Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
५५
तिलकमञ्जरी। [अ], महापार्थिववरूथिनीवानेकरथ्यासङ्घला, राज्यनीतिरिव सत्रिप्रतिपाद्यमानवार्ताधिगतार्था, अर्हद्दर्शनस्थितिरिव नैगमव्यवहाराक्षिप्तलोका, रसातलविविक्षुरविरथचक्रभ्रान्तिरिव चीत्कारमुखरितमहाकूपारघट्टा, सर्वाश्चर्यनिधानमुत्तरकौशलेष्वयोध्येति यथार्थाभिधाना नगरी [ट }। या सितांशुकरसम्पर्कादपरिस्फुटस्फटिकदोलासु बद्धासनैर्विलासिमिथुनैरवगाह्यमानगगनान्तरा समन्तादन्तारेक्षसंचर
एकत्र अनेकरथ्यासकला नानारथसमूहन्याता, अन्यत्र बहुसेरिकायुक्ता । एकत्र सत्रिप्रतिपाद्यमानवार्ताधिगतार्था चरकथ्यमानप्रवृत्तिज्ञाप्ताभिधेया, यद्वा सह तिसृभिर्विद्याभिर्वर्तते या सा सन्निः, प्रतिपाद्य. माना-अभिधीयमाना, वार्ता-कृष्यादिकर्म, तया प्राप्तधना, अन्यत्र दानशालानायकसमपर्यमाणकृष्यादिकर्मप्राप्तशाल्याद्या, यद्वा दानवाधिकृत[ सर्वदान्नदानक्षेत्राधिकृत दीयमानदुःखितनरप्राप्तधना । एकत्र नैगमव्यवहाराक्षिप्तलोका नैगमव्यवहाराभ्याम् आक्षिप्ता दत्तावधाना लोका जना यस्यां सा तथोक्ता, अन्यत्र वणिरव्यवहारदत्तावधानजना । एकत्र चीत्कारमुखरितमहाकूपारघटा ध्वनि विशेषावधिरितबृहत्समुद्रजलावतरणस्थाना, अन्यत्र चीत्कारमुखरितबृहत्कूपकाष्टघट्टादियन विशेषा । यथार्था योद्धुमशक्या [2] ।
mawM
रिव, न त्वेकेन ब्रह्मणा, उत्पादितपौरा सृष्टनिरुक्तनगरीनिवासिजना ! पुनः लक्ष्मीसहनैरिव न त्वेकया लक्ष्म्या, परिगृहीतगृहा परिगृहीताः-व्याप्ताः, गृहा यस्यां तादृशी । पुनः देवतासहस्तैरिव न तु कतिपयदेवताभिः, अधिष्ठितप्रदेशा आक्रान्तसकलस्थाना [अ] । पुनः कीदृगसौ नगरी? महापार्थिववरूथिनीव महापार्थिवस्य-महाभूपतेः, वरूथिनी-सेना इव, अनेकरथ्याकुला अनेकाभिः, रथ्याभिः-प्रतोलीभिः, पक्षे अनेकैः, रथ्यैः-रथसमूहै :, आकुला-व्याप्ता । पुनः राजनीतिरिव सत्रिप्रतिपाद्यमानवााधिगतार्था सत्रं-सदैवान्नदानक्षेत्रम् , तदस्ति यस्यासौ सत्री, तेन प्रतिपाद्यमानः- दीनजनेभ्यो वितीयमाणः, वार्तया-कृष्यादिकर्मणा, अधिगतः, अर्थः-तण्डुलादिरूपो यस्याम् , यद्वा सत्रिभिः-अन्नदानक्षेत्राधिकारिभिः, प्रतिपाद्यमान:-दरिद्रेभ्यो दीयमानः, वा निश्चयेन, ये आर्ताः-पुत्रवैकल्यादिपीडिताः, तेभ्यः, अधिगतःतेषामभ्युदयाय तेभ्यः प्राप्तः, अर्थः-दानार्थधनं यस्याम् , यद्वा मानवानां मध्ये य आर्तास्ते मानवार्ताः, तदधिगतोऽर्थः सन्त्रिप्रति. पाद्यो यस्याम् , यद्वा सत्रं यज्ञस्तदस्ति येषां तैः सत्रिभिः-यजमानैः, प्रतिपाद्यमानः-ऋत्विगाचार्यादिभ्यो दक्षिणारूपेण दीयमानः, वार्ताधिगतार्थः- ऋष्यादिद्वारोपार्जितार्थो गो-हिरण्यादिरूपो यस्यां तादृशी, राजनीतिपक्षे तु सत्री-कपट वेषधारी गूढचरः, तेन प्रतिपाद्यमाना-कथ्यमाना, या वार्ता-परराष्ट्रवृत्तान्तः, तया, अधिगतः-लब्धः, अर्थः-धान्यादिरूपं धनं यस्यां तादृशी । “सत्रं यज्ञे सदादानाच्छादनारण्यकेतवे” इति मेदिनी, “वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्याधुदन्तयोः” इति, "वा स्थाद्विकल्पोपमयोरिवार्थेऽपि समुच्छ्रये" इति च विश्वः। पुनः अर्हदर्शनस्थितिरिव जैनशासनव्यवस्थेव, नैगमव्यवहाराक्षिप्तलोका नैगमस्य-वणिजः, व्यवहारेण-आचरणेन सद्योमूल्यमनासाद्यापि वस्तुदानादिरूपेण, आक्षिप्ताः- आकृष्टाः, लोका यस्याम् ,पक्षे नैगमनयेन व्यवहारनयेन च आक्षिप्ताः-अवहिताः,लोका यस्यां तादृशी, "नेगमो नयपौरोपनिषदृतिषु वाणिजे" इत्यनेकार्थसङ्ग्रहः । पुनः रसातलविविक्षुरविरथचक्रभ्रान्तिरिव रसा-पृथ्वी-तस्यास्तलं-पातालम् , विविक्षुः प्रवेष्टुमिच्छुः, यो रविः-सूर्यः, तदीयरथचक्रस्य, भ्रान्तिरिव-भ्रमणमिव, चीत्कारमुखरितमहाकूपारघट्टा चीत्कारेण-ध्वनिविशेषेण, मुखरिता:-ध्वनिताः,महाकूपानां गुरुगभीरकूपानाम् , अरघट्टाः-जलोद्धरणकाष्ठादिया यस्यां तादृशी, पक्षे चीत्कारेणभ्रमद्रथचक्रध्वनिविशेषेण, मुखरिताः-प्रतिशब्दिताः, महाकूपाराणां महासागराणाम् , घट्टाः-जलावतारप्रदेशा ययेत्यर्थः, "रसा विश्वम्भरा स्थिरा" इत्यमरः । अत्र सर्वत्र श्लेषानुप्राणितोपमालङ्कारः । पुनः सर्वाश्चर्यनिधानं सर्वेषामाश्चर्याणाम्-अद्भुतानां वस्तूनाम् , निधानं-निधिभूता, उत्तरकोशलेषु कोशलदेशोत्तरखण्डमध्ये, अयोध्येति यथार्थाभिधाना यथार्थ-केनापि योद्धमशक्येत्यर्थानतिकामि. अयोध्येत्यभिधानं नाम यस्यास्तादृशी नगरी, अस्तीति पूर्वोक्तक्रियापदेनान्वेति, "आख्याहे अभिधानं च नामधेयं च नाम च” इत्यमरः [2]। या निरुक्तपूर्वा अयोध्या नगरी, सितांशुकरसम्पर्काद् सितांशो:-चन्द्रस्य, करसम्पर्कात्-किरणसंमिश्रणात् , अपरिस्फुटस्फटिकदोलासु अपरिस्फुटानां-भेदेनाप्रतिभासमानकिरणानाम् , स्फटिकानां दोलासु-तादृशस्फटिकमयेषु दोलनात्मकक्रीडायन्त्रेषु, बद्धासनैः कल्पितासनैः, विलासिमिथुनैः विलासी च-विलासशीलच,
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196