Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता प्रारब्धकार्यतया निराकुलमनास्तत्कालं मनःपुरीमनुप्रवेष्टुकाम कार्मुकधारणापराधविलक्षमनसं मकरलक्ष्माणमनुप्राहयितुमागतेन विस्तारितचतुरोक्तिना दूतेनेव नवयौवनेनोपदर्शितेष्विन्द्रियग्रामहारिषु विषयेषु परिभोगलालसं मानसमासञ्जयामास [औ] | तथाहि-कदाचित् सकुतूहलगृहदेवतादरविलोकितः, कामिनीजनाभरणझात्कारवर्यतूर्यरवसंवर्धितैस्तारतरविलापिनां वैतालिकानामिव केलिशकुन्तानां ध्वनिभिराधीयमानरभसः, सरभसदशनापदंशदलितदन्तच्छदमदयकचग्रहोल्लसद्भुकुटीभूषितललाटदेशमावेशपरवशप्रवृत्तकरप्रहारव्याहरन्मणिवलयमविरलोद्गतश्रमस्वेदतिम्यद्रोमाञ्चकवचमनवरतमुक्तकौसुमशरासारव्यपदेशादुपजाततुष्टिनेव मानसभुवा देवेन पात्यमानपुष्पवृष्टिरुत्कृष्टकरणप्रयोगरमणीयमत्यद्भुतं रतसमरमात नान [ अं] ।
यः प्रगल्भमत्युपसितधिषणः-पटुबुद्धिपुरुषहसितबुद्धिः, स कथं प्रज्ञावतां धुर्यः?, प्रगल्भमत्युपहसितबृहस्पति [ओ] । उत्कृष्टकरणप्रयोगरमणीयं प्रकृष्टकरपादन्यासरम्यम् , अन्यत्र उत्कृष्टकसंग्रामरम्यम् [अं] | शृङ्गम्
अखिलानि-सकलानि, प्रारब्धानि-स्वनारब्धानि कार्याणि यस्य तस्य भावस्तत्ता तया, निराकुलमना अव्यग्रहृदयः सन्, इन्द्रियग्रामहारिषु चक्षुरादीन्द्रियाकर्षणशीलेषु, विषयेषु कामिनीकमनीयरूपादिषु. अन्यत्र देशेषु, परिभोगलालसं . विषयभोगोत्कटतृष्णाकुलम् , मानसं खहृदयम् , अन्यत्र स्वशासनप्रवर्तनाभिलाषम् , आसञ्जयामास आ समन्ताद् योजयामास, कीदृशेषु तेषु ? नवयौवनेन अभिनवतारुण्येन, उपदर्शितेषु आस्वादितेषु, अन्यत्र सवर्णनं कथितेषु, केनेव तेन ? मनःपुरी तदीयहृदयनगरीम् , अनुप्रवेष्टुकामं प्रवेष्टुमिच्छुम् , कार्मुकधारणापराधविलक्षमनसं कार्मुक धारणं-धनुर्ग्रहणमेवापराधः, तेन विलक्षमनसं–विस्मयापन्नहृदयं "विलक्षो विस्मयान्विते" इत्यमरः, मकरलक्ष्माणं मकरो ग्राहः, स लक्ष्म चिहं यस्य तं कामदेवम् ; अनुग्राहयितुं तदपराधपरिमार्जनया तदनुपवेशनानुग्रहक्रियायामुपकर्तुम् , आगतेन अवतीर्णन, विस्तारितचतुरोक्तिना विस्तारिताः-विस्तरेणोक्ताः, चतुरा:-वैदग्ध्यपूर्णाः, उक्तयो वचनानि येन तादृशेन दूतेनेव कामदेवगुप्तचरेणेवेत्युत्प्रेक्षा [औ] ! मानसासजनमुपदर्शयति-तथाहीति । स राजा कदाचित् कस्मिंश्चित् काले, रतसमरं रतिसङ्ग्रामम् ; आततान विस्तारयामास, कीदृशः सन् ? सकुतूहलगृहदेवतादरविलोकितः सकुतूहलया-कुतूहलेन दर्शनलालसया सहितया, गृहदेवतया-गृहाधिष्ठातृदेवतया, आदरेण-प्रीत्या, विलोकितः-निरीक्षितः सन् , पुनः कामिनीजनाभरणझात्कारवर्यतर्यरवसंवर्धितः कामिनीजनाना-नारीजनानाम्, आभरणानि-अलङ्करणानि, तदीयझात्कारैः-झणत्काररूपैः, वर्याणाम्-उक्तमानाम् , तूर्याणां-वाद्यानाम् , रवैः-नादः, संवर्धितैः-सम्यग् वृद्धि प्रापितैः, . वैतालिकानामिव विविधेन तालेन-शब्देन, चरन्ति-राज्ञो जागरणं कुर्वन्तीति वैतालिकाः, राज्ञः प्रातर्जागारयित्तारः, तेषामिव, “वैतालिका बोधकराः" इत्यमरः, तारतरविलापिनाम् अत्युच्चैस्सलापिनाम् , केलिशकुन्तानां क्रीडोपकरणशुकानाम् , ध्वनिभिः शब्दैः, आधीयमानरमसः आधीयमानः-जन्यमानः, रभसः-सुरतसंग्रामवेगः, तदुत्साह इति यावत् , यस्य तादृशः सन् , "रभसो वेग-हर्षयोः” इति विश्वः, पुनः मानसभुवा मानसे-हृदये, भवति-आविर्भवतीति मानसभूः कामः, तेन, देवेन कामदेवेन, पात्यमानपुष्पवृष्टिः पात्यमाना-विमुच्यमाना, पुष्पवृष्टिः-विजयोपहारभूतकुसुमधारा यस्मिन् तादृशः सन् , कीदृशेन तेन ? अनवरतमुक्तकोसुमशरासारव्यपदेशात् अनवरतं सततम् , मुक्ताः-पातिताः, ये कौसुमाः-कुसुमसम्बन्धिनः, शरा:-बाणाः, तेषाम् , आसारः-धारासम्पातः, तद्व्यपदेशात्-तव्याजात्, उपजाततुष्टिनेव सातसन्तोषेणेच, कीदृशं रतसमरम् ? सरभसदशनापदंशदलितदन्तच्छदं सरभसं-सवेगं यथा स्यात्तथा, दशनाओण-दन्ताग्रेण, यो दंशः-दंशनम् , तेन दलितो-खण्डितौ, दन्तच्छदो-कामिन्या ओष्ठौ यस्मिंस्तादृशम् , पुनः अदयकचग्रहोल्लसद्धकुटीभूषितललाटदेशम् अदयं-निर्दयं यथा स्यात्तथा, यः कचग्रहः-केशग्रहणम् , तेन उल्लसन्त्या-शोभमानया, भ्रकुट्या-भ्रुवोः कौटिल्येन, भूषितो ललाटदेशो यस्मिंस्तादृशम् , पुनः आवेशपरवशप्रवृत्तकरप्रहारख्याहरन्मणिवलयम आवेशस्य-स्नेहस्य, परवश-पराधीनं यथा स्यात्तथा. प्रवृत्ताभ्यां कराभ्या-हस्ताभ्याम् , प्रहारेण कामिनीकर्तृकराजकर्मकाभिघातेन, व्याहरत्-कणत् , मणिवलयं-मणिमयमणिबन्धालङ्करणं यस्मिस्तादृशम् , पुनः अविरलोद्गतश्रमस्वेदतिम्यद्रोमाञ्चकवचम् अविरल-निरन्तरम् , उद्गतैः-स्यन्दितैः, श्रमखेदैः- सुरतायासधर्मैः, तिम्यन्तः
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196