________________
तिलकमञ्जरी। यमानः कामिभिरशून्यद्वाराभिर्नवसुरतेषु बद्धरागाभिरपि नीचरतेष्वसक्ताभिलक्ष्मीमनोवृत्तिभिरिव पुरुषोत्तमगुणहार्याभिर्न पुनरेकान्ततोऽर्थानुरागिणीभिः संसारेऽपि सारताबुद्धिनिबन्धनभूताभिः कुल. क्रमागतवैशिकलाकलापवैचक्षण्याभिः साक्षादिव कामसूत्र विद्याभिर्विलासिनीभिर्वितीर्ण त्रिभुवन जिगीषुकुसुमसायकसाहायका [अ], अकलिताढयानाढयविवेकैरगृहीतपण्डितापण्डितविभक्तिभिरनवबुद्धसाध्वसाधुविशेषैरनवधारितधार्मिकाधार्मिकपरिच्छित्तिभिः [क], सर्वैरप्युदारविशेषैः सर्वैरपि छेकोक्तिकोविदैः सर्वैरपि परोपकारप्रवणैः सर्वैरपि सन्मार्गवर्तिभिः । ख ), ज्ञातनिःशेषपुराणेतिहाससारैदृष्ट
नवसवयरतेषु नीचरतस्य पठितस्यादिति विरोधः, परिहारे नूतनसुरतेषु, पुरुषोत्तमगुणहार्याभिः एकत्र पुरुषोत्तमः-विष्णुः, अन्यत्र पुरुषोत्तमाः-नरप्रधानाः, वैशिका:-वेश्यासत्काः, [अ] | पुराणं-धर्मशास्त्रम् ,
सम्भोगाभ्यर्थनागर्भ गुञ्जद्भिः, चषकपक्षे तु कदाचिद् मद्यपानावसरे, आननप्रणयिताम् आनने-मद्यपानोद्यते मुखे, • प्रणयिता-खानुरागिभावम् , आनीय जनयित्वा, प्रणुन्नैः पीतमदिराकत्वात् पानकारिणा क्षितौ निक्षिप्तः, अत एव च
अप्रसन्नैः प्रसन्ना-मदिरा, तद्रहितैः, "प्रसन्ना स्त्री सुरायां स्यात् , खच्छ-सन्तुष्टयोस्त्रिघु" । इति मेदिनी, रणन्मधुकरध्वनिना रणन्तः- मञ्जु गुञ्जन्तो ये मधुकराः- शेषमद्यलेशावादनायायाता भ्रमराः, तेषां ध्वनिना-नादेन, मन्दं मन्दं शनैः शनैः रणरणायमानैः प्रतिनिनादं वितन्वानैः, अत्र श्लेषानुप्राणितोपमालङ्कारो बोध्यः । पुनः कीदृशीभिर्विलासिनीभिः? नवसु कामशास्त्रविहितेषु नवविधेषु, रतेषु मैथुनेषु, बद्धरागाभिरपि सानुरागाभिरपि, नीचरतेषु नीचजनमैथुनेषु, नीचेषुनिन्दितेषु वा, मैथुनेषु, असक्ताभिः रागरहिताभिरिति विरोधः, नवविधसुरतमध्ये नीचसुरतस्यापि पठितत्वात् , परिहारे तु नवेषु-नवीनेषु, सुरतेषु-मैथुनेषु, अनुरक्ताभिः, नीचमैथुनमनाचरन्तीभिरित्यर्थो बोध्यः । पुनः कीदृशीभिः ? लक्ष्मीमनो वृत्तिभिरिव लक्ष्म्याः -तन्नान्या विष्णुभार्यायाः, मनोवृत्तिभिरिव-चित्तवृत्तिभिरिव, पुरुषोत्तमगुणहार्याभिः पुरुषोत्तमगुण वशीकार्याभिः, पक्षे पुरुषोत्तमस्य-विष्णोः, गुणैः, हायोभिः-आकर्षणीयाभिः, न पूनरेका
गिणीभिः न खलु नियमेन धनलुब्धाभिः, अपि तु गुणलुब्धाभिरपीत्यर्थः । पुनः कीदृशीभिः ? संसारेऽपि यः संसारस्तत्त्वदर्शिभिरसारतयाऽव. धारितस्तस्मिन्नपि, तविशेव्यिकाया अपीत्यर्थः, सारताबुद्धेः 'संसारः सारः' इत्याकारायाः सारताप्रकारकबुद्धेः, निबन्धन भूताभिः हेतुभूताभिः, असारेऽपि संसारे सारतां प्रत्याययन्तीभिः । पुनः कीदृशीभिः कुलक्रमागतवैशिककलाकलापवैचक्षण्याभिः, वेश्यायां भवः-वैशिकः, स चासौ कलाकलापः-नृत्य गायनादिकलासमूहः. तत्र कुलक्रमागतं-कुलपरम्परयोपनतम् , वैचक्षण्यं नैपुण्यं यास ताहशीभिः । पुनः कीदृशीभिः? साक्षात् कामसूत्रस्य-कामशास्त्रस्य, विद्याभिरिवेत्युस्प्रेक्षा [अ]। पुनः कीदृगसौ नगरी ? निवासिलोकैः तद्वास्तव्यजनैः, सङ्कलाव्याप्ता। कीदृशैर्निवासिलोकै ? अकलिताळ्यानाट्यविवेकः अकलितः-अप्रतीतः, आख्यानान्यविवेकः-धनिकाऽधनिकविभागो येषां तादृशैः, प्रशंसाप्रकरणात् सर्वैरपि धनिकैरित्यर्थः। पुनः अगृहीतपण्डितापण्डितविभक्तिभिः अगृहीता-अज्ञाता, पण्डितापण्डितविभक्तिः-विद्वन्मूर्खविभागो येषां तादृशैः, सर्वैरपि पण्डितैरेवेत्यर्थः । पुनः अनवबुद्धसाध्वसाधुविशेषैः अज्ञातसज्जनत्व-दुर्जनत्वप्रयुक्तभेदैः, सरपि साधुभिरेवेति भावः । पुनः अनवधारितधार्मिकाधार्मिकपरिच्छित्तिभिः अनवधारिता-अवधारयितुमपारिता, धार्मिकाधार्मिकपरिच्छित्तिः-इयन्तो धार्मिका इयन्तश्चाधार्मिका इतीयत्ता येषां तादृशः, सर्वैरपि धार्मिकैरेवेत्यर्थः [क] 1 पुनः कीदृशैः ? सर्वैरपि उदारविशेषैः असाधारणोदारैः, वदान्यरित्यर्थः, न तु साधारणोदारैः । पुनः सर्वैरपि छेकोक्तिकोविदैःछेकः-विदग्धः, तेषामुक्तिषु-विविधवेदग्ध्यपूर्णोक्तेिषु, कोविदैः-पण्डितैः, अभिज्ञैरित्यर्थः । पुनः सर्वैरपि परोपकारप्रवणैः परोपकारतत्परैः । पुनः सर्वैरपि सन्मार्गवर्तिभिः सत्पथगामिभिः[ख]। पुनः कीदृशः? झातनिःशेषपुराणेतिहाससारैः ज्ञातःपाठश्रवणाभ्यामवधूतः, निःशेषः-कृत्स्नः, पुराणानाम्-"सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । भूम्यादेश्चैव संस्थामं पुरा' पञ्चलक्षणम्" ॥ १ ॥ इति पञ्चलक्षणीलक्षितानां व्यासादिप्रणीतप्रबन्धानां धर्मशास्त्राणां वा, इतिहासानां-महाभारतादी पुरावृत्तानाम् , सारः-तत्त्वार्थो येस्तादृशैः । पुनः दृष्टसकलकाव्यनाटकप्रबन्धैः दृष्टा:-अधीताः, सकला:-समा