________________
६०
टिप्पनक - परागविवृति संचलिता
लोकानाम्, विशेषज्ञोऽपि समदर्शनः सर्वदर्शनानाम्, अनायासगृहीतसकलशास्त्रार्थयाऽपि नीतिशास्त्रेषु खिन्नया परमाणुसूक्ष्मयापि क्रोडीकृतत्रैलोक्यया व्यक्तविवेकयाऽप्यतिनिबिडया प्रसन्नयाऽप्यसन्निहितमदया विशालहृदयासादित स्वेच्छा व काशये वा ति दूरप्रसृतया प्रज्ञया सम्यग्ज्ञातहेयोपादेय विभागः [भ], सन्निहितदण्डनीति प्रतीहारीसमाकृष्टाभिः समन्ततः पतिवराभिरिवागत्यागत्य बद्धमालाभिराश्रितो विपक्ष
सर्वलोकानां सर्वजनानामधोलोकादीनां च । समदर्शनः समज्ञानो विरोधे, अन्यत्र समदृष्टिः । विरोधे खिन्नया खेदं गतया, अन्यत्र तत्पश्या, या परमाणुसूक्ष्मा सा कथं व्याप्तत्रिलोका ?, अन्यत्र विषयीकृत त्रिभुवना, या व्यक्तविवेकास्पष्टपृथग्भावा सा कथम् अतिनिचिडा - अतिधना, अन्यत्र विवेक:- विचारः, या प्रसन्ना - मदिरा, सा सन्निहितमत्तता, अन्यत्र प्रसन्नया निर्मलया, मदः -दर्पः [ अ ] | एकत्र दण्डनीतिः - विद्या, सैव प्रतीहारी, अन्य सन्निहितदण्ड
पक्षपातविकल इति, मनुष्यलोकपक्षे गुणैः मानात्मकानेकरज्जुभिः, उपरिस्थितोऽपि सर्वोपरिभागे वर्तमानोऽपि, सर्वलोकानाम् ऊर्ध्वाधोमध्यलोकानाम्, मध्यस्थः मध्यवर्तीति विरोधः, तत्परिहारस्तु गुणैः मोक्षार्हक्षेत्रत्वादिभिः, उपरिस्थितः अग्रणीः, मध्यस्थः ऊध्वलोकाधोलोकान्तरालवर्तीति, अत्र श्लेषानुप्राणितोपमा विरोधाभासेन संकीर्यते । पुनः सर्वदर्शनानां पारगत सुगतादिनिखिलमतानाम्, विशेषज्ञोऽपि तत्रत्यो यो विशेषः - क्षणिकत्वादिकृतवैलक्षण्यं तस्य ज्ञाताऽपि यद्वा तेषां विशेषेण ज्ञाताऽपि तेषां समदर्शनः समं सामान्यं विशेषविकलम्, दर्शनं ज्ञानं यस्य स तथेति विरोधः, तत्परिहारस्तु समं-सर्वपालकतया पक्षपात विकलम् दर्शनं-दृष्टिर्यस्य स तथेति । पुनः प्रज्ञया बुद्ध्या, सम्यग्ज्ञातहेयोपादेयविभाग सम्यक्-संशयविपर्ययरहितं यथा स्यात् तथा, ज्ञातः - विदितः, प्रमित इत्यर्थः, हेयोपादेयविभागः - हेयस्य अनिष्टजनकत्वेन वर्जनीयस्य, उपादेयस्य इष्टजनकत्वेन ग्राह्यस्य प्रवृत्तिविषयस्य च कार्यस्य, विभाग:- विवेको येन तादृशः, कृत्याकृत्यप्रवृत्तिनिरृत्तिनिपुण इत्यर्थः कीदृश्या प्रज्ञया ? अनायासगृहीत सकलशास्त्रार्थयाऽपि अनायासमेव यथा स्यात्तथा गृहीतःविषयीकृतः, सकलः- समग्रः, शास्त्रार्थो यया तथाभूतयाऽपि, नीतिशास्त्रेषु तदर्थग्रहणेषु, खिश्नया श्रमाकुलतया मन्थर विरोधः, तदुद्धारे तु खिन्नया तदीयतत्त्वानुसन्धानव्यापृतया, पुनः परमाणुसूक्ष्मयाऽपि - परमाण्वपेक्षयाऽपि सूक्ष्मयाअल्पयाऽपि, क्रोडीकृतत्रैलोक्यया त्रयाणां लोकानां भुवनानां समाहारः त्रिलोकी, सैव त्रैलोक्यम्, तत् क्रोडीकृतं भुजान्तरितं व्याप्तमिति यावत्, यया तादृश्येति विरोधः, तदुद्धारे तु परमाणुवत् सर्वत्राव्याहृतगत्या गोचरीकृतत्रैलोक्यया, करतलगतामलकवद्विश्वावभासिकयेत्यर्थः, पुनः व्यक्तविवेकयाऽपि व्यक्तः - स्फुटः, विवेकः - पार्थक्यं यस्याः, तथाभूतयाऽपि, अतिनिबिडया अतिसान्द्रयेति विरोधः, तदुद्धारे तु स्पष्टविचारया, अभेदनीयया च "विवेकः स्याज्जलद्रोण्यां पृथग्भावविचारयोः” इति मेदिनी, पुनः प्रसन्नयाऽपि मदिरारूपयाऽपि, असन्निहितमदया अस्पृष्टमदया, मदशून्ययेति यावत्, अथवा मदधातोहर्षग्लेपनोभयार्थकतया प्रसन्नयाऽपि हर्षान्वितयाऽपि, हर्षशून्ययेत्यर्थद्वये विरोधः, तदुद्धारे तु प्रसन्नया निर्मलया, असन्निहितमदया गर्वशून्यया च “मदो रेतसि कस्तूय गर्ने हर्षेभदानयोः” इति विश्वः, पुनः विशालहृदयासादितस्वेच्छावकाशयैव विशालं - बृहत्स्वरूपम्, यद् हृदयं - मेघवाहननृपस्य चित्तम्, तत्र आसादितः - लब्धः, स्वेच्छया अवकाशः–स्थानं यया तथाभूतयेवेत्युत्प्रेक्षा, अतिदूरप्रसृतया अधिष्ठानानुगुण्येन सुदूरविस्तृतथा प्रज्ञया [भ] । पुनः कीटासौ राजा ? विपक्षलक्ष्मीभिः शत्रुभूतनृपलक्ष्मीभिः, न तु कयाचिदेव तदीयलक्ष्म्या, आगत्याऽऽगत्य पुनः पुनरागत्य, ‘अगत्याऽऽगत्य' इति विश्लेषे अगत्या गत्यन्तरविरहेणेत्यर्थः, आश्रितः स्वयं निषेवितः कीदृशीभिस्ताभिः ? पर्तिवराभिरिव पति - भर्तारं वृण्वन्ति-स्वेच्छया स्वीकुर्वन्तीति पतिंवरास्ताभिरिव समन्ततः सन्निहितदण्डनीतिप्रतीहारीसमाकृष्टाभिः सन्निहिता - अध्ययनादिना हृदयङ्गता, या दण्डनीतिः -शुक्रादिप्रणीत नीतिशास्त्रोद्धृतदण्ड विषयक नीतिः, तद्रूपया प्रतीहार्या-द्वारपालिकया स्त्रिया, समन्ततः - सर्वतः समाकृष्टाभिः - विपक्षमन्दिरादाकृष्य प्रवेशिताभिः, पक्षे सनिहितेन - खावलम्बितेन दण्डेन, नीतिः - देशान्तरनयनं यस्यास्तादृश्या, प्रतीहार्या, समाकृष्टाभिः स्वयंवरणमन्दिरं प्रवेशिताभिः, बद्धमालाभिः बद्धा - रचिता, माला-श्रेणी यासां तादृशीभिः, श्रेणीबद्धाभिरित्यर्थः, पतिवरापक्षे बद्धा करे दृढं गृहीता,