुषः प्रत्यग्रः-नवः, यो मृगमदः-कस्तूरिका, तत्सम्बन्धिना अङ्गरागेण-शरीरानुलेपनद्रव्येण, मलिनं-लिप्तम् , वपुः-शरीरं यासां ताः, बहुलप्रदोषाभिसारिकाः बहुलस्य- कृष्णपक्षस्य, प्रदोषेषु-रजनीमुखेषु, अभिसारिकाः-नीलपटेनात्मानमवगुण्य कान्ताभिमुखगामिनीः स्त्रीः, सुदूरम् अतिदूरम् , आचकर्ष आकर्षयति स्म, तदेकवेषशालित्वात् , काः कीटक् क इव ? प्रत्यग्रमृगमदाङ्गरागमलिनवपुषः स्नान्तीनां गोपाङ्गनानां कुचकलशाच्च्यवता प्रत्यग्रभृगमदारागेण कलुषितजलीयशरीराः, पुनः बहुलप्रदोषाभिसारिकाः बहुल:-कृष्णः, प्रदोषः-अभिसरणसमयो यासा तादृश्यः, अभिसारिका यासु ताः, कृष्णाभिसारिकाविहारयोग्या इत्यर्थः, कालिन्दीजलवेणिकाः कालिन्दीजलस्य-यमुनाजलस्य, वेण्यः-प्रवाहा एव वेथिकाः, ताः, नीलपटावगुण्ठिताङ्गो लाङ्गली बलराम इव, स यथा यमुनामाकृष्टवानासीत् तथेत्यर्थः, बलरामः कदाचन यमुनामाचकर्षेति पौराणिकमितिवृत्तम् [अ] । स राजा कदाचित् कस्मिंश्चित् काले तु, जलक्रीडां जलैः खेलाम. अकरोत कृतवान् , कीदृशः सन् ? उलसितकनकासन्टर: उल्लसितम-उत्कृष्टम. यत कनककनकं सुवर्ण तन्मयं शृङ्गं शनाकारो जलक्रीडोपकरणयन्त्रविशेषः, तेन सुन्दरः सन् , पुनः अवरोधपुरन्ध्रीभिः अन्तःपुरस्त्रीभिः, उपसृत्य उपसृत्य असकृत् समीपमागत्य, सिच्यमानः उत्क्षिप्यमाणजलः सन् , काभिः कीदक इव ? आगृहीतविविधशङ्कशुक्तिपुटाभिः आगृहीताः-आ समन्ताद् गृहीताः, उद्धृता इत्यर्थः, विविधानाम्-अनेकविधानाम् , शङ्खशुक्तीनां पुटा याभिस्तादृशीभिः, क्षीरोदजलवीचिभिः क्षीरमेवोदकम्-उदकस्थानीयं यस्मिनसौ क्षीरोदः क्षीरसागरः, यत्रेन्द्रभयेन मन्दराचलो निपपात, तवीयजलवीचिभिः-तदीयजलतरः, .उल्लसितकनकङ्गसुन्दरः उदु-ऊर्ध्वम् लसितेन-शोभितेन, कनकशृङ्गेण-सुवर्णमयशिखरेण, सुन्दरः-मनोहरः, मन्दाद्रिः मन्दराचल इव [क]। पुनः कदाचित् कस्मिंश्चित् काले, मुदितसुहृद्रणोपदिश्यमानमार्गः मुदितेन-विहारकौतुकानन्दितेन, सुहृद्गणेन-मित्रमण्डलेन, उपदिश्यमानः-निर्दिश्यमानः, मार्ग:-विहारमार्गो यस्मै तादृशः सन् , देवीसमेतः देवीभिः-राजीभिः, समेतः-सहितः, क्रीडागिरी क्रीडापर्वते, सविभ्रमं विश्रमेण-शकारचेष्टया, सहितं यथा स्यात्तथा, बभ्राम विहारं कृतवान् , कीदृशे ? मुखरशिखण्डिनि मुखराः-शब्दायमानाः, शिखण्डिनः-मयूरा यस्मिंस्तादृशे, कुत्र कीदृशः क इव ? मुखरशिखण्डिनि कैलासशिखरे कैलासपर्वतोपरिभागे, मुदितसुद्रणोपदिश्यमानमार्गः मुदितेन-विहारहेतोः प्रसन्नेन, सुहृदणेनशोभमानं शिवप्रीतिप्रवणं हृदयं यस्य तादृशेन, गणेन-प्रमथगणेन, उपदिश्यमानमार्गः-निर्दिश्यमानविहारभूमिपथः, देवीसमेतः पार्वतीसहितः, शशाङ्कमौलिः शशाङ्क-चन्द्रः, मौलौ-मस्तके यस्य स शशाङ्कमौलिः शिवः, स इव, स यथा तादृशः सन् कैलासशिखरे भ्रमति तथेत्यर्थः [ख] । स राजा कदाचित् कस्मिंश्चित् समये, बिसिनीपलाशनस्तरशायी बिसिनीनां-कमलिनीनाम् , यानि पलाशानि-पत्राणि, “पत्रं पलाशं छदनम्" इत्यमरः, तरखस्तरे-तन्मयशव्यायाम् , शयनशील: सन् , मनसिशयसन्तापं मनसि-कामिनां हृदये, शेत इति मनसिशयः कामदेवः, तत्सन्तापं-तत्सश्वरम् , अत्यवायत्
१.तिलक.
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196