SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी। लक्ष्मीभिः [म], गगनाभोग इव शशि-भास्कराभ्यामच्युत इव शङ्ख-चक्राभ्यामम्भसा पतिरिवामृत-वाडवाभ्यामभिरामभीषणो यश:-प्रतापाभ्याम् [य], इन्दुविमलाभिर्जलदसमयारम्भ इव राजहंसपतिभिः प्रतिमानसं प्रस्थिताभिर्व्याप्तभुवनान्तरालो गुणपरम्पराभिः [२], असङ्ख्यगुणशालिनापि सप्ततन्तुख्यातेन सर्वदाहादितलोकेनाप्येकदानानन्दितजनेनोदात्तेनापि स्वरितेन चरितेन पविनितत्रिभुवनावनिः [ल], गमना या प्रतीहारी [म]। मानसं-चित्तं सरश्च [२] । योऽसंख्यगुणशाली-असंख्यातदवरकशोभी, स कथं समतन्तुख्यातः-सतगुणप्रसिद्धः, अन्यत्र गुणाः-शौर्यादयः, सप्सतन्तुः-यागः, यः सर्वदा माहादितलोकः, स कथमेकदाऽनानन्दितजनः?, अन्यत्र एकदानेन मानन्दितलोकः, य उदात्तस्वरः स कथं स्वरित:-समाहारः?, अन्यत्र उदात्तेन उदारेण, खरितेन स्वर्ग गतेन [ल] । माला-वरणमाला याभिस्ताभिः [ म]। पुनः कीदृगसौ राजा ? यशः-प्रतापाभ्याम् अभिरामभीषणः यशसाविक्रमकीर्तिकौमुद्या, अभिरामः-चन्द्र इव लोकप्रियः, प्रतापेन-कोशदण्डजन्यतेजसा, भीषणः-सूर्य इव लोकभयङ्करः, काभ्यां क इव ? शशि-भास्कराभ्यां गगनाभोग इव गगनाभोगः-गगनविस्तारो यथा शशिना-चन्द्रेण, अभिरामः, भास्करेण-सूर्येण, भीषणश्च भवति तथा, "आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि” इति विश्व-मेदिन्यौ, पुनः शङ्खचक्राभ्याम् अच्युत इव अच्युतो विष्णुर्यथा शङ्खन-शं कल्याण खनति जनयति यः स शङ्खः, यद्वा शाम्यति येनालक्ष्मीरसौ शङ्खः, तेन, अभिरामः-सौम्यः, चक्रेण-तम्नाम्ना अस्त्रविशेषेण, भीषणश्च भवति तथा, “पीताम्बरोऽच्युतः शाङ्गी विष्वक्सेनो जनार्दनः" इत्यमरः, पुनः अमृत-वाडवाभ्याम् अम्भसा पतिरिव अम्भसां-जलानां पतिः-समुद्रो यथा अमृतेन अभिरामः, वाडवेन-वडवानलेन, भीषणश्च भवति तथा [य] । पुनः कीदृगसो राजा ? गुणपरम्पराभिः गुणानां-दयादाक्षिण्यादीनाम् , परम्पराभिः-श्रेणीभिः, व्याप्तभुवनान्तरालः व्याप्तं भुवनान्तरालं-भुवनाभ्यन्तरं येन तादृशः, कीदृशीभिस्ताभिः ? समयारम्से जलानि ददतीति जलदा मेघाः, तेषां समयस्य-वर्षतुरूपस्य, आरम्मे उपक्रमे, राजहंसपङिभिरिव हंसानां राजानो राजहंसाः, निरुक्तपूर्वा हंसविशेषाः, तेषां पङ्किभिरिव-श्रेणीभिरिव, प्रतिमानसं प्रतिहृदयम् , पक्षे मानसाख्यसरोवराभिमुखम् , तद्दिशमित्यर्थः, प्रस्थिताभिः प्रकर्षेण स्थिताभिः, पक्षे प्रयाताभिः, इन्दुविमलाभिः पक्षद्वये चन्द्रवदुज्वलाभिः, "हंसाश्चक्राङ्ग-वकाङ्ग-मानसौकः-सितच्छदाः । राजहंसास्त्वमी चञ्च-चरणैरतिलोहितैः" ॥ इत्यभिधानचिन्तामणिः [२]। पुनः कीदृगसौ राजा ? चरितेन चरित्रेण, पवित्रितत्रिभुवनावनिः पवित्रिता-पवित्रीकृता, त्रिभुवनावनिः-वर्गमर्त्य-पातालाख्यलोकत्रयभूमिर्येन तादृशः, कीदृशेन तेन ? असंख्यगुणशालिनाऽपि असंख्या:-संख्यारहिताः, ये गुणाःतन्तवः, तच्छालिनाऽपि, सप्ततन्तुख्यातेन सप्तसंख्यकतनुख्यातेनेति विरोधः, तदुद्धारे तु दयादाक्षिण्याद्यसंख्यगुणशालिना, अथ च सप्तभिभूरादिमहाव्याहृतिभिस्तन्यते विस्तार्यत इति सप्ततन्तुर्यज्ञस्तेन, ख्यातेन-तस्कर्तृतया प्रसिद्धेन, “यज्ञो यागः सवः सत्रं स्तोमो मन्युर्मखः ऋतुः । संस्तरः सप्ततन्तुश्च वितानं बहिरध्वरः” ॥ इति हैमः, पुनः कीदृशेन ? सर्वदाहादितलोकेनापि सर्वदा-सर्वकाले, आहादिताः-आनन्दिताः, लोकाः-जना येन तादृशेनापि, एकदा एककाले, अनानन्दिता जना येन तथाभूतेनेति विरोधः, तदुद्धारे तु एकेन-प्रथमेनैव, दानेन, यद्वा प्रधानेन, दानेन, आनन्दिता जना येन तादृशेन, प्रथमवार एव सर्वार्थदानेन तोषिताय द्वितीयवारे दानानुपयोगात्; प्रधानवस्तुनो वा दानेन तद्दारेवाप्रधानार्थनिष्पत्त्या तहानानुपयोगादिति भावः, “एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते" ॥ इति । पुनः उदात्तेनापि ताल्वादिस्थानोर्श्वभागोच्चारितत्वेन तत्संज्ञकेनापि, स्वरितेन तन्मध्यभागोच्चारणनिमित्तकखारतसंज्ञकेन स्वररूपेणेति विरोधः, तदुद्धारे तु उदात्तेन हृदयप्रियेण, खरितेन खः-वर्गम् , इतेन-गतेन, तत्पर्यन्तं प्रसिद्धेनेत्यर्थः, "उदात्तोदातमहतोईद्ये च खरभिद्यपि" इति हैमः । अत्र सर्वत्र विरोधाभासोऽलङ्कारः [ल]। ...
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy