Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। पुरोधसः, प्रज्ञैव मत्रान् निश्चिकाय शोभा मत्रिणः, आभिगामिकगुणग्राम एव परपक्षमाचकर्ष रूढिगूढपुरुषाः, त्याग एव दिक्षु कीर्तिमगमयद् विभवो बन्दिपुत्राः [ई] । यस्य चाश्ववृन्दरहिता अपि मुक्तमण्डला बभूवुः, समस्तानेकपदा अप्योजस्वितां विजहुः, अस्वरवर्णा अपि परं न व्यञ्जनमशिश्रियन्त शत्रवः [उ] । यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमती धातूनां सोपसर्गत्वम् , इक्षणां पीडनम् , पक्षिणां दिव्यग्रहणम् ,
टिप्पनकम्-अश्ववृन्दरहिता अपि ये कुर्कुरवृन्दसहितास्ते कथं मुक्तमण्डलाः त्यक्तश्वानः ?, अन्यत्र घोटकसंघातशून्याः, तथा त्यक्तदेशाः, ये समस्तानेकपदाः कृतसमासबहुपदाः, ते कथम् ओजस्वितां समासभूयस्त्वम्, तत्यजुः ?, अस्वरवर्णा अपि ये स्वररहितवर्णास्ते कथं परं व्यजनं न श्रितवन्तः?, अन्यत्र शब्दश्लाघारहिताः, नव्यं नूतनम् अन्यान्यं जनम् [3] । सोपसर्गत्वं प्रादियुक्तत्वम् , न लोकानां देवाधुपद्रवः, पीडन
जनो धर्ममाचचार, न तु पुरोहितप्रयोजनम् , न वा तस्य प्रायश्चित्तप्रयोजनमासीत् , दुरितानुदयादिति भावः, तर्हि पुरोहिताः किमर्था इत्यत आह-पुरोधसः पुरोहितास्तु, प्रपश्चः धर्माचरणकालिकलोकबाहुल्यमात्रम्, धर्मसाक्षिमात्रमिति यावत्
"पुरोधास्तु पुरोहितः” इत्यमरः, प्रझैव तदीयोहापोहमयी बुद्धिरेव, मन्त्रान् गुप्तविवेचनीयविषयान् , निश्चिकाय निश्चित'वती, तर्हि मन्त्रिणः किं फलमित्यत आह-मन्त्रिणः गुप्तविवेचकाः, शोभैव राज्ञ एकाकित्वानौचित्येन तत्स्वरूपशोभामात्रमिति भावः, आभिगामिकगुणग्राम एव अभिगामः-उज्वलतया "विकसन्त्येव ते स्वयम्" इत्युक्तेः स्वयमेव लोकाभिमुखी. भवनं शीलमस्य स आभिगामिकः, तादृशो गुणग्रामः-शूरत्वादिगुणसमूह एव, परपक्षं शत्रुपक्षम् , आचकर्ष आकृष्टवान्, गूढपुरुषाः गुप्तचरास्तु, रूढिरेव राज्ञो गुप्तचरा भवन्तीत्यनादिकालिकप्रसिद्धिरेव, तत्प्रसिद्धिरक्षणार्था एवेति भावः, “परः श्रेष्ठा ऽरि-दूरान्योत्तरे क्लीबं तु केवले" इति मेदिनी, त्याग एव योग्यपात्रे धनत्याग एव, दिक्षु दशसु दिक्षु, कीर्तिं तदीयवदान्यतायशः, अगमयत् प्रापयत् , बन्दिपुत्राः बन्दिनां-स्तुतिपाठकानाम् , पुत्रास्तु, विभवः राजकीयशोभासम्पन्मात्रम् । अत्र सर्वत्रार्थिकपरिसंख्यालङ्कारो बोध्यः [ई]! च पुनः, यस्य मेघवाहननाम्नः प्रकृतनृपतेः, शत्रवः, अश्ववृन्दरहिता अपि शुनो वृन्दं श्ववृन्दं तेन रहिता इति श्ववृन्दरहिताः, न श्ववृन्दरहिता इति अश्ववृन्दरहिताः, राजधानीरक्षकविधया कुकुरकलापान्विता अपि, मुक्तमण्डलाः त्यक्तकुक्कुरा इति विरोधः, तत्परिहारे तु घोटकवृन्दरहिताः, मुक्कमण्डला: तद्भयेन त्यक्तदेशाश्चेति बोध्यम् । किञ्च समस्तानेकपदा अपि समस्तानि- समासापच्चानि, अनेकानि-बहुलानि, पदानिस्याद्यन्तत्याद्यन्तानि येषां तादृशा अपि-तादृशपदप्रयोक्तारोऽपि, यस्य शत्रवः, ओजस्वितां खप्रयुक्तपदेषु ओजोगुणवत्ताम्, विजः तत्यजुरिति विरोधः, समासबाहुल्यस्य ओजोगुणाव्यभिचारित्वात् , यद्वा समस्तानि-सम्पूर्णानि, अनेकानि, पदानिलोकानां स्थानानि जनपदा येषां तादृशा अपि, ओजस्वितां बलवत्ताम्, विजह त्यक्तवन्त इति विरोधः, बलवत्ताविरहे अनेकसमस्त जनपदवामित्वायोगात्, तदुद्धारे तु समस्तान्-सर्वान् , अनेकपान्-हस्तिनः, ददति-उपायनरूपेण वितरन्ति, यद्वा वहस्तिनो धन्ति-सङ्कामे तत्सैन्यैः खण्डयन्तीति समस्तानेकपदाः, यद्वा सम्यग् अस्तानि-विध्वंसितानि, अनेकानि, पदानिस्थानानि येषां तादृशाः सन्तः, ओजस्वितां वबलम् , विजहुः तत्यजुरित्यर्थः । किञ्च, अस्वरवर्णा अपि खरहीनवर्णा अपि, खराव्यवहितव्यजनरूपा अपीति यावत् , यस्य शत्रवः, परम् अन्यद्, व्यजनं न अशिश्रियन्त श्रितवन्तः, संयुक्तवन्त इति यावत्, इति विरोधः, खरहीनो वर्णः परं धावतीति न्यायातिकमात्, तदुद्धारे तु अस्वरवर्णाः अनभिव्यज्यमानकण्ठध्वनयः, दुःखातिशयेन मौनावलम्बनात्, अनभिव्यज्यमानक्षत्रियादिवर्णाश्च, वर्णधर्मभ्रंशात्, परम् उत्कृष्टम् , व्यञ्जनं छत्रचामरादिरूपम् , न अशिश्रियन्त, यद्वा परम् अन्यम् , नव्यं नवीनम् , जनं स्वसहायतया अशिश्रियन्त, इत्यर्थो बोध्यः, "स्यान्मण्डलं द्वादशराजके च देशे च विश्वे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्यकेऽपि भुजङ्गभेदे शुनि मण्डलः स्यात्" ॥ इति विश्वः, "द्विरदोऽनेकपो द्विपः” इत्यमरः [उ]। च पुनः, अनुपर्तितशास्त्रमार्गे अनुसृतनीतिमार्गे, यस्मिन् मेघवाहने राजनि, वसुमती पृथिवीम् , प्रशासति प्रकर्षेण अधिकुर्वति सति, धातूनां क्रियावाचिनां भ्वादीनामेव, सोपसर्गत्वम् उपसगैः-"प्र-पराऽ-पऽसमन्वव-निर्दुरभि-व्यधि-सूदति-नि-प्रति-पर्यपयः । उप आलिति विंशतिरेव सखे 1 उपसर्गगणः कथितः कविना" ॥ इति कविपरिगणितैरुपसर्गसंशकैः प्रादिभिः, सहितत्वं बभूव, न तु लोकानाम्, उपसर्गेण-व्याधिना उपद्रवेण वा, सहितत्वम् , “उपसर्गः पुमान् रोगभेदोपप्लवयोरपि” इति मेदिनी । इक्षणाम् इक्षुदण्डानामेव, पीडनं यन्त्रेण रसनिष्काश
Loading... Page Navigation 1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196