________________
-
"निय.
तिलकमञ्जरी। परानुपहासिभिर्नर्मशीलैः सर्वस्य गुणग्राहिभिः सन्तुष्ठर्यसनेष्वपरित्यागिभिः सर्वदा संविभौगपर: परोपकारिभिरात्मलाभोवतैः [3], कतिपयकलापरिग्रहं ग्रहपतिमप्युपहसद्भिर्मित्रमण्डलपराङ्मुखमनूरुमपि निरस्यद्भिर्लक्ष्मीप्राप्तये गाढधृतभूभृत्पादं वासुदेवमपि विप्लावयद्भिः स्नेहशून्यमानसं जिनमप्यवजानाद्भर्निवासिलोकैः सङ्खला [च ], विरचितालकेव मखानलधूमकोटिभिः, स्पष्टिताञ्जनतिलकबिन्दुरिव बालोद्यानैः, आविष्कृतविलासहासेव दन्तवलभीभिः, आगृहीतदर्पणेव सरोभिः [छ), सकृत
कथं परेषामनुपहासिनः? अन्येषामुपदासिन एव भवन्तीति विरोधः, परिहारस्तु परान् उपहासिमिः उपहसन्नि. रुपहासयनिर्वा । ये गुणग्राहकाः [ रजु ग्राहकाः । ते कथं सन्तुष्टाः? अन्यत्र गुणग्राहिभिः गुणभाषकैः । ये परिसमन्तात् , अत्यागिन:-अदातारः, ते संविभागपराः कथम् ? अन्यत्र अपरित्यागिभिः अत्यजनशीलैः । ये परेषामुप. कारकास्ते कथमात्मनो लाभे उग्रताः ? आत्मलाभ:-भारमसंस्कारः, तत्रोद्यमपराः [ङ । ग्रहपतिमपि चन्द्रमपि, कला-विज्ञानं षोडशभागश्च । मित्रमण्डलम्-आदित्यबिम्बं सुहृत्संघातं च, अनूरुं सूर्यसारथिम् । भूभृत्पाद-राज. चरणं मन्दरपत्यन्तगिरि च । नेहः-रागः [च] । अञ्जनतिलकबिन्दवो वृक्षाः, अन्यत्र विशेषकः [छ]।
पहासिभिः परेषामुपहासाकर्तृभिरपि, नर्मशीलैः उपहासशीलैरिति विरोधः, उपहासशीलानां तदकर्तृत्वासम्भवात् , प्रतिशब्दमध्याहृत्य परान् अन्यान् प्रति उपहासिभिरित्यर्थेन तु तत्परिहारः । पुनः सन्तुष्टैः सर्वथा पूर्णकामैरपि, सर्वस्य गुणग्राहिभिः रज्वपहारिभिः गुणसङ्ग्राहिभिर्वेति विरोधः, गुणग्राहिभिः गुणी गुणं वेतीति न्यायेन गुणाभिज्ञैः गुणोपवर्णयितृभिर्वा, इत्यर्थेन तु तत्परिहारः । पुनः सर्वदा सर्वकाले, संविभागपरैः सम्यग विभाग:-विभजनम् , विभज्य धनादानमि- . त्यर्थः, तत्परैरपि-तदासक्तैरपि, अपरित्यागिभिः अप्रदानशीलैरिति विरोधः, संविभागपरैः अतिथिसंविभागपरैः सम्यक्प्रकारेण दायादैः सह दायग्रहणतत्परैर्वा, अपरित्यागिभिः वियदि निजबन्धुजनानुपेक्षिभिरित्यर्थेन तु तदुद्धारः । पुनः आत्मलाभोद्यतैः अब्भक्षन्यायेन खलाभमात्रतत्परैरपि, खार्थमात्रपरैरपीत्यर्थः, परोपकारिभिः परलाभकारिभिरिति विरोधः, आत्मलाभोद्यतैः विस्मृतग्रीवागतत्रैवेयकन्यायेन आत्मप्राप्तिप्रवणः, आत्मसाक्षात्कारपरैः, अत एव परोपकारिभिः परोपकारब्रतिभिरित्यर्थेन तु तदुद्धारः [6] । पुनः कीदृशैः ? कतिपयकलापरिग्रहम् अपूर्णकलम् , प्रहपतिमपि चन्द्रमपि, उपहसद्भिः स्वपूर्णकलाभिस्तिरस्कुर्वद्भिः, कला-विज्ञानं षोडशभागश्च ! पुनः मित्रमण्डलपराङ्मुखं सूर्यमण्डलविमुखम् , तदनभिमुखमित्यर्थः, अनूरुमपि अरुविहीनम् अरुणसंज्ञकं सूर्यसारथिमपि, निरस्यद्भिः तिरस्कुर्वद्भिः, किमुत सुहृन्मण्डलविमुखमन्यं पुरुषम् , सूर्यसारथिः सूयाभिमुखीभूय सूर्याधिष्ठितरथं वाहयितुं न शक्नोतीति तदनुरोधेऽपि मित्रमण्डलवैमुख्येन हेतुना परिहासास्पदतामुपैति चेदन्यस्य मित्रमण्डलविमुखत्वे सुतरामुपहासास्पदत्वमिति भावः, खयं सदैव सुहृन्मण्डलानुरक्तरित्यर्थः, "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरः, "मित्रं सुहृदि न द्वयोः, सूर्ये पुंसि" इति मेदिनी । पुनः लक्ष्मीप्राप्तये लक्ष्म्याःतनाम्याः खप्रियायाः, प्राप्तये-लाभाय, गाढधृतभूभृत्पादं गाढं दृढं यथा स्यात्तथा धृतः-समुद्रमन्थनाय हस्तेनोवृतः भूभृत्पादः-मन्दराचलप्रत्यन्तपर्वतः, मन्दरगिरि निकटक्षुद्रपर्वत इति यावत् , येन तादृशं वासुदेवं कृष्णमपि विप्लावयद्भि, आक्षिपद्भिः, किमुत लक्ष्मीप्राप्तये धनलाभाय, गाढधृतभूभृत्पादम् अत्यन्ताश्रितनृपतिचरणं कमपि मानवम् , खयमापतितलक्ष्मीकैरित्यर्थः, “पादाः प्रत्यन्तपर्वताः” इत्यमरः । अत्र सर्वत्र श्लेषमूलकार्थापत्तिरलङ्कारः । पुनः स्नेहशून्यमानसं प्रीतिरहितहृदयम् , जिनमपि जिनेन्द्रमपि, अवजानद्भिः अवहेलयद्भिः, किमुत तादृशं सामान्यजनम् , भगवता जिनेन्द्रेण वीतरागतया प्रीतिः प्रत्यषेधीति प्रीतिपराङ्मुखतया सोऽपि तेषामक्षेपभाजन मिति का कथा तादृशस्य सामान्यपुरुषस्येति भावः, परस्परस्नेहसान्द्रहृदयरित्यर्थः च । पुनः कीदृगसौ नगरी ? मखानलधूमकोटिभिः यज्ञाग्निकुण्डोलूयमानधूमधाराभिः, विरचितालकेव विरचिता विन्यस्ता अलकाः कुटिलकेशा यस्यास्तादृशी नारीवेत्युत्प्रेक्षा । पुनः बालोद्यानैः अभिनवक्रीडाकाननैः, स्पष्टिताञ्जनतिलकबिन्दुरिव स्पष्टितः- स्फुटीकृतः, स्वश्यामलिमसम्पदा अभिव्यक्त इत्यर्थः, अञ्जनतिलक. बिन्दुः- अजनरचितभालबिन्दुर्यस्यास्ताहशी नारी वेत्युत्प्रेक्षा, पक्षेऽजन-तिलक-बिन्दवः-तत्तत्संज्ञकवृक्षविशेषा यस्यां तादृशी। पुनः दन्तवलभीभिः हस्तिदन्तमयीभिर्वलमीभिः-छदिराधारभूतैः कुटिलदण्डैः, आविष्कृतविलासहासेव आविष्कृतःअभिव्यक्तः, विलासः-हावविशेषभूतः, हासो यया तादृशी नारीवेत्युत्प्रेक्षा । पुनः सरोभिः दर्पणवत्स्वच्छसलिलाशयैः, आगृ