Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
५०
टिप्पनक-परागविवृतिसंवलिता महाभिरीषत्कटाक्षपातेनाचलानपि द्रावयन्तीभिः सुरतशिल्पप्रगल्भतावष्टम्भेन रूपमपि निरुपयोगमवगच्छन्तीभिस्तारुण्यमपि तृणलघु गणयन्तीभिर्विलासानपि हास्यकोटौ कलयन्तीभिराभरणसम्भारमपि भारमवधारयन्तीभिः प्रसाधनाडम्बरमपि विडम्बनापक्षे स्थापयन्तीभिरुपचारमप्याचारबुद्धया प्रपश्चय. न्तीभिः कैश्चिदधरैरिव शतशः खण्डितैरप्यखण्डितरागैरनिशमुपयुज्यमानवदननिःश्वासपरिमलाभिरपरैस्तु चषकैरिव कदाचिदाननप्रणयितामानीय प्रणुन्नैरप्रसन्नै रणन्मधुकरध्वनिना मन्दं मन्दं रणरणा
एकत्र अचलान् गिरीन् , अन्यत्र अचञ्चलानपि नरान् , अधरैरिव खण्डितैरप्यखण्डितरागैः, ये किल खण्डिताः खण्डित एव तेषां रागो भवति, विरोधपरिहारे तु खण्डितैः दशननखादिविदारितैः, रागः-रक्तस्वं प्रेम च, प्रणुनैः क्षिप्तः, अप्रसन्नैः मदिराशून्यैः प्रसादरहितैश्च, नवसुरतेषु या बद्धरागास्ता नीचरतेष्वपि सक्ता भवन्ति, कामशास्त्रभणितेषु
--....-... ..
खाभिमुखमाकर्षन्तीभिरित्यर्थः, परमसुन्दरीभिरिति तु परमार्थः । पुनः कीदृशीभिः? अव्यापारितमन्त्राभिरपि अव्यापारितःअप्रयुक्तः, मन्त्रः-विषापहारादिमन्त्री याभिस्तादृशीभिरपि, सकृद् एकवारम् , आह्वानेन जल्पनेन, नरेन्द्राणामपि मश्रप्रयोगेण सर्यादिविषनारणपटूनां वैद्यानामपि, सर्वस्वं विषवारणलभ्यं सकलधनम्, आकर्षयन्तीभिः आकृष्य स्वाधीनं कुर्वतीभिः, मन्त्रप्रयोगमन्तरेण मान्त्रिकलभ्यं धनं न लब्धं पार्यत इति विरोधः, परिहारे तु अव्यापारितमन्त्राभिः अव्यापारितः अप्रयुक्तः, मन्त्रः-वशीकरणमन्त्री याभिस्तादृशीभिः, सकृद एकवारमपि, आह्वानेन स्वागतकरणेन,नरेन्द्राणां नृपाणाम् , न तु कस्यचिदेव नृपस्य, सर्वस्वम् निःशेषधनसम्पत्तिम् , आकर्षयम्तीभिः आकृष्य स्वायत्तीकुर्वतीभिः, अनायासमेव नरेन्द्रानपि वशीकुर्वतीभिरित्यर्थः, पुनः कीदृशीभिः ? असदोषधीपरिग्रहाभिरपि अविद्यमानः, सदोषधीपरिग्रहः सतीनाम् उत्तमानाम् , उच्चाटनोपयोगिनीनाम् , ओषधीनाम् परिग्रहः- ग्रहणं यासां तादृशीभिरपि, ईषत्कटाक्षपातेन कुटिलाक्षिस्पन्दलवेन, अचलानपि पर्वतानपि, किमुत जङ्गमान् ? पक्षे स्थिर हृदयानपि, द्रावयन्तीभिः संचालयन्तीभिरिति विरोधः, परिहारे तु दोषेण सहिता सदोषा, न सदोषा असदोषा, अदुष्टेत्यर्थः, तादृशी धी:-बुद्धिर्यासा तादशीभिरित्यर्थः, पुनः कीटशीभिः सुरतशिल्पप्रगल्भतावष्टम्मेन सुरतशिल्पे-मैथुनकलायाम् , या प्रगल्भता-प्रौढता, तस्या अवष्टम्भेन-आलम्बनेन, रूपमपि निजरूपमपि, निरुपयोगं निरर्थकम् , अवगच्छन्तीभिः मन्यमानाभिः, तेनैव हेतुना तारुण्यमपि नवयौवनसम्पदमपि, तृणलघ तृणमिव तुच्छम, गणयन्तीभिः, विलासानपि हास्यकोटी हास्यकक्षायाम् , कलयन्तीभिः स्थापयन्तीभिः, हास्यरूपतयाऽवगच्छन्तीभिरित्यर्थः, आभरणसम्भारमपि अलङ्करणगणमपि, भारं केवलभारभूतम् , अवधार. यन्तीभिः निश्चिन्वतीभिः, प्रसाधनाडम्बरमपि वेशविन्यासाडम्बरमपि, विडम्बनापक्षे उपहासपक्षे, स्थापयन्तीभिः, उपचारमपि खश्रेष्ठजनवरिवस्यामपि, आचारबुद्धया लोकाचारदृष्टया, प्रपञ्चयन्तीभिः अनुतिष्ठन्तीभिः । पुनः कीटशीभिः ? कैश्चित् कतिभिश्चित् , स्थिरप्रीति कैः कामिविशेषैः, अधरैरिव निमोष्ठरिव, शतशः शतवारम् , खण्डितैरपि खण्डिताभ्यर्थनैरपि अवहेलितैरपीति यावत् . अखण्डितरागैः अव्याहतप्रीतिकैः ये खण्डितास्तेषां खण्डित एवं रागो भवतीति विरोधस्य स्थिरप्रीतिकत्वेन परिहारः, पक्षे शतधादशनदलितैरपि, अविहतरक्तताकैः, अनिशम् अविरतम् , उपयुज्यमानवदननिःश्वासपरिमलाभिः उपयुज्यमानः-समीपे सम्बध्यमानः, घ्राणद्वारा सार्थकतामापाद्यमान इत्यर्थः, वदननिःश्वासपरिमलः-लव लासंवलितताम्बूलचर्वणजनितमुखमारुतसौरभ यासां तादृशीभिः,अपरैस्तु. अन्यैस्तु, चलचित्तवृत्तिकैस्त्वित्यर्थः, कामिभिः सम्भोगाभिलाषिभिः पुरुषः, अशून्यमन्दिरद्वाराभिः अशून्य-क्षणम्प्यवर्जितम् , प्रतिक्षणमधिष्ठितमित्यर्थः, मन्दिरद्वार-रतिमन्दिरप्रवेशस्थानम्, न तु सविधं यासा तादृशीभिः, कैरिय कीदृशैस्तैः चषकैरिव मद्यपानभाजनैरिव, “चषकोऽस्त्री पानपात्रम्" इत्यमरः, कदाचिद् बहिरवलोकनादिकाले, आननप्रणयिताम् आननेन - लोललोचनेन चाटुवचोऽचितेन शशिसदृशेन मुखेन, न तु सम्भोगेन, प्रणयिताम् अनुरागिभावम् , आनीय प्रापय्य, प्रणुन्नैः संभोगाय प्रेरितः, सम्भोगादानेनावहेलितर्वा, अत एव अप्रसन्नैः सम्भोगसन्तोषविकलैः, अत एव रणन्मधुकरध्वनिना रणन्तः-गुञ्जन्तो ये मधुकरास्तेषाम् , ध्वनिना-तन्नादसमाननादेन, मन्दं मन्दं कामिनीकोपभिया शनैः शनैः, न तूचैरुचैः, रणरणायमानः
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196