________________
. टिप्पनक - परागविवृतिसंवलिता
श्रीसंविभागकृपणः स्वानुजीविनां भीरुतया रेमे न शौण्डीरतया, धैर्यव्यक्तिकामी व्यसनाय स्पृहया कार नाभ्युदयाय, विनयचिकीर्षायासितमतिर्गुरूणां कोपेन मुमुदे न प्रसादेन, सकलाधर्मनिर्मूलनाभिलाषी करवतारस्योदकण्ठत न कृतयुगस्य [ इ ] । यस्य च प्रताप एव वसुधामसाधयत् परिकरः सैन्यनायकाः, महिमैव राजकमनामयन्नीतिः प्रतीहाराः, सौभाग्यमेवान्तःपुरं ररक्ष स्थितिः स्थापत्याः, आकार एव प्रभुतां शशंस परिच्छदश्छत्रचामरप्राहाः, तेज एव दुष्टप्रसरं रुरोध राज्याङ्गमङ्गरक्षाः, आझैवान्यायं न्यषेधयद् धर्मो धर्मस्थेयाः, रूपमेव मनस्विनी: प्रसादमनयद् विनोदो नर्मसचिवाः, धार्मिकतैव दुरितानि प्रतिचकार प्रपञ्चः
६६
टिप्पनकम् - आयासिता - प्रयत्रीकृता निष्पन्ना वा [इ] । धर्मस्थेयाः धर्मकरणाधिकारिण: [ ई ] |
तत्रैव सूक्ष्मबुद्धेरुपयोगात्, न तु समतया सरलतया, सुकरत्वेनेति यावत्, स्थूलबुद्ध्याऽपि तेषां निष्पत्तिसम्भवेन तत्र तदनुपयोगात्, यतश्च लक्ष्मीहठाकर्षणलम्पटः लक्ष्म्याः, हठेन- बलात्कारेण, आकर्षणे- वशीकरणे, लम्पट:- प्रगल्भः, अत एव देवस्य लक्ष्मीप्रयोजकभाग्यस्य, वैमुख्यं प्रातिकूल्यम् आचकाङ्क्ष आकाङ्क्षितवान् तथा सत्येव हठाकर्षणसम्भवात् न तु आभिमुख्यम् आनुकूल्यम् तथा सति स्वयमेव तदागमनसम्भवेन तदाकर्षणानुपयोगात्, यतश्च विजयश्रीसंविभागकृपणः विजयश्रियः - विजय कीर्तिसम्पदः, संविभागे - स्वानुजीवियोधेभ्यो वितरणे, कृपणः अनुदारः, स्वस्यैव सम्पूर्णविजयश्रियोऽभिलषितत्वादिति भावः, अतः स्वानुजीविनां खेनानुजीवनशीलानां योद्धृणाम् भीरुतया संग्रामे कातरतया, रेमे प्रसन्नो बभूव, न तु शौण्डीरतया संग्रामप्रगल्भतया तथा सति तैरपि रिपुविजयसम्भवेन तेभ्योऽपि विजयश्रियो विभागौचित्यापत्तेः, यतश्च धैर्यव्यक्तिकामः धैर्यस्य - विपत्सहिष्णुतायाः, व्यक्ति-लोके प्रसिद्धिं कामयते यः, तादृश आसीत्, अत एव व्यसनाय विपदे, स्पृहयाञ्चकार स्पृहां कृतवान्, न तु अभ्युदयाय सम्पदे, तथा सति धैर्यानुपयोगेन तद्व्यक्तरसिद्धेः, यतश्च विनयचिकीर्षा यासितमतिः विनयचिकीर्षया निजनम्रत्वसम्पिपादयिषया, तलिप्सयेति आयासिता - प्रयत्नीकृता निष्पन्ना वा, बुद्धिर्यस्य तादृशः, अत एव गुरूणां धर्मशास्त्रार्थदेशकानां श्रेष्ठजनानां वा कोपेन, मुमुदे हृष्ट आसीत्, तथा सत्येव नम्रताया उपयोगात्, न तु प्रसादेन, तथा सति तदनुपयोगात्, यतश्च सकलाधर्मनिर्मूलताभिलाषी सकलानाम्-अशेषाणाम्, अधर्माणां - पापानाम्, निर्मूलने विध्वंसने, अभिलाषी, अत एव कले: कलियुगस्य, अवतारस्य प्रादुर्भावस्य उदकण्ठत उत्कण्ठितवान् तत्रैवाधर्मभूयस्त्वेन तन्निर्मूलनाभिलाषपूर्तिसम्भवात् न तु सत्ययुगस्य तत्राधर्मानुदयात्, अत्र काव्यलिङ्गपरिसंख्यालङ्कारसङ्करः [इ] 1
यावत्,
रक्षकाः,
पुनः यस्य प्रकृतनृपतेः, प्रताप एव कोशदण्डजन्यतेज एव, वसुधां पृथ्वीम्, असाधयत् वशमनयत् एवं तर्हि सैन्यनायकाः कथमित्याह-सैन्यनायकाः सेनापतयः परिकरः परिवारमात्रम्, “भवेत् परिकरो बाते पर्यङ्क-परिवारयोः" इति विश्वः, महिमैव माहात्म्यमेव, राजकं राजसमूहम्, अनमयत् नमितवान् एवं तर्हि प्रतीहाराः कथमित्याहप्रतीहाराः द्वारपालाः, नीतिः राजशासनपद्धतिरेव, सौभाग्यमेव अनन्यसाधारण सौन्दर्येण राज्ञीजन निरतिशयस्नेहास्पदत्वमेव, अन्तःपुरं राज्ञीमन्दिरम् पुरुषान्तरेभ्यो न्यवर्तयत्, एवं तर्हि स्थापत्याः कथमित्याह - स्थापत्याः अन्तःपुरबाह्य,“सौविदल्लाः कम्बुकिनः स्थापत्याः सौविदाश्च ते” इत्यमरः, स्थितिः अन्तःपुरमर्यादैव, आकार एव कविजनप्रसिद्धालोकपालांशमयत्वेन लोकोत्तरमवयवसंस्थानमेव, प्रभुतां वसुधाधिपत्यम्, शशंस सूचयामास, " वपुराख्यातिगौरवम्” इत्युक्तः, एवं तर्हि छत्रचामरप्राहाः कथमित्याह- छत्रचामरग्राहाः छत्रचामरधारिणः परिच्छदः परिवार एव, तेज एव प्रभाव एव, दुष्टप्रसरं विद्वेषिजनानां संचारम्, रुरोध निवर्तयामास एवं तर्हि अङ्गरक्षकाः कथमित्याह-अङ्गरक्षाः विद्वेषिवर्गेभ्यो देहरक्षणकारकास्तु, राज्याङ्ग राज्याङ्गमात्रम्, आझैव शासनमेव, अन्यायं नीतिविरुद्ध प्रवृत्तिम्, न्यषेधयत् न्यवारयत्, एवं तर्हि धर्मस्थेयाः कथमित्याह - धर्मस्थेयाः धर्मकरणाधिकारिणः, धर्मः राजधर्म एव, "स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते” इति मेदिनी, रूपमेव नयनाहादक देहस्वरूपमेव, मनस्विनीः मानिनीजनान्, प्रसादं प्रसन्न - ताम्, अनयत् प्रापयत्, एवं तर्हि नर्मसचिवाः कथमित्याह - नर्मसचिवाः कान्ताखान्तोत्सुकीकरणकुशलाः केलिसहायाः, विनोदः कौतुकमेव, "द्रब- केलि - परीहासाः क्रीडा खेल। च नर्म च" इत्यमरः, “मन्त्रि - सहायौ सन्विवौ” इति शाश्वतः, धार्मिकतैव धर्माचरणशीलमेव, दुरितानि दुइ-दुःखम् इतं - प्राप्तं यैस्तानि पापानि, प्रतिचकार प्रतिरुरोध, खयमेव