________________
५८
टिप्पनक-परागविवृतिसंवलिता अनङ्गमार्गणानां मर्मघट्टनव्यसनम् , वैष्णवानां कृष्णवर्त्मनि प्रवेशः, सूर्योपैलानां मित्रोदयेन ज्वलनम् , वैशेषिकमते द्रव्यस्य कूटस्थनित्यता [ध], यत्र च भोगस्पृहया दानप्रवृत्तयः, दुरितप्रशान्तये शान्तिकर्माणि, भयेन प्रणतयः, कार्यापेक्षयोपचारकरणानि, अतृप्त्या द्रविणोपार्जनानि, विनयाधानाय वृद्धोपातयः पुंसामासन् [न], तस्यां च भुवनत्रयाश्चर्यभूतायां नगर्यामवार्यभुजबलारातिकठिनकण्ठा
पगमः, न नृपेण धनापहारः कस्यापि क्रियते, कृष्णवर्म-विष्णुमार्गोऽग्निश्च, मित्रः-रविः, मित्रं-सखा, द्रव्यस्य पृथिव्यादेः, कूटस्थनित्यता सदास्थायित्व नित्यता, अन्यत्र द्रव्यस्य धनस्य, लोकानां ज्ययः [ध]। तस्यामित्यादिना राजवर्णकः [प]।
mmmmmmm
चन्द्रविकासिकमलभेदानाम् , चन्द्रविकासिकमलवनानां वा, सर्वस्वापहरणं सर्वः-सकलः, न तु कियानेव, यः स्वापःनिद्रा, सकोच इति यावत्, तस्य हारः-हरणं निरासः, न तु राज्ञा नृपेण, तत्रत्यस्य कस्यापि दोषविशेषवशेन सर्वस्वस्यअशेषधनस्य, अपहारः-खायत्तीकरणम् , “राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रिय-शक्रयोः” इति मेदिनी, “खण्डः वनान्तरे मेदे” इति विश्वः, “स्खोऽस्त्रियां धने" इत्यमरः, पुनः अनङ्गमार्गणानां कामदेवशराणामेव, मर्मघट्टनव्यसनं म्रियतेऽनेनेति मर्म हृदयादिस्थानम् , तद्घट्टने-तद्भेदने, व्यसनम्-आसक्तिः, न तु तत्रल्यानामन्येषाम् , म्रियतेऽनेन प्रकाशमानेनेति मर्म रहस्यम् , तद्घनव्यसनं-तत्प्रकटनव्यसनम् ; विद्वेषवशेन कण्ठादिमर्मस्थलोच्छेदनव्यसनं वा, “मार्गणस्तु शरेऽर्थिनि" इति हैमः, वैष्णवानां-विष्णुर्देवता येषां तेषाम् , विष्णुभक्तानामेवेति यावत् , कृष्णवर्त्मनि विष्णूपदिष्टाचारपद्धतौ, न तु तत्रत्यानामन्येषाम् , कृष्णवर्त्मनि वही ग्लानिबाहुल्येन महापातकापनोदार्थ वा प्रवेशः कृष्णे-मलिने, अपवित्रे इति यावत्, वर्मनि-मार्गे आचारै वा प्रवेशः “कृष्णवा विधुन्तुदे दुराचारे हुताशने च” इति मेदिनी, सूर्योपलानां सूर्यकान्तमणीनामेव, मित्रोदयेन सूर्योदयेन, ज्वलनं दीप्तिः, स्फुलिङ्गोद्वमनमित्यर्थः, न तु तत्रत्यानामन्येषाम् , मित्रस्यसख्युः, उदयेन-अभ्युदयेन, ऐश्वर्येणेत्यर्थः, अमर्षाग्निना प्रज्वलनम् , द्रव्यस्य परमाणुरूपस्य पृथिव्यादिद्रव्यस्य, वैशेषिकमते कणादप्रणीतवैशेषिकदर्शननये, कूटस्थनित्यता कूटवत्-अयोधनवत् , तिष्ठति प्रलयकालेऽपीति कूटस्थः, ध्वंसाप्रतियोगीत्यर्थः,, स चासौ नित्यः-प्रागभावाप्रतियोगीति कूटस्थनित्यः, तत्ता, न तु द्रव्यस्य तत्रत्यहिरण्यादिधनस्य, कूटःराशिः, कोष इत्यर्थः तत्र तिष्ठतीति कूटस्थः, स चासौ नित्यः-अक्षयः, अव्यय इति यावत्, तत्ता, धर्मकार्येषु सन्ततमेव व्ययेन तत्ताया असम्भवात् , "द्रव्यं भव्ये धने क्षमादौ जतुद्रुम-विकारयोः । विनये मेषजे रीत्याम्" इति हैमः [ध] । च पुनः, यत्र यस्यां नगर्याम् , पुंसां तत्रत्यपुरुषाणाम् , भोगस्पृहया खर्गसुखोपभोगकामनयैव, दानप्रवृत्तयः अन्नादिदानप्रसक्तयः, न तु दरिद्रजनकर्तृकयाञ्चया, दुरितप्रशान्तये ग्रहवैगुण्यादिजनकातीतानागतदुरितोपशमनायैव, शान्तिकर्माणि ग्रहादिशान्तिजनकानुष्ठानानि, न तु नृपकोपप्रशान्तये तच्छान्तिजनककर्माणि, तत्र प्रजासु नृपकोपस्यैवानुदयात्, भयेन राजभयेनेव, प्रणतयः नमस्कृतयः, न तु धनादिलाभोद्देशेन, कार्यापेक्षया "खकार्य साधयेद्धीमान्" इति नीत्या खकार्यानुरोधेन, उपचारकरणानि आराधनाकरणानि, न तु धनलिप्सया, अतृप्त्या "श्रेयसि केन तृप्यते” इति नीत्या तृप्तिराहित्येनैव हेतुना, द्रविणोपार्जनं धनोपार्जनम् , न तु दारिद्येण, विनयाधानाय विनयस्थापनायैव, वृद्धोपास्तयः
वाः, न तु किचिल्लोमेन, आसन सन्ति स्मः "पुसामासन्' इति स्थाने 'पुंसां नासन्' इति पाठे तु पुंसां दानप्रवृत्तयः भोगस्पृहया निरुकभोगेच्छया, नासन् , अपि तु सत्त्वशुद्धिद्वारा मोक्षस्पृहया, शान्तिकर्माणि दुरितशान्तये नासन् , अपि तु शान्तिसंरक्षणाय, दुरितस्य तत्राभावात् , भयेन प्रणतयो नासन् . अपि तु भक्त्या, उपचारकर्माणि खकार्यानुरोधेन नासन्. अपि तु प्रीत्यनुरोधेन, धनोपार्जनमतृप्या नासन् , अपि तु तृप्त्यैव, वृद्धोपास्तयो विनयोपदर्शनाय नासन् , अपि तु भक्त्यैवेति व्याख्येयम् [न]। भुवनत्रयाश्चर्यभूतायां भुवनानां-खर्गमर्त्यपातालानां त्रयमिति भुवनत्रयम् , तत्र आश्चर्यभूतायांशोभाभिरद्धृतरूपायाम् , तस्याम् अनुपदोपवर्णितरामणीयकायाम् , नगर्याम् अयोध्याराजधान्याम् , मेघवाहनो राजा मेषवाहननामा भूपतिः, अस्तीति शेषः, स कीदृशः ? अवार्यभुजबलारातिकठिनकण्ठास्थिदलनदन्तुररुपाण