SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ द५ तिलकमञ्जरी। यस्य फेनस्फुटप्रसृतयशोऽट्टहासभरितभुवनकुक्षिरङ्गीकृतगजन्द्रकृत्तिभीषणः प्रकाटतानेकनरकपालः प्रलयकालविभ्रमेष्वाजिमूर्धसु संजहार विश्वानि शात्रवाणि महाभैरवः कृपाणः [अ] । यस्य चाकाण्डदर्शितसकलदिग्दाहो वन इव बिडौजसो निर्ददाह महीभृत्कुलानि समन्ततः प्रज्वलत्प्रतापः [आ] । यश्च संगरश्रद्धालुरहितानामुन्नत्या तुतोष न प्रणत्या, दानव्यसनी जनानामर्थितयाऽप्रीयत न कृतार्थतया, कुशाग्रीयबुद्धिः कार्याणां वैषम्येन जहर्ष न समतया, लक्ष्मीहठाकर्षणलम्पटो देवस्य वैमुख्यमाचकाङ्क नाभिमुख्यम् , विजय यस्य मेघवाहनस्य, विश्वानि सर्वाणि, शात्रवाणि शत्रुसमूहान् , खङ्गः-असिः, भैरवः-रौद्रः, संजहार-संहृतवान् , अन्यत्र विश्वानि जगन्ति, महाभैरवः शङ्करः, संजहार, केषु? आजिमूर्धसु संग्रामशिरस्सु, अन्यत्र प्रलयकालेषु, यश एवाट्टहासः, अन्यत्र यशोबदट्टहासः, तथा अङ्गीकृतगजेन्द्रकृत्तिभीषणः स्वीकृतकरीशच्छेदनभीषणः, अन्यत्र स्वीकृतगजासुरचर्मरौद्रः, तथा प्रकटितानेकनरकपालः प्रकाशितबहुपुरुषशिरोऽस्थिः, अन्यत्र प्रकाशितनानानिरयरक्षः [अ] महीभृतः-गिरयो राजानश्च [आ]। - अनुपदवर्णितं मेघवाहननृपं पुनरुपवर्णयति-यस्येति । यस्य प्रकृतस्य मेघवाहननृपतेः, कृपाणः खङ्गः, प्रलयकालविभ्रमेषु प्रलयकालस्य-विश्वविध्वंसनकालस्य, विभ्रमः-प्रलयाधिकरणत्वेन साम्याद् विशेषेण भ्रान्तिर्येषु तादृशेषु, प्रलयकालस्थानीयेष्वित्यर्थः, आजिमूर्धसु संग्रामारम्भेषु, आजे:-सङ्ग्रामस्य, तदुपलक्षितक्षेत्रस्येत्यर्थः, मूर्धसु-अग्रभागेषु वा, विश्वानि सर्वाणि, शात्रवाणि शत्रूणां समूहः शात्रवम् , तानि, शत्रुकुलानीत्यर्थः, संजहार सम्यक्-निःशेषमित्यर्थः, जहार-विध्वंसयामास, "आजिः स्त्री समभूमी सङ्ग्रामे" इति मेदिनी, कीदृशोऽसौ कृपाणः ? महाभैरवः महांश्चासौ भैरवः-रिपुभयङ्करः, पक्षे महांश्चासौ भैरवः-शिवः, महाकालरूप इत्यर्थः, “भीषण भैरवं घोरं दारुणं च भयानकम्” इति, “स्याद् व्योमकेशः शिपिविष्टभैरवो दिकृत्तिवासा भव-नीललोहिती सर्वज्ञ-नाट्यप्रिय-खण्डपर्शवो महापरा देव-महेश्वरा हरः ॥ इति चाभिधानचिन्तामणिः, कुतस्तस्य महाभयङ्करत्वं महाकालरूपत्वं चेत्याह-फेनस्फुटप्रसृतयशोऽट्टहासभरितभुवनकुक्षिः फेनवत्-समुद्रकफवत्, “हिण्डीरोऽब्धिकफः फेनः" इत्यमरः, स्फुटं व्यक्तं यथा स्यात्तथा, प्रसृतानि-विस्तृतानि, यानि यशांसि-- दस्युदलदलनकौशलकीर्तयः, तद्रूपैः, अट्टहासैः-प्रलयकालिकमहाकालकर्तृकमहाहासः, भरितः-पूरितः, भुवनकुक्षिः-भुवनमध्यं येन तादृशः, पुनः अङ्कीकृतगजेन्द्रकृत्तिभीषणः अङ्गीकृतया-स्वकर्तव्यत्वेन पक्षे स्वपरिघातव्यत्वेन स्वीकृतया, गजेन्द्राणांरिपुसम्बन्धिना पट्टहस्तिनाम् , पक्षे गजेन्द्रस्य-गजासुरस्य, कृत्या-छेदनक्रियया, पक्षे चर्मणा, भीषण:-भयानकः, “अजिनं चर्म कृत्तिः स्त्री" इत्यमरः, पुनः प्रकटितानेकनरकपालः प्रकटिताः स्वमारितारिनिग्रहाय अवतारिताः, पक्षे खग्रीवायां मालारूपेण प्रकाशिताः, अनेके नरकपाला:-नरकरक्षका यमदूताः, पक्षे नराणां-मनुष्याणाम् , कपाला:--शिरोऽस्थीनि येन तादृशः "कपालोऽस्त्री शिरोऽस्थि स्याद्, घटादेः शकले ब्रजे” इति मेदिनी, अत्र श्लेषानुप्राणितरूपकालङ्कारः [अ]। पुनः यस्य प्रकृतनृपतेः, अकाण्डदर्शितसकलदिग्दाहः अकाण्डे-अनवसरे, अतर्कितमेवेत्यर्थः, दर्शितः-अनुभावितः, सकलदिक्षु दाहः-सकलदिग्वर्तिनां शत्रूणामन्तःसन्तापो येन तथाभूतः, समन्ततः सर्वतः, प्रज्वलत्प्रतापः देदीप्यमानराजतेजः, बिडौजसः विडति-भिनत्तीति विडम् , तादृशम् ओजो-बलं यस्यासौ बिडौजा इन्द्रः, तस्य, "विडोजाः पाकशासनः" इत्यमरः, वन इव, महीभृत्कुलानि महीभृता-शत्रुभूतानां राज्ञाम् , पक्षे पर्वतानाम् , कुलानि, निर्ददाह भस्मीचकार । अत्र श्लेषानुप्राणितोपमालङ्कारः [आ] 1 च पुनः, यः प्रकृतनृपतिः, यतः सङ्गरश्रद्धालुः सङ्ग्रामश्रद्धाशीलः, अतः अहितानां शत्रूणाम् , उन्नत्या बलदर्पण, तुतोष सन्तुष्यन्नासीत् , न तु प्रणत्या कातरतया नमस्कारेण, तथा सति स्पर्धानुदयेन तैः सह संग्रामायोगात् , अतः परं प्रतिवाक्यं यश्चेति पदमनुवर्तते, यतश्च दानव्यसनी दानव्यासगी, अत एव, जनानां लोका. नाम् , आर्थितया याचकवृत्त्या, अप्रीयत अतृप्यत, न तु कृतार्थतया सिद्धार्थतया, तथा सति याच्मानुदयेन दानायोगात्, यतश्च कुशानीयबुद्धिः कुशाग्रीया-कुशाग्रमिव अतिसूक्ष्मा, बुद्धिर्यस्य तादृशः, अतिसूक्ष्मदर्शीत्यर्थः, "कुशाग्रीयमतिः सूक्ष्मदशी" इति हैमः । अत एव कार्याणां कृतिविषयाणाम् , वैषम्येण दुरूहत्वेन, दुष्करत्वेनेति यावत् , जहर्ष हर्षमनुबभूव, ९ तिलक०
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy