________________
टिप्पनक-परागविवृतिसंवलिता उच्चापशब्दः शत्रुसंहारे न वस्तुविचारे, वृद्धत्यागशीलो विवेकेन न प्रशोत्सेकेन, गुरुवितीर्णशासनो भच्या न प्रभुशक्त्या, स्वजनपराङ्मुखः परभार्यासु न सपर्यासु, अवनितापहारी पालनेन न लालनेन, अकृतकारुण्यः करचरणे न शरणे [व], सौजन्यपरतत्रवृत्तिरप्यसौजन्ये निषण्णः, नलपृथुप्रभोsप्यनलपृथुप्रभः, समिद्व्यतिकरस्फुरितप्रतापोऽप्यकृशानुभावोपेतः, सगरान्वयप्रभवोऽध्यमृतशीतल
टिप्पनकम्-उच्चापशब्दः उद्धृत्तधनुर्ध्वनिः, न उचापशब्दः महापशब्दः, वृद्धत्यागः-महादानम् , बन्यत्र महत्परित्यागः, एकत्र शासनानि-ग्रामादीनाम्, अन्यत्र शासनम्-आदेशः, स्वजनम्-मालिङ्गनम्, स्वजन:-बन्धुश्च, अवनितापहारी पृथ्वीसन्तापापनोदी, भन्यत्र वनिता-योषित् , अकृतकारुण्य: अकृत्रिमरक्तरवः, अन्यत्र अविहितदयः [व]। सौजन्य-सुजनता, असौ खने, निषण्णः, क? जन्ये सङ्ग्रामे । नलपृथू-राजानौ, ताभ्यां प्रभा-समः, अनल:-अग्निः, तद्वत् पृथुप्रभ:-महातेजाः । यः समिद्व्यतिकरस्फुरितप्रताप: काठसम्बन्धदीप्ततापः, स कथम् अकृशानुभावोपेतः अनग्नित्वयुक्तः ?, अन्यत्र समित्-सङ्ग्रामः, प्रतापः-वीर्यम् ,
परागाभिधा विवृति-पुनः कोहगसी राजा ? शत्रुसंहारे रिपुविध्वंसनावसर एव, उच्चापशब्दः उद्गताः, चापानां-धनुषाम् , शब्दाः-टङ्कारध्वनयो येन तादृशः, न तु वस्तुविचारे किञ्चिद्वस्तुविवेचने, कदाचन उच्चःतारखरः, अपशब्दः-प्रतिविवेकार प्रत्यनभिज्ञत्वापादनपरः, दुष्टशब्दो यस्य तादृशः । पुनः विवेकेन चिरमेभिः सहवासे कदाचिदनवधानवशादनुचितमुच्येतेत्यालोचनेनैव, वृद्धत्यागशील: वृद्धस्य-वसमधिकवयस्कजनस्य, त्यागःचिरसहवासवर्जनमेव शीलं यस्य तादृशः, यद्वा विवेकेन अधमर्णरक्षणविचारेण, वृद्धस्य-अधमर्णदेयस्य मूलधनादधिकस्य, कुसीदद्रव्यस्येत्यर्थः, त्यागशीलः-वर्जनशीलः, अथवा विवेकेन पुनर्याच्चाक्लेशनिवारणविचारेण, वृद्धस्य-याचकजनतत्क्षणापेक्षिताधिकस्य धनस्य, त्यागशीलः-दानशीलः, विवेकेन पुण्यातिशयविचारेण, वृद्धो महान् , स चासौ त्यागो दानमिति वृद्धत्यागः-महादानम् , तच्छीलो वा, न तु प्रशोत्सेकेन खबुद्धिगर्वेण, वृद्धस्य-पण्डितस्य, त्यागशीलः-उपेक्षाशीलः, तदुक्तम्-"घुध-वृद्धी पण्डितेऽपि” इति । पुनः भत्त्या दर्शितया धर्मप्रीत्या, गुरुवितीर्णशासनः गुरुणा-धर्मगुरुणा, वितीर्ण-दत्तम् , शासन-धर्मोपदेशनं यस्मै तादृशः, न तु प्रभुशत्तया राजशक्त्या, गुरवे दत्तं शासनम्-आशा येन तादृशः, गुरु भयङ्करे दत्तं शासनं येन तादृशो वा, पुनः परभार्यासु अन्यदीयाङ्गनासु, खजनपराङ्मुखः स्वजनम्-आलिङ्गनम् , तत्र पराजुखः-विमुखः, न तु सपर्यासु सत्कारविधौ, स्वजनपराङ्मुख आत्मीयजनविमुखः, अपि तु राज्याधिकारनिक्षेपणेन स्वजनसंस्कारशील इत्यर्थः, "पूजा नमस्यापचितिः सपर्याऽर्चाऽर्हणाः समाः” इत्यमरः। पुनः पालनेन सर्वतो रक्षणेन, अवनितापहारी अवनेः-खाधिकृतभूमेः, ताप-संतापम् , हरतीत्येवंशीलः, न तु लालनेन विलासेन, अवनितानावनिता स्वस्त्री, वनिताशब्दस्य स्त्रीसामान्यवाचित्वेऽपि सम्बन्धिशब्दमहिना “मातरि वर्तितव्यम्" "पितरि शुश्रूषितव्यमू" इत्यादी मात्रादिशब्दस्य प्रत्यासत्त्या स्वमात्रादिपरत्ववत् खत्रीपरत्वात् , तद्भिन्नानाम् , परवनितानामित्यर्थः, अपहारी-अपहरणशीलः । पुनः कर-चरणे करौ च चरणौ च तेषां समाहारः कर-चरणम् , तस्मिन् , अकृतकारुण्यः अकृतकम्-अकृत्रिमम, आरुण्यं-रक्तत्वं यस्य तादृशः, न तु शरणे दीनजनरक्षणे, अकृतकारुण्यः अकृतकृपः । अत्र सर्वत्र श्लेषानुप्राणितपरिसंख्यालङ्कारः [व]। __ पुनः कीदृगसौ राजा ? सौजन्यपरतन्त्रवृत्तिरपि सुजनस्य भावः सौजन्यम् , तत्परतन्त्रा तदधीना, वृत्तिर्वर्तनं यस्य तादृशोऽपि, असौजन्ये सौजन्यविरुद्धे दौर्जन्ये, निषण्णः स्थित इति विरोधः, तदुद्धारे तु असौ कविपरोक्षभूतः प्रकृतो राजा, जन्ये कार्ये, निषण्णः संलमः, यद्वा जन्ये युद्धे, तदवसर इत्यर्थः, असौ खने, निषण्णः तत्प्रहरणपरः, “जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम्" इति मेदिनी। पुनः नलपृथुप्रभोऽपि नलात्-नैषधनृपात्, पृथ्वी-विपुला, प्रभाराजतेजो यस्य, यद्वा नलपृथ्वोः-तन्नामकयोपविशेषयोः, प्रभेव प्रभा यस्य तादृशोऽपि, न नलपृथुप्रभ इति-अनलपृथुप्रभ इति विरोधः, तदुद्धारे तु अनलाद्-अग्नेरपि, पृथ्वी-विपुला, प्रभा-कान्तिर्यस्य तादृशः । पुनः समिद्व्यतिकरस्फुरितप्रतापोऽपि समिधा काष्ठानाम् , व्यतिकरण - मिश्रणेन, स्फुरितः-दीप्तः, प्रतापः- तेजो यस्य एवम्भूतोऽपि, अकृशानु