Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 82
________________ ४६ टिप्पनक-परागविवृतिसंवलिता धृतोद्धरप्राकारपरिवेषैरभ्रङ्कषप्रतोलिभिरुत्तुङ्गमकरतोरणावनद्धहरितवन्दनमालैोलाविभूषिताङ्गणवेदिभिरश्रान्तकालागरुधूपधूमाश्लेषभयपलायमानदन्तवलभिकाभित्तिचित्रानिव विचित्रमयूखजालकमुचो माणिक्यजालकान् कलयद्भिरद्भुताकारैरनेकभूमिकाभ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया [ए], प्रतिगृहं स्वच्छधवलायताभिदृष्टिभिरिव दिशारसेन वसुधया व्यापारिताभिः क्रीडासरसीभिः संवलिता [ऐ], मृदुपवनचलितमृद्विकालतावलयेषु वियति विलसतामसितागुरुधूपधूमयोनीनामासारवारिणेवोपसिच्यमानेष्वतिनीलसुरभिषु गृहोपवनेषु वनितासखैर्विलासिभिरनुभूयमानमधुपानोत्सवा [ ओ], टिप्पनकम्-[ नेह व्याख्यातम् ] । मृद्विका-द्राक्षा, धूमयोनिः-मेधः [ ओ] । परस्परपार्थक्येन प्रतीयमानः, मरकतानां-तनामकमणि विशेषाणाम् , इन्द्रनीलाना-"क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां नयेत" इत्युक्तालक्षणानां नीलमणीनाम्, वज्राणां-हीरकाणाम्, वैडूर्याणां-तन्नामकानां रत्नविशेषाणां च, राशि:-समूहो येषु तादृशेः, "वनं मुक्ता प्रवालं च गोमेदश्वेन्द्रनीलकः । वैडूर्य पुष्परागश्च पाचिर्माणिक्यमेव च ॥ महारत्नानि चैतानि नव प्रोक्तानि सूरिभिः" इति रत्नतत्त्वहस्तेषां महारत्नत्वप्रतिपादनात्, पुनः कीदृशैस्तैः ? पृथुलायतैः विस्तारदैर्ध्यान्वितैः, कीदृशैः कैः केव तैरसौ प्रसाधिता ? पृथुलायतैः, चण्डांशुरथचक्रमागैः चण्डांशुः-सूर्यः, तस्य यद् रथचक्रं रथाङ्गम् , तद्गमनमार्गः, चामीकराचलतटीव चामीकर-सुवर्णम् , तस्य अचल:-पर्वतः, सुमेररित्यर्थः, तस्य तटीव-तटप्रदेश इव, “चक्रं रथाङ्गम्" इत्यमरः [ल]। पुनः कीदृगसौ नगरी ? सौधैः सुधालेपोऽस्ति येषु तैः, सुघोपलिः प्रासादैः, चन्द्रवद् उद्भासमानः, प्रवर्तिताविरतचन्द्रोदया प्रवर्तितः-सम्पादितः, प्रत्यायित इत्यर्थः, अविरतः- सन्ततः, अविच्छिन्न इत्यर्थः, चन्द्रोदयो यस्यां तादृशी, कीदृशैः सौंधैः ? धृतोद्धरप्राकारपरिवेषैः धृतः, उद्धराणाम्-उन्नतानाम् , प्राकाराणां-दुर्गाणाम् , परिवेषःमण्डलं यैस्तादृशैः, पुनः कीदृशैः? अभ्रङ्कषप्रतोलिभिः अभ्रङ्कषाः-गगनचुम्बिनः, प्रतोलयः-प्रतीहारोपवेशनस्थानानि 'पोल' इति प्रसिद्धानि प्रवेशद्वारस्थानानि येषु तादृशैः, पुनः कीदृशैः ? उत्तुङ्गमकरतोरणावनद्धहरितवन्दनमालैः उत्तुङ्गाःअत्यन्तोन्नताः, अत्यायता इत्यर्थः, मकराः-चित्रिता उत्कीर्णा वा जलजन्तुविशेषा येवु तादृशेषु, तोरणेषु-बहिारेषु, अवनद्धालम्बिता, हरिता-हरितवर्णा, वन्दनमाला-आम्रदलादिनिर्मिता मङ्गलमाला येषु तादृशैः, "तोरणोघे तु मजल्यं दाम मङ्गलमालिका" इत्यभिधानचिन्तामणिः, पुनः कीदृशः ? दोलाविभूषिताङ्गणवेदिभिः दोलाभिः-क्रीडोपकरणरूपैरान्दोलनयन्त्रैः, विभूषिता, अङ्गणस्य-प्रासादान्तःप्रदेशस्य, वेदयः-परिष्कृतचतुरस्त्रभूमयो येषु तादृशैः, पुनः कीदृशैः ? माणिक्यजालकान माणिक्याख्यरत्नमयगवाक्षान् , कलयद्भिः धारयद्भिः, कीदृशानमून् ? विचित्रमयूखजालकमुचः विचित्रान्-नानावर्णकान्, मयूखजालकान्-किरणनिकरान् , मुञ्चन्ति-परितो विक्षिपन्ति ये तान्, कानिय ? अश्रान्तकालागरुधुर भयपलायमानदन्तवलभिकाभित्तिचित्रानिव अश्रान्तः-अविच्छिन्नो यः, कालस्य-कृष्णस्य, अगरोः-तन्नामकद्रव्यस्य, धूपेन-अग्निसन्तापेन, धूमः, तदाश्लेषभयेन-तत्सम्पर्कभयेन, हस्तिनो निसर्गतो नयनवेदनातिशयजनकधूपसम्पर्कासहिष्णुतया तदीयदन्तानामपि तत्सम्भवात् पलायमानानाम् , दन्तवलभिकानां-छदिराधारभूतानां हस्तिदन्तमयानां वक्रदारूणाम् , भित्तिचित्रानिव-भित्तिगतप्रतिबिम्बानिवेत्युत्प्रेक्षा, पुनः कीदृशैः ? अद्भुताकारैः अद्भुतः-द्राधिमादिना विस्मयावहः, आकारः-आकृतिः सन्निवेशो येषां तादृशः, पुनः कीदृशैः१ अनेकभूमिकाभ्राजिष्णुभिः अनेकाभिः, भूमिकाभिः-अधोऽधःसन्निविष्टाट्टालिका खण्डः, भ्राजिष्णुभिः-उद्भासिभिः [ए] । पुनः कीदृगसौ नगरी ? प्रतिगृहं प्रत्येक प्रासादपार्श्वे, प्रत्यन्तःपुरमिति यावत् , क्रीडासरसीभिः जलकेलिकल्पितसरोवरैः, संवलिता समन्विता, कीदृशीभिस्ताभिः ? स्वच्छधवलायताभिः स्वच्छाःकर्दमायकलुषिताः, निर्मला इत्यर्थः, ताश्च ता धवला:-शुभ्राः, ताश्च ता आयताः-दीर्धास्ताभिः, काभिरिव ? वसुधया अयोध्याधिष्ठितपृथिव्या देव्या, दिदृक्षारसेन निरुक्तनगरीनिरीक्षणोत्कण्ठाकुतूहलेन, व्यापारिताभिः उन्मीलिताभिः, दृष्टिभिरिव निजनयनैरिवेत्युत्प्रेक्षा ऐ] । पुनः कीदृगसौ नगरी ? वनितासखैः खविलासिनीसहितैः, विलासिभिः विलासशीलैः ष अन्तःपुरकेलिकाननेषु. अनभयमानमधपानोत्सवा अनुभूयमानः-आस्वाद्यमानः, मधुपानोत्सवः-मद्यपानसमेधमानसम्भोगरसो यस्यामसौ, कीदृशेपूपवनेषु ? मृदुपवनचलितमृद्विकालतावलयेषु मृदुपवनेन-मन्द पुरुषः

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196