________________
तिलकमञ्जरी ।
पक्तिभिः परिवारितप्रान्तासु प्रासादशिखरमालासु प्रावृषि कृतस्थितयो ग्रीष्मकालपरिभुक्तानामुपवनोपरुद्धपर्यन्तभुवामघस्तनभूमिकानां नोदकण्ठन्त सुकृतिनः [ त ], यस्यां च जलधरसमयनिर्धोतरेणुपटल निर्मलानामुदमसौधा पद्मरागप्राव्णां प्रभाभिरनुरञ्जितः शरस्कालरजनीषु पौरजनीवदनपराजयलज्जया प्रतिपन्नकाषाय इव व्यराजत पार्वणो रजनिजानिः [ थ ], यस्यां च तुषारसम्पर्कपटुतरैस्तरुणी कुचो ष्मभिरितस्ततस्ताड्यमाना हैमनीष्वपि क्षणदास्वमन्दीकृतचन्दनाङ्गरागगौरवमदत्ताङ्गारशकटिका सेवादरमष्टकेलिवा पिकापङ्कजवनमवुः प्रभञ्जनाः [द], यस्यां च वीथीगृहाणां राजपथातिक्रमः, दोलाक्रीडासु दिगन्तरयात्रा, कुमुदखण्डानां राज्ञा सर्वस्वापहरणम्,
५७
रजनिजानि: चन्द्रः [थ ] । राजपथातिक्रमः नृपमार्गोल्लङ्घनम् राज्ञा चन्द्रेण सर्वखापहरणं सकलनिद्रा
"
www
प्रावृषि वर्षत, मुदितगृह शिखण्डिके कारवमुखरिताभिः मुदितानां - जलदध्वनिहृष्टानाम्, गृहशिखण्डिनां-विलासो'त्सवाय गृहरक्षितमयूराणाम्, केकारवैः - केकात्मकशब्दैः, मुखरिताभिः - ध्वनिताभिः, तरुणजलदपङ्गिभिः तरुणानांसलिलसम्भारोजितानाम्, जलदानाम्, पतिभिः - श्रेणिभिः परिवारितप्रान्तासु अवरुद्धासन्न प्रदेशासु, प्रासादशिखरमालासु राजभवनोर्ध्व भूमिकामण्डलेषु, कृतस्थितयः विहितावस्थानाः सन्तः, ग्रीष्मकालपरिभुक्तानां ग्रीष्मऋतूपभुक्तसुखानाम्, उपवनोपरुद्धपर्यन्तभुवां क्रीडावनाक्रान्तप्रान्तभूमीनाम्, अधस्तनभूमिकानां नीचैस्तनप्रासादखण्डानाम्, तेषु निवस्तुमित्यर्थः, नोदकण्ठन्त नैच्छन् [ त ] । च पुनः, यस्यां नगर्याम्, शरत्कालरजनीषु शरदृतुरात्रिषु, जलधरसमयनिर्धोतरेणुपटलनिर्मलानां जलधरसमयेन - वर्षाकालेन निधौतै:- सलिलधारया प्रक्षालितैः, रेणुपटलैःधूलीकलापैः, निर्मलानां - कलितचाकचक्यानाम्, उदग्रसौधात्र पद्मरागश्रावणाम् उदग्राणाम् उन्नतानाम्, सौधान:-- प्रासादानाम्, अप्रे - उपरि, ये पद्मरागप्रावाणः- तत्संज्ञकमणिमयपाषाणविशेषाः, तेषाम्, प्रभाभिः दीप्तिभिः, अनुरञ्जितः मिश्रितः, पार्वणः पूर्णिमाभवः, रजनीजानिः रजनी रात्रिर्जाया भार्यावदुल्लास्या यस्यासौ चन्द्र इत्यर्थः, पौरजनीवदनपराजयलज्जया पौरजनीनां-नागरिकनारीणाम्, वदनैः - शरदिन्दुसमधिकसुन्दरमुखैः, यः पराजयः - तिरस्कारः, तल्लज्जया, प्रतिपन्नकाषाय इव धृतरक्तरूप इवेत्युत्प्रेक्षा, व्यराजत विशेषेणादीप्यत । "काषायोऽथ सुरभौ लोहितेऽन्यवत्" इति विश्वः [r] पुनः, यस्यां निरुक्तनगर्याम्, हैमनीष्वपि हेमन्तकालिकीष्वपि, क्षणदासु रजनीषु, तुषारसम्पर्कपटुतरैः तुषारसम्पर्केण हिमसम्पातेन, पटुतरैः - उत्कटतरैः, तरुणी कुचोष्मभिः युवतिस्तनोष्णगुणैः, "कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकागृहम् । शीतकाले भवेदुष्णमुष्णकाले च शीतलम्” ॥ इत्यनुभवात् इतस्ततः सर्वतः ताड्यमानाः आहन्यमानाः, उष्णतामापाद्यमानाः प्रभञ्जनाः महावाताः, अमन्दीकृतचन्दनाङ्गरागगौरवं चन्दनेन-रक्तचन्दनेन, योऽङ्गरागः - गण्डस्थलायजरञ्जनम् तस्य यद् गौरवं - बाहुल्यम्, तदमन्दीकृतं न मन्दीकृतं वायूपनीतोष्मसत्वेन न न्यूनीकृतम्, किमुत सर्वथा परित्यक्तं यत्र तद् यथा स्यात्तथा, एवम् — अदत्ताङ्गारशकटिकासेवादरम् अदत्तः-अकृतः, अङ्गारशकटिकायाः - अङ्गाराधान्याः, सेवायां शीतोपचारभूतायाम्, आदर:- अनुरागो यत्र कर्मणि तद् यथा स्यात्तथा, एवम्अष्टकेलिवापिकापङ्कजवनम् अद्रुष्टं तुषारपातेनादग्धम्, वायूपनीततरुणी कुचोष्मणा प्रतिबन्धादिति भावः, केलियापिकापङ्कजवनं यस्मिन् कर्मणि तद् यथा स्यात्तथेति सर्वमेतदनुपदवक्ष्यमाणक्रियाविशेषणपदम्, अवुः वान्ति स्म । “निशा निशीथिनी रात्रित्रियामा क्षणदा क्षपा" इति, प्रभजनो महावातो झञ्झावातः सदृष्टिकः" इति, “अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि " इति चामरः [ ६ ] । च पुनः, यस्यां नगर्याम्, वीथीगृहाणाम् आपणगृहाणामेव राजमार्गो भयपार्श्ववर्तिनाम्, राजपथातिक्रमः राजमार्गलङ्घनम्, न तु तत्रत्यजनानां राजपथस्य - राजशासनपद्धतेः, अतिक्रमः - अवहेलनम्, “आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम्” इति विश्वः, दोलाक्रीडासु दोलाधिकरणकदोलनात्मक क्रीडाखेव, दिगन्तरयात्रा दोलनवशादेकस्या दिशोऽपरदिग्गमनम्, न तु राजदण्डवशादन्यदि निष्काशनम्, पुनः राशा चन्द्रमसा कुमुदखण्डानां 4 तिलक०