Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 107
________________ तिलकमञ्जरी। ७१ स राजा बाल एवाधिगतराज्याभिषेकः सकलभुवनाभिभाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपीम् , कृत्वा सततसंचरणशीलस्य यशसः सुखप्रचारार्थमिव निष्कण्टकाः ककुभः, दिक्कुम्भिनामालानस्तम्भानुकारिणः समारोपितस्वनामवर्णश्रेणीकानारोप्य दिशामष्टानामपि पर्यन्तेषु जयस्तम्भान् , उपार्जितप्रभूतकोशं वशीकृतसमस्तसामन्तमायत्तमत्रिमण्डलमुपगृहीतमित्रवर्गमाप्तपुरुषाधिष्ठितदुर्ग समग्रमपि राज्यमाजन्मनः प्ररूढपरमसौहृदस्य हृदयस्येवातिविश्वसनीयस्य बाहोरिव वसुन्धराभारवहनक्षमस्कन्धस्य प्रगल्भमत्युपहसितधिषणस्यापि. प्रज्ञावतां धौरेयस्य विदितनिश्शेषनीतिशास्त्रसंहतेरमात्यवर्गस्यायत्तमकरोत् [ओ] | आत्मनापि निश्शेषितारिवंशतया विगतशङ्कः, स्वधर्मव्यवस्थापितवर्णाश्रमतया जातनिर्वृतिः, पर्यवसिताखिल सः अनुपदवर्णितो राजा मेघवाहनः, बाल एव बाल्यावस्थायामेव, अधिगतराज्याभिषेकः सम् , सकलभुवनाभिमाविना निखिलभुवनविजयिना, भुजबलेन बाहुबलेन, सप्ताम्बुराशिरशनाकलापां सप्ताम्बुराशयःसप्त समुद्राः, त एव रशनाकलापः-काञ्चीश्रेणी यस्यास्तादृशीम् , समुद्रपर्यन्तामित्यर्थः, काश्यपी पृथिवीम्, निर्जित्य समन्तादायत्तीकृत्य, “काश्यपी क्षितिः” इत्यमरः, सततसश्चरणशीलस्य अविरतप्रसरणखभावकस्य, यशसः खकीर्तेः, सुखप्रचारार्थमिव सुखेन सञ्चारमुद्दिश्येवेत्युत्प्रेक्षा, ककुभः दिशः, “दिशस्तु ककुभः काष्ठाः” इत्यमरः, निष्कण्टकाः कण्टकायमानशत्रुशून्याः, “रोमाञ्चे क्षुदशत्रौ च तरोरङ्गे च कण्टकः” इति शाश्वतः, कृत्वा सम्पाद्य, दिक्कुम्भिनाम् कुम्भौ-शिरःपिण्डौ स्तो येषां ते कुम्भिनः, दिशः कुम्भिनः दिकुम्भिनस्तेषाम् , “कुम्भो राश्यन्तरे हस्तिमूर्धाशे” इति मेदिनी, दिग्गजानाम् , आलानस्तम्भानुकारिणः दायोच्छ्रायाभ्यां बन्धेन स्तम्भायमानान् , “आलानं बन्धस्तम्भे” इत्यमरः, समारोपितस्वनामवर्णश्रेणिकान् समारोपिता-लिखित्वा स्थापिता, स्वनाम्नः वर्णश्रेणिः-अक्षरसमूहो येषु तादृशान् , जयस्तम्भान् जयसूचकशङ्कन , अष्टानामपि दिशां पर्यन्तेषु-सीमाप्रदेशेषु, आरोग्य स्थापयित्वा; उपार्जितप्रभूतकोशम् उपार्जिताः-निर्मिताः, प्रभूताः-प्रचुराः, कोशाः-हिरण्यादिनिधयो यस्मिन् तादृशम् , वशीकृतसमस्तसामन्तं वशीकृताः समस्ताः-सकलाः, सामन्ताः-संलग्नोऽन्तश्वरमावयवो यस्याः सा समन्ता, खदेशाव्यवहितभूमिः, तस्या ईश्व यत्र तादृशम् , “अन्तः स्वरूपे निकटे प्राप्ते निश्चयनाशयोः अवयवेऽपि" इति हैमः, आयत्तमन्त्रिमण्डलं स्वाधीनसचिवसमूहम् ; उपगृहीतमित्रवर्गम् उपगृहीतः-अनुकूलितो मित्रवर्गो यस्मिस्तादृशम् , “उपग्रहः पुमान् वन्द्यामुपयोगेऽनुकूलने" इति मेदिनी, आप्तपुरुषाधिष्ठितदुर्ग आप्तपुरुषैः-विश्वस्तपुरुषैः, अधिष्ठितः-रक्षणार्थमाश्रितः, दुर्ग:-प्राकारो यस्मिंस्ताहशम् , "आप्तः प्रत्ययितस्त्रिषु" इत्यमरः, समग्रमपि सम्पूर्णमपि, राज्यम् , अमात्यवर्गस्य मन्त्रिमण्डलस्य, आयत्तम् अधीनम् , अकरोत् कृतवान् , कीदृशस्य तस्य ? आ जन्मनः जन्मप्रभृति, प्ररूढपरमसौहृदस्य प्ररूढं-प्रवृद्धम् , परमसौहृदं-सान्द्रसख्यं येन तादृशस्य, हृदयस्येव खान्तःकरणस्येव, अतिविश्वसनीयस्य, बाहोरिव स्वभुजस्येव, वसुन्धराभारवहनक्षमस्कन्धस्य वसुन्धराभारवहनक्षमः-भूभारग्रहणसमर्थः, स्कन्धो यस्य तादृशस्य, प्रगल्भमत्युपहसितधिषणः प्रगल्भमतिभिः-प्रत्युत्पन्नबुद्धिशालिभिः, उपहसिता-निन्दिता, धिषणा-बुद्धिर्यस्य तादृशस्यापि, मन्दप्रज्ञस्यापीत्यर्थः, "प्रगल्भः प्रतिभान्वितः” इत्यमरः, प्रज्ञावतां बुद्धिमताम् , धौरेयस्य अग्रेसरस्येति विरोधः, तदुद्धारे तु प्रगल्भमत्याप्रत्युत्पन्नबुद्ध्या, उपहसितो धिषणो बृहस्पतिर्येनेति व्याख्येयम् , “गीष्पतिर्धिषणो गुरुः" इत्यमरः, पुनः विदितनिःशेषनीतिशास्त्रसंहतेः विदिता-ज्ञाता, निःशेषाणां समग्राणाम् , नीतिशास्त्राणां संहतिः-समूहो येन तादृशस्य [ ओर अपि च आत्मनाऽपि खेनापि, निःशेषितारिवंशतया निःशेषितः-निःशेष यथा स्यात्तथा विध्वंसितः, अरिवंशः-शत्रुवंशो येन तस्य भावस्तत्ता तया, विगतशङ्कः शत्रुशङ्काशून्यः, स्वधर्मव्यवस्थापितवर्णाश्रमतया स्वधर्मेण-स्वधर्मानुसारेण, व्यवस्थापिताः-विभज्यावस्थापिताः, वर्णाः-ब्राह्मणादयः, आश्रमा:-ब्रह्मचर्यादयो येन तस्य भावस्तता तया हेतुना, जातनिर्वृतिः जातधर्मव्यवस्थापनात्मककार्यजन्यपरमसुखः पर्यवसिताखिलप्रारब्धकार्यतया पर्यवसितानि-निष्पन्नानि,

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196