________________
तिलकमञ्जरी ।
५९
स्थिदलनदन्तुरकृपाणधारः [प], अवतार इव साक्षादरुणसारथेरेकरथाक्रान्तचतुरब्धिसीमा, समस्तैकविष्टपाधिपतया तुल्यरेखया वासुकि वासवयोरवस्थितः यथाविधिव्यवस्थापितवर्णाश्रमधर्मो यथार्थः प्रजापतिः [फ ], प्रतिपक्षाणामान्तराणामन्तराणां च विनेता, प्राप्तदैवपुरुषकारानुगुण्यः, षाड्गुण्यप्रयोगचतुरः, चतसृष्वपि विद्यासु लब्धप्रकर्षः [ब], मनुष्यलोक इव गुणैरुपरिस्थितोऽपि मध्यस्थः सर्व
टिप्पनकम्-वर्णाश्रमाः- ब्राह्मणादिब्रह्मचर्यादयः [फ ] सन्ध्यादयः, चतुर्विद्या - आन्वीक्षिकी त्रयी वार्ता दण्डनीतयः [ब]
आन्तराणां निकटानाम् । षाड्गुण्यं षड्गुणाः एकत्र मध्यस्थः समचित्तः, अन्यत्र मध्यवर्ती,
www
पालकः,
धारः अवार्य - वारयितुं निवारयितुमशक्यम्, भुजबलं - बाहुविक्रमो येषां तादृशा ये अरातमः - रिपवः, तेषां कठिनानिकठोराणि, यानि कण्ठास्थीनि - प्रीवास्थीनि तद्दलने - तत्खण्डने दन्तुरा - संजातदन्ता, प्रौढेत्यर्थः, कृपाणस्य खन्नस्य धाराअप्रिमांशो यस्य तादृशः । “अभिघाति - पराऽराति प्रत्यर्थि- परिपन्थिनः" इत्यमरः [ प ] । पुनः कीदृगसौ राजा ? -अरुणसारथेः अरुणः-तत्संज्ञकः, सारथिर्यस्य तस्य, सूर्यस्येत्यर्थः, साक्षादवतार इव साक्षान्मानवीयं स्वरूपमिव, एकरथाक्रान्तचतुरब्धिसीमा एकेन - द्वितीयनृपतिरथर हितेन रथेन, आक्रान्ताः - अभिव्याप्ताः, चतुरब्धिसीमानःपूर्व-पश्चिम-दक्षिणोत्तरसमुद्ररूपाः सीमानो येन तादृशः, चक्रवर्तीत्यर्थः, सूर्योऽपि एकेन - अद्वितीयेन, रथेन, आक्रान्तान्तरिक्षसीमा । पुनः कीदृगसौ ? समस्तै कविष्टपाधिपतया समस्तम्- अखण्डम्, यद् एकं विष्टपं भुवनं मर्त्यभुवनमिति यावत् तदधिपतया - तत्स्वामित्व रूपया, वासुकि वासवयोः वसुना - स्वशिरोटतरत्नेन, कायति शब्दयतीति वासुकिः, पातालरूपाखण्डलोकाधिपतिर्नगेन्द्र इत्यर्थः, वसूनि - दिव्यरत्नानि सन्ति यस्येति वासवः, स्वर्गलोकाधिपतिरिन्द्र इत्यर्थः, तयोः, तुल्यरेखया तदुभयसाधारणधर्मरूपचिहेन उपलक्षितः सन् अवस्थितः स्थितः, “विष्टपं भुवनं जगत्” इति, “वासवो वृत्रहा वृषा" इति चामरः । पुनः कीदृगसौ ? यथाविधिव्यवस्थापितवर्णाश्रमधर्मः यथाविधि - यथाक्रमम्, व्यवस्थापिताः - खराजधान्यां विशेषेण अवस्थापिताः, वर्णानां ब्राह्मणादीनाम्, आश्रमाः - गृहाः, धर्माः - साङ्गशास्त्राध्ययनादयो येन तादृशः, अत एव यथार्थः सत्यः, प्रजापतिः पाति रक्षतीति पतिः प्रजानां पतिः प्रजापतिः, प्रजा, पक्षे प्रजापतिः ब्रह्मा, तत्पक्षे व्यवस्थापिताः - सृष्टिसमय एष विभक्ताः, वर्णाः- ब्राह्मणादयः, आश्रमाः- ब्रह्मचर्य - गाईस्थ्य-वानप्रस्थ-संन्यासाः, तेषां धर्माश्च येन स इति व्याख्येयम् । “कल्पे विधिक्रमौ” इत्यमरः, “प्रजापतिर्ना दक्षादौ महीपाले विधातरि” इति, “आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे" इति च मेदिनी [फ ] । पुनः कीदृगसौ ? आन्तराणाम् अन्तःकरणभवानां रागद्वेषादीनामन्तरङ्गाणाम्, अन्तराणां बाह्यानां नृपान्तररूपाणाम्, प्रतिपक्षाणां विपक्षाणाम्, विनेता अपनेता, “अन्तरमवकाशावधि-परिधाना- ऽन्तर्धि मेदतादर्थ्ये । छिद्रात्मीय- विना - बहिरवसरमध्येऽन्तरात्मनि च” इत्यमरः । पुनः प्राप्तदैवपुरुषकारानुगुण्यः देवस्यायं दैवः, देवसम्बन्धी यः पुरुषकारः - पराक्रमः, दैवी शक्तिरित्यर्थः, तस्य भानुगुण्यम्आनुकूल्यं प्राप्तं येन तादृशः, अनुकूलदेवताक इत्यर्थः, अथवा प्राप्तं लब्धम्, दैवस्य - भाग्यस्य तत्समुच्चितस्य पुरुषकारस्यउद्योगस्य च, आनुगुण्यं-सहकारिभावेनैककार्यानुकूल्यं येन तादृशः, “यथा येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिध्यति” इति नीत्यनुसरणशील इत्यर्थः । पुनः षाङ्गुण्यप्रयोगचतुरः षण्णां गुणानां मन्त्रगुणानां सन्धिविग्रहादीनां समाहारः षड्ढणी, सैव षाड्गुण्यम्, तस्य प्रयोगा इति षाङ्गुण्यप्रयोगाः - सन्धिविग्रहाद्यनुष्ठानानि, तत्र चतुरःकुशलः, तदुक्तम्-“सन्धिश्च विग्रहं यानमासनं च समाश्रयम् । द्वैधीभावं च संविद्यान्मन्त्रस्यैतांस्तु षड् गुणान् ” ॥ इति, पुनः चतसृष्वपि आविक्षिक्यादिषु चतुः संख्याकासु, विद्यासु, लब्धप्रकर्षः लब्धः - प्राप्तः, प्रकर्ष - उत्कर्षो येन तादृशः, तदुक्तं कामन्दकेन—“आन्विक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्चैताश्चतस्रस्तु लोकसंस्थितिहेतवः " ॥ इति [ब] । पुनः कीदृगसौ ? मनुष्यलोक इव मर्त्यलोक इव, गुणैः दयादाक्षिण्यादिभिः, उपरिस्थितोऽपि उन्नतोऽपि, सर्वश्रेष्ठोऽपीत्यर्थः, सर्वलोकानां सर्वजनानाम्, मध्यस्थः मध्यवर्ती, सर्वजनसाधारण इति विरोधः, तत्परिहारस्तु मध्यस्थः सर्वजनेषु
ލ