SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । प्रकृतिः, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशतयुपेतोऽपि सकलभूभारधारणक्षमः, रक्षिताखिलक्षितितपोवनोऽपि त्रातचतुराश्रमः [श ], सर्वसागरैरिवोत्पादित गाम्भीर्यः, सर्वगिरिभिरिवाविर्भावितोन्नतिः, सर्वज्वलनैरिव जनितप्रतापः, सर्वचन्द्रोदयैरिव रचित कीर्तिः, सर्वमुनिभिरिव निर्मितोपशमः, सर्वकेसरिभिरिव कल्पितपराक्रमः, सर्वमणिमत्रौषधैरिवोपबृंहितप्रभावः [ष], पृथ्वीमय इव स्थैर्ये तिग्मांशुमय ६३ अकृशानुभावोपेतः महाप्रभावयुक्तः । गरः- विषम्, सगरः - चक्रवर्ती । यः शत्रुघ्नः रामभ्राता, स कथं विश्रुतकीर्तिः विगतश्रुतकीर्त्यभिधानभार्यः, अन्यत्र अरिहन्ता प्रख्यातकीर्तिश्च । शेषः - नागराजः, न निषेधे, अन्यन्त्र शेषाः - सर्वाः, श्राश्रमाः- वनस्थानाति, अन्यत्र ब्रह्मचर्यादयः [श ]1 भावोपेतः कृशानुभावम् - अभिभावम्, अभित्वमित्यर्थः, उपेतः- प्राप्तः, यद्वा कृशानुभावेन, उपेतः- युक्त इति कृशानुभावोपेतः, न कृशानुभावोपेत इत्यकृशानुभावोपेतः, अग्निभिन्न इति यावदिति विरोधः, तदुद्धारे तु समिद्-युद्धम्, तद्व्यतिकरेण - तत्सम्बन्धेन, तत्कर्तृत्वेनेत्यर्थः, स्फुरितः - परितः प्रकाशितः, प्रतापः - क्षात्रतेजो यस्य तादृशः अथ च अकृशानुभावोपेतः अकृशेनविपुलेन, अनुभावेन-प्रभावेण, उपेतः - युक्तः, “इन्धनं त्वेध इध्ममेधः समित् स्त्रियाम्” इति, “समुदायः स्त्रियः संयंत् समित्याजि -समिद्युधः" इति चामरः, “ द्वन्द्वं समाघात समाह्वया ऽभिसम्पात सम्मई- समित्प्रघातः । आस्कन्दना -ऽऽजिप्रप-नान्यनीकमभ्यागमश्च प्रविदारणं च” इति, “समिदिन्धनमेषेध्मतर्पणैधांसि भस्म तु" इति चाभिधानचिन्तामणिश्च । पुनः सगरान्वयप्रभवोऽपि गरेण - विषेण, सहितः सगरः सर्पः, तदन्वयः - तद्वंशः प्रभवः - उत्पत्तिस्थानं यस्य तदन्वये प्रभव उत्पत्तिर्यस्य वा तादृशोऽपि, अमृतशीतलप्रकृतिः अमृतस्येव शीतला प्रकृतिः स्वभावो यस्य तादृश इति विरोधः, तदुद्वारे तु सगरः- तत्संज्ञकस्तद्वंशमूलभूतश्चक्रवर्ती नृपस्तद्वंशजः । पुनः शत्रुघ्नोऽपि दशरथकनिष्ठपुत्रोऽपि, विश्रुतकीर्तिः विरहितः श्रुतकीर्त्य - श्रुतकीर्तिनाम्या शत्रुघ्नपन्या इति विश्रुतकीर्तिरिति विरोधः, तदुद्धारे तु शत्रुघ्रः शत्रुहन्ता, अथ च विश्रुतकीर्तिः विख्यातकीर्तिः । पुनः अशेषशच्युपेतोऽपि शेषस्य - शेषनागस्य, शक्तिः शेषशक्तिः, तया उपेतः- युक्त इति शेषशतयुपेतः, न शेषशक्त्युपेत इति अशेषशक्त्युपेतः, तादृशोऽपि शेषशक्तिशून्योऽपि इति यावत् सकलभूभारधारणक्षमः सकलासमग्रा, या भूः - पृथ्वी, तद्भारधारणे- तद्भारवहने, क्षमः -शक्त इति विरोधः, तदुद्धारे तु अशेषाभिः - सकलाभिः, शक्तिभिः, उपेतः - सहितः, अथ च सकलाया भुवो भारधारणे - रक्षणादिभार ग्रहणे क्षमः । पुनः रक्षिताखिलक्षितितपोवनोऽपि रक्षितानि - लता पादपादिच्छेदनाद् वारितानि, क्षितितपोवनानि क्षितेः पृथिव्याः खाधिकृतायाः, तपोवनानि - तपोऽधिष्ठानभूतानि वनानि येन तादृशोऽपि, त्रातचतुराश्रमः त्राता रक्षिताश्चत्वार आश्रमाः- तपखिनिवासमठा येनेति विरोधः, तदुद्धारे तु रक्षिताश्चत्वारो ब्रह्मचर्यादय आश्रमा येन तादृशः, “आश्रमो ब्रह्मचर्यादौ वानप्रस्थे मठे स्त्रियाम्" इति मेदिनी, "ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये । आश्रमोsस्त्री” इत्यमरश्च [श ] । पुनः कीदगसौ राजा ? सर्वसागरैरिव सम्भूय सप्तसमुदैरिव, न तु केनचिदेकेन समुद्रेणेति कर्तुत्प्रेक्षा, उत्पादित गाम्भीर्यः उत्पादितं स्वनिष्ठगाम्भीर्यौपम्येनोद्भावितम् गाम्भीर्यम्-अन्तरप्रवेश्यत्वं यस्य तादृशः । निरतिशयगाम्भीर्यशालीत्यर्थः । पुनः सर्वगिरिभिरिव सम्भूय सर्वपर्वतैरिवेति कर्तुत्प्रेक्षा, आविर्भावितोन्नतिः आविर्भाविता - लोके प्रकटिता, उन्नतिः - उच्चता यस्य तादृशः, परमोच्च इत्यर्थः । पुनः सर्वज्वलनैरिव गाईपत्यादिसकलाग्निभिरिव, जनितप्रतापः उत्पादिततेजाः । पुनः सर्वचन्द्रोदयैरिव सर्वेषां चन्द्राणाम् उदयैरिव, रचितकीर्तिः रचिता निर्मिता कीर्तिश्चन्द्रिकाबदुजवला यस्य तादृशः, अतिवेलविपुलोज्ज्वलकीर्तिशालीत्यर्थः । पुनः सर्वमुनिभिरिव सर्वे न तु कश्चिदेव ये मुनयस्तैरिव, निर्मितोपशमः सम्पादितबाह्याभ्यन्तरेन्द्रियोपशमः, निरतिशयशमदमसम्पन्न इत्यर्थः ।
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy