Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 106
________________ ७० टिप्पनक-परागविवृतिसंवलिता श्रेणिचूडामणिमरीचिचक्रविरचितेन्द्रचापकलापेषु प्रत्यावृत्तप्रथमजलधरसमयशङ्काविधायिषु लोकस्य यदीयसैन्येषु सकलप्रतिपक्षलक्ष्मीजिघृक्षया शरत्समये समन्ततः प्रचलितेषु विषमजलनिधिमध्यवासिनोऽपि कंसद्विष इव द्वीपावनीपालनिवहस्य निद्रा क्षयमगच्छत् [ऋ] । अन्यच्च यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैर्भुवः । बौद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ॥१॥[ल] । लतावनपरिक्षिप्ते निन्ये यदरिभिर्निशा । विन्ध्यातस्तस्परुचिरे न वेश्मनि नवेऽश्मनि ।। २॥ [ल]। अन्तर्दग्धागुरुशुचावाय यस्य जगत्पतेः । नारीणां संहतिश्चारुवेषाकारागृहे रतिम् ॥ ३ ॥ [ए]। दृष्ट्वा वैरस्य वैरस्यमुज्झितास्रो रिपुव्रजः । यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥४॥[ऐ]। कणा इत्यर्थः, तेषां प्रकरस्य-समूहस्य, पात इव-अधस्ताद्विकिरणमिव, मुखराः-शब्दायमानाः, ये सप्तीनाम्-अश्वानाम् , खुरपुटा:-सम्पुटितखुराः, तेषां ध्यानैः-ध्वनिभिः, जनितः-उद्भावितः, जगज्वरः-जगतां कर्णज्वरो यैस्तादृशेषु, “हय-सैन्धवसप्तयः" इत्यमरः, पुनः प्रसर्पन्नृपश्रेणिचूडामणिमरीचिचक्रविरचितेन्द्रचापकलापेषु प्रसर्पन्तः-सम्भ्रमेण खसिंहासनात् प्रचलन्तो ये, नृपाः-राजानः, तेषां याः श्रेणयस्तासां चूडामणिमरीचिचक्रेण-मौलिमणिकिरणनिकरण, विरचितः, इन्द्रचापानां-"रविकिरणा बहुवर्णा वातेन विलोडिता नभसि। शकायुधसंस्थाना दृश्यन्ते तत्त इन्द्रधनुः" । इत्युक्तानामिन्द्रधनुषाम् , कलापः समूहो यैस्तादृशेषु, पुनः लोकस्य जनतायाः,प्रत्यावृत्तप्रथमजलधरसमयशङ्काविधायिषु प्रत्यावृत्तःपुनरागतो यः, प्रथमः-प्रारम्भिकः, जलधरसमयः-वर्षाकालः, तस्य या शङ्का-संशयः, तद्विधायिषु-तत्प्रयोजकेषु [ अन्यश्च अपि च, यस्य मेघवाहनसंज्ञकस्य प्रकृतनृपतेः, दोष्णि नाही, “भुज-बाहू प्रवेष्टो दोः" इत्यमरः, स्फुरद्धेतौ स्फुरन्ती-भ्राजन्ती, हेतिः-बाणः, यस्मिन् तादृशे सति, “हेतिः स्यादायुध-ज्वाला-सूर्यतेजस्सु योषिति" इति मेदिनी, विबुधैः विशिष्टैः-तर्कवितर्ककुशलैः, बुधैः-पण्डितैः, ध्रुवः अवश्यम्भावी, राज्ञां प्रतिकूलनृपतीनाम् , निरन्वयः अन्वयाद्वंशात् , निर्गतः, निःशेषतया ततो निर्गत्य प्रतियोगिभावेन तदमात्यादिकमभिव्याप्त इत्यर्थः, यद्वा अन्वयो नाम कथञ्चिदस्तित्वम् , तदभावात्मकः, नाशः, प्रतीये तर्कितः, कस्मिन्निव केषाम् ? स्फरद्धेतौ स्फुरन्-आरोपगोचरीभवन , हेतु:-लिङ्गव्याप्यधर्मो यस्मिन् तादृशे, बौद्धतर्के बुद्धो देवता येषां ते बौद्धास्तेषां तर्के-'यदि पदार्थानां क्षणिकत्वं न स्यात्तर्हि सत्त्वमपि न स्यादर्थक्रियाकारित्वायोगाद्' इत्याकारके व्याप्यारोपजन्यव्यापकारोपात्मके, इव यथा, अर्थानां पदार्थानां द्वितीयक्षणे निरन्वयो नाम सर्वथैव नाशः प्रतीतिपथमवतरति तथैव तस्य तादृशभुजदर्शनेन शत्रूणामुक्तरूपो नाश इत्यर्थः॥१॥ अत्र श्लेषानुप्राणितो.. पमालङ्कारः [ल]। ___यदरिभिः यस्य प्रकृतनृपतेः, अरिभिः-शत्रुभिः, लतावनपरिक्षिते लतामयवनपरिक्षिप्ते, विन्ध्याद्रेः विन्ध्यगिरेः, नवे नवीने, अश्मनि प्रस्तरे, निशा निन्ये तत्र निलीय व्यतीये, न तु तत्परुचिरे तल्पेन-कोमलशय्यया, रुचिरेमनोहरे, वेश्मनि, तत्र तेषां ततो भीरुत्वादिति भावः ॥ २ ॥ अत्र परिसंख्या यमकं चालङ्कारः [ ]। यस्य प्रकृतस्य, जगत्पतेः नृपतेः, चारुवेषाकारा चारु:-सुन्दरः, वेषः-कृत्रिमरूपं यस्य तादृश आकारो यस्या असो, नारीणां संहतिः-समूहः, अन्तर्दग्धागुरुशुचौ अन्तर-मध्ये, दग्धः-ज्वलितः, योऽगुरुस्तेन शुचौ-शोधिते, सुरभित इति यावत् , गृहे, रतिं प्रीतिम् , आप प्राप, पक्षे अगुरुशुचा राज्यापहरणजनितमहाशोकानलेन, अन्तर्दग्धा अन्तःअन्तःकरणावच्छेदेन, दग्धा, यस्य जगत्पतेः, अरीणां शत्रूणाम् , संहतिः, यतः चारुवेषा राजोचितचारूपकरणविप्रयुक्ता, अतः कारागृहे बन्धनालये, रतिं न अबाप, “कारा दूत्यां प्रसेवके, बन्धने बन्धनागारे हेम-कारिकयोरपि" इति विश्वः ॥३॥ अत्र सभङ्गश्लेषालकारः[ए] . वैरस्य शत्रुतायाः, वैरस्यं विरसता दुष्परिणामताम् , दृष्ट्वा, यस्य प्रकृतनृपतेः, रिपुव्रजः शत्रुसमूहः, उज्झितात्रः उज्झितानि-त्यक्तानि, अस्त्राणि-अस्यन्ते शत्रूपरि क्षिप्यन्ते यानि तानि शरादीनि येन तादृशः सन् , यस्मिन् मेघवाहने, विश्वस्य खहितकारित्वेन विश्वासं कृत्वा, विश्वस्थ समग्रस्य, कुलस्य खवंशस्य, कुशलं कल्याणम्, व्यधात् अकाषीत् । अत्र यमकं काव्यलिङ्गं चालङ्कारः, उज्झितानपदार्थस्य अत्रत्यागरूपस्य कुशलविधानं प्रति हेतुत्वात् ॥ ४॥ [ऐ

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196