SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५० टिप्पनक-परागविवृतिसंवलिता महाभिरीषत्कटाक्षपातेनाचलानपि द्रावयन्तीभिः सुरतशिल्पप्रगल्भतावष्टम्भेन रूपमपि निरुपयोगमवगच्छन्तीभिस्तारुण्यमपि तृणलघु गणयन्तीभिर्विलासानपि हास्यकोटौ कलयन्तीभिराभरणसम्भारमपि भारमवधारयन्तीभिः प्रसाधनाडम्बरमपि विडम्बनापक्षे स्थापयन्तीभिरुपचारमप्याचारबुद्धया प्रपश्चय. न्तीभिः कैश्चिदधरैरिव शतशः खण्डितैरप्यखण्डितरागैरनिशमुपयुज्यमानवदननिःश्वासपरिमलाभिरपरैस्तु चषकैरिव कदाचिदाननप्रणयितामानीय प्रणुन्नैरप्रसन्नै रणन्मधुकरध्वनिना मन्दं मन्दं रणरणा एकत्र अचलान् गिरीन् , अन्यत्र अचञ्चलानपि नरान् , अधरैरिव खण्डितैरप्यखण्डितरागैः, ये किल खण्डिताः खण्डित एव तेषां रागो भवति, विरोधपरिहारे तु खण्डितैः दशननखादिविदारितैः, रागः-रक्तस्वं प्रेम च, प्रणुनैः क्षिप्तः, अप्रसन्नैः मदिराशून्यैः प्रसादरहितैश्च, नवसुरतेषु या बद्धरागास्ता नीचरतेष्वपि सक्ता भवन्ति, कामशास्त्रभणितेषु --....-... .. खाभिमुखमाकर्षन्तीभिरित्यर्थः, परमसुन्दरीभिरिति तु परमार्थः । पुनः कीदृशीभिः? अव्यापारितमन्त्राभिरपि अव्यापारितःअप्रयुक्तः, मन्त्रः-विषापहारादिमन्त्री याभिस्तादृशीभिरपि, सकृद् एकवारम् , आह्वानेन जल्पनेन, नरेन्द्राणामपि मश्रप्रयोगेण सर्यादिविषनारणपटूनां वैद्यानामपि, सर्वस्वं विषवारणलभ्यं सकलधनम्, आकर्षयन्तीभिः आकृष्य स्वाधीनं कुर्वतीभिः, मन्त्रप्रयोगमन्तरेण मान्त्रिकलभ्यं धनं न लब्धं पार्यत इति विरोधः, परिहारे तु अव्यापारितमन्त्राभिः अव्यापारितः अप्रयुक्तः, मन्त्रः-वशीकरणमन्त्री याभिस्तादृशीभिः, सकृद एकवारमपि, आह्वानेन स्वागतकरणेन,नरेन्द्राणां नृपाणाम् , न तु कस्यचिदेव नृपस्य, सर्वस्वम् निःशेषधनसम्पत्तिम् , आकर्षयम्तीभिः आकृष्य स्वायत्तीकुर्वतीभिः, अनायासमेव नरेन्द्रानपि वशीकुर्वतीभिरित्यर्थः, पुनः कीदृशीभिः ? असदोषधीपरिग्रहाभिरपि अविद्यमानः, सदोषधीपरिग्रहः सतीनाम् उत्तमानाम् , उच्चाटनोपयोगिनीनाम् , ओषधीनाम् परिग्रहः- ग्रहणं यासां तादृशीभिरपि, ईषत्कटाक्षपातेन कुटिलाक्षिस्पन्दलवेन, अचलानपि पर्वतानपि, किमुत जङ्गमान् ? पक्षे स्थिर हृदयानपि, द्रावयन्तीभिः संचालयन्तीभिरिति विरोधः, परिहारे तु दोषेण सहिता सदोषा, न सदोषा असदोषा, अदुष्टेत्यर्थः, तादृशी धी:-बुद्धिर्यासा तादशीभिरित्यर्थः, पुनः कीटशीभिः सुरतशिल्पप्रगल्भतावष्टम्मेन सुरतशिल्पे-मैथुनकलायाम् , या प्रगल्भता-प्रौढता, तस्या अवष्टम्भेन-आलम्बनेन, रूपमपि निजरूपमपि, निरुपयोगं निरर्थकम् , अवगच्छन्तीभिः मन्यमानाभिः, तेनैव हेतुना तारुण्यमपि नवयौवनसम्पदमपि, तृणलघ तृणमिव तुच्छम, गणयन्तीभिः, विलासानपि हास्यकोटी हास्यकक्षायाम् , कलयन्तीभिः स्थापयन्तीभिः, हास्यरूपतयाऽवगच्छन्तीभिरित्यर्थः, आभरणसम्भारमपि अलङ्करणगणमपि, भारं केवलभारभूतम् , अवधार. यन्तीभिः निश्चिन्वतीभिः, प्रसाधनाडम्बरमपि वेशविन्यासाडम्बरमपि, विडम्बनापक्षे उपहासपक्षे, स्थापयन्तीभिः, उपचारमपि खश्रेष्ठजनवरिवस्यामपि, आचारबुद्धया लोकाचारदृष्टया, प्रपञ्चयन्तीभिः अनुतिष्ठन्तीभिः । पुनः कीटशीभिः ? कैश्चित् कतिभिश्चित् , स्थिरप्रीति कैः कामिविशेषैः, अधरैरिव निमोष्ठरिव, शतशः शतवारम् , खण्डितैरपि खण्डिताभ्यर्थनैरपि अवहेलितैरपीति यावत् . अखण्डितरागैः अव्याहतप्रीतिकैः ये खण्डितास्तेषां खण्डित एवं रागो भवतीति विरोधस्य स्थिरप्रीतिकत्वेन परिहारः, पक्षे शतधादशनदलितैरपि, अविहतरक्तताकैः, अनिशम् अविरतम् , उपयुज्यमानवदननिःश्वासपरिमलाभिः उपयुज्यमानः-समीपे सम्बध्यमानः, घ्राणद्वारा सार्थकतामापाद्यमान इत्यर्थः, वदननिःश्वासपरिमलः-लव लासंवलितताम्बूलचर्वणजनितमुखमारुतसौरभ यासां तादृशीभिः,अपरैस्तु. अन्यैस्तु, चलचित्तवृत्तिकैस्त्वित्यर्थः, कामिभिः सम्भोगाभिलाषिभिः पुरुषः, अशून्यमन्दिरद्वाराभिः अशून्य-क्षणम्प्यवर्जितम् , प्रतिक्षणमधिष्ठितमित्यर्थः, मन्दिरद्वार-रतिमन्दिरप्रवेशस्थानम्, न तु सविधं यासा तादृशीभिः, कैरिय कीदृशैस्तैः चषकैरिव मद्यपानभाजनैरिव, “चषकोऽस्त्री पानपात्रम्" इत्यमरः, कदाचिद् बहिरवलोकनादिकाले, आननप्रणयिताम् आननेन - लोललोचनेन चाटुवचोऽचितेन शशिसदृशेन मुखेन, न तु सम्भोगेन, प्रणयिताम् अनुरागिभावम् , आनीय प्रापय्य, प्रणुन्नैः संभोगाय प्रेरितः, सम्भोगादानेनावहेलितर्वा, अत एव अप्रसन्नैः सम्भोगसन्तोषविकलैः, अत एव रणन्मधुकरध्वनिना रणन्तः-गुञ्जन्तो ये मधुकरास्तेषाम् , ध्वनिना-तन्नादसमाननादेन, मन्दं मन्दं कामिनीकोपभिया शनैः शनैः, न तूचैरुचैः, रणरणायमानः
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy