Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 89
________________ - "निय. तिलकमञ्जरी। परानुपहासिभिर्नर्मशीलैः सर्वस्य गुणग्राहिभिः सन्तुष्ठर्यसनेष्वपरित्यागिभिः सर्वदा संविभौगपर: परोपकारिभिरात्मलाभोवतैः [3], कतिपयकलापरिग्रहं ग्रहपतिमप्युपहसद्भिर्मित्रमण्डलपराङ्मुखमनूरुमपि निरस्यद्भिर्लक्ष्मीप्राप्तये गाढधृतभूभृत्पादं वासुदेवमपि विप्लावयद्भिः स्नेहशून्यमानसं जिनमप्यवजानाद्भर्निवासिलोकैः सङ्खला [च ], विरचितालकेव मखानलधूमकोटिभिः, स्पष्टिताञ्जनतिलकबिन्दुरिव बालोद्यानैः, आविष्कृतविलासहासेव दन्तवलभीभिः, आगृहीतदर्पणेव सरोभिः [छ), सकृत कथं परेषामनुपहासिनः? अन्येषामुपदासिन एव भवन्तीति विरोधः, परिहारस्तु परान् उपहासिमिः उपहसन्नि. रुपहासयनिर्वा । ये गुणग्राहकाः [ रजु ग्राहकाः । ते कथं सन्तुष्टाः? अन्यत्र गुणग्राहिभिः गुणभाषकैः । ये परिसमन्तात् , अत्यागिन:-अदातारः, ते संविभागपराः कथम् ? अन्यत्र अपरित्यागिभिः अत्यजनशीलैः । ये परेषामुप. कारकास्ते कथमात्मनो लाभे उग्रताः ? आत्मलाभ:-भारमसंस्कारः, तत्रोद्यमपराः [ङ । ग्रहपतिमपि चन्द्रमपि, कला-विज्ञानं षोडशभागश्च । मित्रमण्डलम्-आदित्यबिम्बं सुहृत्संघातं च, अनूरुं सूर्यसारथिम् । भूभृत्पाद-राज. चरणं मन्दरपत्यन्तगिरि च । नेहः-रागः [च] । अञ्जनतिलकबिन्दवो वृक्षाः, अन्यत्र विशेषकः [छ]। पहासिभिः परेषामुपहासाकर्तृभिरपि, नर्मशीलैः उपहासशीलैरिति विरोधः, उपहासशीलानां तदकर्तृत्वासम्भवात् , प्रतिशब्दमध्याहृत्य परान् अन्यान् प्रति उपहासिभिरित्यर्थेन तु तत्परिहारः । पुनः सन्तुष्टैः सर्वथा पूर्णकामैरपि, सर्वस्य गुणग्राहिभिः रज्वपहारिभिः गुणसङ्ग्राहिभिर्वेति विरोधः, गुणग्राहिभिः गुणी गुणं वेतीति न्यायेन गुणाभिज्ञैः गुणोपवर्णयितृभिर्वा, इत्यर्थेन तु तत्परिहारः । पुनः सर्वदा सर्वकाले, संविभागपरैः सम्यग विभाग:-विभजनम् , विभज्य धनादानमि- . त्यर्थः, तत्परैरपि-तदासक्तैरपि, अपरित्यागिभिः अप्रदानशीलैरिति विरोधः, संविभागपरैः अतिथिसंविभागपरैः सम्यक्प्रकारेण दायादैः सह दायग्रहणतत्परैर्वा, अपरित्यागिभिः वियदि निजबन्धुजनानुपेक्षिभिरित्यर्थेन तु तदुद्धारः । पुनः आत्मलाभोद्यतैः अब्भक्षन्यायेन खलाभमात्रतत्परैरपि, खार्थमात्रपरैरपीत्यर्थः, परोपकारिभिः परलाभकारिभिरिति विरोधः, आत्मलाभोद्यतैः विस्मृतग्रीवागतत्रैवेयकन्यायेन आत्मप्राप्तिप्रवणः, आत्मसाक्षात्कारपरैः, अत एव परोपकारिभिः परोपकारब्रतिभिरित्यर्थेन तु तदुद्धारः [6] । पुनः कीदृशैः ? कतिपयकलापरिग्रहम् अपूर्णकलम् , प्रहपतिमपि चन्द्रमपि, उपहसद्भिः स्वपूर्णकलाभिस्तिरस्कुर्वद्भिः, कला-विज्ञानं षोडशभागश्च ! पुनः मित्रमण्डलपराङ्मुखं सूर्यमण्डलविमुखम् , तदनभिमुखमित्यर्थः, अनूरुमपि अरुविहीनम् अरुणसंज्ञकं सूर्यसारथिमपि, निरस्यद्भिः तिरस्कुर्वद्भिः, किमुत सुहृन्मण्डलविमुखमन्यं पुरुषम् , सूर्यसारथिः सूयाभिमुखीभूय सूर्याधिष्ठितरथं वाहयितुं न शक्नोतीति तदनुरोधेऽपि मित्रमण्डलवैमुख्येन हेतुना परिहासास्पदतामुपैति चेदन्यस्य मित्रमण्डलविमुखत्वे सुतरामुपहासास्पदत्वमिति भावः, खयं सदैव सुहृन्मण्डलानुरक्तरित्यर्थः, "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरः, "मित्रं सुहृदि न द्वयोः, सूर्ये पुंसि" इति मेदिनी । पुनः लक्ष्मीप्राप्तये लक्ष्म्याःतनाम्याः खप्रियायाः, प्राप्तये-लाभाय, गाढधृतभूभृत्पादं गाढं दृढं यथा स्यात्तथा धृतः-समुद्रमन्थनाय हस्तेनोवृतः भूभृत्पादः-मन्दराचलप्रत्यन्तपर्वतः, मन्दरगिरि निकटक्षुद्रपर्वत इति यावत् , येन तादृशं वासुदेवं कृष्णमपि विप्लावयद्भि, आक्षिपद्भिः, किमुत लक्ष्मीप्राप्तये धनलाभाय, गाढधृतभूभृत्पादम् अत्यन्ताश्रितनृपतिचरणं कमपि मानवम् , खयमापतितलक्ष्मीकैरित्यर्थः, “पादाः प्रत्यन्तपर्वताः” इत्यमरः । अत्र सर्वत्र श्लेषमूलकार्थापत्तिरलङ्कारः । पुनः स्नेहशून्यमानसं प्रीतिरहितहृदयम् , जिनमपि जिनेन्द्रमपि, अवजानद्भिः अवहेलयद्भिः, किमुत तादृशं सामान्यजनम् , भगवता जिनेन्द्रेण वीतरागतया प्रीतिः प्रत्यषेधीति प्रीतिपराङ्मुखतया सोऽपि तेषामक्षेपभाजन मिति का कथा तादृशस्य सामान्यपुरुषस्येति भावः, परस्परस्नेहसान्द्रहृदयरित्यर्थः च । पुनः कीदृगसौ नगरी ? मखानलधूमकोटिभिः यज्ञाग्निकुण्डोलूयमानधूमधाराभिः, विरचितालकेव विरचिता विन्यस्ता अलकाः कुटिलकेशा यस्यास्तादृशी नारीवेत्युत्प्रेक्षा । पुनः बालोद्यानैः अभिनवक्रीडाकाननैः, स्पष्टिताञ्जनतिलकबिन्दुरिव स्पष्टितः- स्फुटीकृतः, स्वश्यामलिमसम्पदा अभिव्यक्त इत्यर्थः, अञ्जनतिलक. बिन्दुः- अजनरचितभालबिन्दुर्यस्यास्ताहशी नारी वेत्युत्प्रेक्षा, पक्षेऽजन-तिलक-बिन्दवः-तत्तत्संज्ञकवृक्षविशेषा यस्यां तादृशी। पुनः दन्तवलभीभिः हस्तिदन्तमयीभिर्वलमीभिः-छदिराधारभूतैः कुटिलदण्डैः, आविष्कृतविलासहासेव आविष्कृतःअभिव्यक्तः, विलासः-हावविशेषभूतः, हासो यया तादृशी नारीवेत्युत्प्रेक्षा । पुनः सरोभिः दर्पणवत्स्वच्छसलिलाशयैः, आगृ

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196