________________
६४
टिप्पनक-परागविवृतिसंवलिता इव तेजसि, सरस्वतीमय इव वचसि, लक्ष्मीमय इव लापण्ये, सुधामय इव माधुर्ये, तपोमय इवासाध्यसाधनेषु [स], अनर्तितो लक्ष्मीमदविकारैरखलीकृतो व्यसनचक्रपीडाभिरनाकृष्टो विषयमाहैरयश्रितः प्रमदाप्रेमनिगडैरजडीकृतः परमैश्वर्यसन्निपातेन [ ह ], गिरावाप्तप्रतिष्ठः सततमवनेचरतः, श्रितविशुद्धसाधुसमाचारोऽपि सर्वकालमुळ भुजङ्गतया भ्राजितः [क्ष ], सार्वभौमो राजा मेघवाहनो नाम [ ज्ञ] ।
टिप्पनकम्-ग्राहः-जलचरः, सन्निपात:-ज्वरविशेषः [ह]। यो गिरौ पर्वते, आप्तप्रतिष्ठः प्रासावस्थितिः, स कथम् अवनेचरतः अविद्यमानवनेचरभावः? अन्यत्र गिरा वाचा, अवाप्तप्रतिष्ठः, अवने रक्षणे, च, रतः, यः श्रितविशुद्धसाधुसमाचारः स कथम् उा बृहत्या, भुजङ्गतया राजितः? अन्यत्र उर्ध्या पृथिव्या, भुजं बाहुम् , गतया प्राप्तया, शोभितः [A] ।
पुनः सर्वकेसरिभिरिव निखिलसिंहै रिव, कल्पितपराक्रमः सम्पादितशौर्यः, निरतिशयशौर्यशालीत्यर्थः । पुनः सर्वमणिमन्त्रौषधैरिव सर्वे ये मणयो मन्त्राश्च सर्वाणि च यान्यौषधानि च, तैः, उपबृंहितप्रभावः उपबृंहितः-वर्धितः, प्रभावो यस्य तादृशः अप्रतिमप्रभावशालीत्यर्थः । अत्र सर्वत्र हेतूत्प्रेक्षाऽलङ्कारः [ष]। पुनः कीदृगसौ राजा ? स्थैर्ये स्थिरताविषये
विकारः प्रचुर पृथ्वीको वा पृथ्वीमयः, स इवेति हेतूत्प्रेक्षा । पुनः तेजसि तेजोविषये, तिग्मांशमय इव तिग्माः-तीक्ष्णाः, अंशवः-किरणा यस्यासौ तिग्मांशुः सूर्यः, तद्विकार इव तत्परिणाम इवेत्यर्थः, तत्प्राचुर्यवानिव वा। पुनः वचसि वाग्वैभवविषये, सरस्वतीमय इव सरखतीपरिणाम इव । पुनः लावण्ये सौन्दर्याशे, लक्ष्मीमय इव लक्ष्मीपरिणाम इव । पुनः माधुर्य मधुरतांशे, सर्वप्रियत्वांश इत्यर्थः, अमृतमय इव अमृतपरिणाम इव । पुनः असाध्यसाधनेष असाध्यस्य-साधयितुमशक्यस्य कार्यस्य, साधनेषु-निष्पादनेषु, तपोमय इव तपसः परिणाम इव, तपसा सर्वसिद्धिस्मरणात् [स]। पुनः कीदृगसौ राजा? लक्ष्मीमदविकारैः सम्पत्तिगर्वोद्गारैः, अनर्तितः अनटितः, सम्पत्तौ विद्यमानायामपि तद्र्वानुद्गमैनात्र विशेषोक्तिरलङ्कारः, एवमुत्तरत्रापि कतिपयवाक्ये । पुनः व्यसनचक्रपीडाभिः व्यसनाना-सुरापानादिदुष्कर्मणाम् , चक्रस्य-समूहस्य पीडाभिः-व्यासङ्गव्यथाभिः, अखलीकृतः न नीचतां नीतः, "व्यसनं विपदि भ्रंशे दोषे कामजकोपजे" इत्यमरः । पुनः विषयग्राहैः विषिण्वन्ति खस्मिन् निबध्नन्ति ये ते विषया रूपरसादयः, तद्रूपैः, ग्राहैः-जलजन्तुप्रवरैः, अनाकृष्टः खव्यासजद्वारा अनाकुलितः। पुनः प्रमदाप्रेमनिगडैः प्रमदासु-प्रमदो हर्षोऽस्ति यासा तासु, प्रसन्नप्रकृतिकासु स्त्रीषु, ये प्रेमाणः-प्रीतयः, व्यासङ्गा इत्यर्थः, तद्रूपैः, निगडैः-शृङ्खलैः, अयन्त्रितः अबद्धः, प्रमदाखनासक्त इत्यर्थः । पुनः परमैश्वर्यसन्निपातेन परमम्-अतिशयितम् , यदैश्वर्यं तत्सन्निपातेन-तत्सम्बन्धेन, यद्वा तद्रूपेण सन्निपातेनज्वरविशेषेण, तदुष्मणेत्यर्थः, अजडीकृतः न व्यामोहितः [ह] । पुनः कीदृगसौ राजा ? गिरावाप्तप्रतिष्ठोऽपि गिरौपर्वते, आप्तप्रतिष्ठोऽपि प्राप्तशाश्वतिकस्थितिकोऽपि, सततं नित्यम् , अवनेचरतः अविद्यमानवनेचरताक इति विरोधः, तदुद्धारे तु गिरा वाचा, अवाप्तप्रतिष्ठः प्राप्तप्रतिष्ठः, अथ च सततं सदैव, अवने दीनजनरक्षणे, रतः, च पुनः । पुनः श्रितविशुद्धसमाचारोऽपि श्रितः-प्राप्तः, विशुद्धानां-विशेषेण शुद्धानाम् , पवित्रचरित्रशालिनां साधुजनानामित्यर्थः, समाचारः-सम्यगाचरणं येन तादृशोऽपि, सर्वकालं सततम् , उा प्रचुरया, भुजङ्गतया विटतया, भ्राजितः प्रकाशित इति विरोधः, तदुद्धारे तु उाः पृथिवीरूपविलासिन्याः, भुजङ्गतया विटवद् भोक्तृतया, खामितयेत्यर्थः, भ्राजितः शोभितः, यद्वा भुजं बाहुम्, गतया प्राप्तया, उा पृथिव्या, भ्राजितः शोभितः, “भुजङ्गः सर्प-षिङ्गयोः" इति हैमः [A]। सार्वभौमः सर्वभूमेः-समप्रपृथिव्याः, ईश्वरः, चक्रवतीत्यर्थः, यद्वा सर्वभूमौ विदितः, नामेति वाक्यालङ्कारे द्रष्टव्यः [२]