Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 74
________________ ३० टिप्पनक-परागविकृतिसंवलिता प्रासादेषु त्रुटितशिखरश्वभ्रलब्धप्रवेशैः प्रातः प्रातस्तुहिनसलिलैः शार्वरैः स्नापितानि । धन्याः शून्ये यदरिनगरे स्थाणुलिङ्गानि शाखा हस्तस्रस्तैः कुसुमनिकरैः पादपाः पूजयन्ति ॥ ४७ ॥ [मन्दाक्रान्ता] यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैध्रुवम् ।। बौद्धतर्क इवार्थानां राज्ञां नाशो निरन्वयः ॥ १॥ [ पध्या ] लतावनपरिक्षिप्ते निन्ये यदरिभिनिशा । विन्ध्याद्रेस्तस्परुचिरे न वेश्मनि नवेऽश्मनि ॥ २ ॥ [ नविपुला ] टिप्पनकम्- नेह व्याख्यातम् ] ॥ ७ ॥ टिप्पनकम्-- [यस्येत्यादि ] । प्रतीये प्रतीतः । कः ? नाशः विघातः । केषाम् ? राज्ञाम् अस्नृिपाणाम् । किम्भूतः? निरन्वयः अपगतवंशः । कैः प्रतीये? विबुधैः देवैः । कस्मिन् सति ? दोष्णि बाहौ । कीदृशे ? स्फ्ररद्धेतौ देदीप्यमानप्रहरणे । कस्य ? यस्य भोजराजस्य । कस्मिन्निव केषाम् ? बौद्धतर्क इवार्थानां यथा बौद्धप्रमाणशास्त्रे नाशः, विबुधैः विशिष्टपण्डितैः, प्रतीये प्रतीतः, अर्थानां घटादीनाम् , कीदृशः ? निरन्वयः अनुगमरहितः, नष्टस्यापि द्रव्यस्योत्तरक्षणानुसरणमस्तीत्यर्थः । किम्भूते बौद्ध तर्के ? स्फुरद्धेतौ देदीप्यमानस्वभावादिलिङ्गे, कथं प्रतीये? ध्रुवं निश्चितम् ॥ १॥ . टिप्पनकम्-लतेत्यादि । यदरिभिः यस्य-भोजनृपस्य भरिभिः-शत्रुभिः । निशा रात्रिः। निन्ये नीता। कस्मिन् ? अश्मनि दृषदि, न वेश्मनि न गृहे । कस्याश्मनि ? विन्ध्याद्रेः; भयेन विन्ध्यगिरिमधिरूढा अरय इत्यर्थः। कीडशे अश्मनि वेश्मनि च? तल्पं-शयनीयम् , तद्वद्रुचिरे-सुकुमारपृथुत्वादिगुणै रम्ये, तल्पेन रुचिरे दीप्ते । तथा मवे नूतने, तथा लतावनपरिक्षिप्ते अशोकचम्पकलतावनवेष्टिते येश्मनि, वल्लीवनगहनछमेऽश्म नि, अदृश्य इत्यर्थः ॥२॥ __ शुभ्रसमादिषु स्थानेषु दृग्विलोचनरूपैकधर्माभिसम्बन्धादत्र तुल्ययोगिताऽलकारः । “रूयगार भूभुजामन्तःपुर स्यादवरोधनम्" इति, “वापी तु दीर्घिका" इति, "दृग्दृष्टी" इति, “आरामः स्यादुपवनम्" इति चामरः ॥ ४६ ॥ परागाभिधा विवृतिः-तदरिभूतेषु नृपेषु सामात्यभृत्येषु पलायितेष्वरश्यतामापाद्यमानायामदसीयराजधान्या देवताया अपि दुर्दशा दर्शयति-प्रासादेविति । 'शून्ये यदरिनगरे प्रासादेषु श्रुटितशिखरश्वभ्रलब्धप्रवेशः शार्वरैः तुहिनसलिलैः प्रातः प्रातःसापितानि स्थाणुलिङ्गानि धन्याः पादपाः शाखाहस्तस्रस्तैः कुसुमनिकरः पूजयन्ति' इत्यन्वयः। शून्ये विजने, यदरिनगरे यस्य-श्रीभोजराजस्य, अरेः-शत्रोः, नगरे-राजधान्याम् , प्रासादेषु-देवालयेषु, त्रुटितशिखरश्वभ्रलब्धेप्रवेशैः त्रुटितानां-श्रीभोजराजसेन्याभिघातभमानाम् , शिखराणां-शृङ्गानाम् , ऊर्ध्वभागानामित्यर्थः, श्वश्रेषु-छिद्रेषु, लब्धःप्राप्तः, प्रवेशो येस्तादृशैः, तद्वारा शिवलिङ्गोपरिविगलितरित्यर्थः,शार्वरैः शर्वरी-रात्रिः, तद्भवैः, तुहिनसलिलैः हिमोदकैः, नापितानि कृतामिषेकाणि, स्थाणुलिङ्गानि शिवलिङ्गानि, शाखाहस्तस्त्रस्तैः शाखारूपेभ्यो हस्तेभ्यः, सस्तैः-स्खलितैः, कुसुमनिकरैः पुष्पपुजेः, धन्याः मानवोचिताचारचतुरतया धन्यवादाः, पादपाः तरवः, पूजयन्ति अर्चन्ति, तदधिष्ठितविहङ्गरवस्तवेनेति तृह्यम् । __अत्राप्रकृतपादपकर्तृकार्चनव्यवहारे प्रकृतपुरुषकर्तृकार्चनव्यवहारतादात्म्यारोपात् समासोक्तिः, शाखायां हृस्ततादात्म्यारोपातु रूपकं चालङ्कारः। "प्रासादो देव-भूभुजाम्" इति, "रन्ध्र श्वभ्रं वपा शुषिः” इति. “अथ शर्वरी । निशा निशीथिनी रात्रिः" इति, “स्थाणू रुद्र उमापतिः" इति चामरः । इदं मन्दाक्रान्तावृत्तम् , तल्लक्षणं तु “मो भी तो गौ च धर्मन्दाक्रान्ता" (मभनततगगाः धैरिति चतुर्भिर्यतिः ] इति छन्दोऽनुशासनाभिहितमवगन्तव्यमिति ॥ ४७ ॥ : अत्र “यस्य दोष्णि." इत्यादयश्चत्वारः श्लोका मुद्रितग्रन्थादौ न दृश्यन्ते, किन्त्यग्रे मेघवाहमवर्णनावसरेऽतो नास्माभिरिह व्याख्याताः, टिप्पनिकाकारेण तु भोजवर्णनपरत्वेनेहैव व्याख्याताः ॥

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196