________________
३०
टिप्पनक-परागविकृतिसंवलिता प्रासादेषु त्रुटितशिखरश्वभ्रलब्धप्रवेशैः प्रातः प्रातस्तुहिनसलिलैः शार्वरैः स्नापितानि । धन्याः शून्ये यदरिनगरे स्थाणुलिङ्गानि शाखा हस्तस्रस्तैः कुसुमनिकरैः पादपाः पूजयन्ति ॥ ४७ ॥
[मन्दाक्रान्ता] यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैध्रुवम् ।। बौद्धतर्क इवार्थानां राज्ञां नाशो निरन्वयः ॥ १॥ [ पध्या ] लतावनपरिक्षिप्ते निन्ये यदरिभिनिशा ।
विन्ध्याद्रेस्तस्परुचिरे न वेश्मनि नवेऽश्मनि ॥ २ ॥ [ नविपुला ] टिप्पनकम्- नेह व्याख्यातम् ] ॥ ७ ॥
टिप्पनकम्-- [यस्येत्यादि ] । प्रतीये प्रतीतः । कः ? नाशः विघातः । केषाम् ? राज्ञाम् अस्नृिपाणाम् । किम्भूतः? निरन्वयः अपगतवंशः । कैः प्रतीये? विबुधैः देवैः । कस्मिन् सति ? दोष्णि बाहौ । कीदृशे ? स्फ्ररद्धेतौ देदीप्यमानप्रहरणे । कस्य ? यस्य भोजराजस्य । कस्मिन्निव केषाम् ? बौद्धतर्क इवार्थानां यथा बौद्धप्रमाणशास्त्रे नाशः, विबुधैः विशिष्टपण्डितैः, प्रतीये प्रतीतः, अर्थानां घटादीनाम् , कीदृशः ? निरन्वयः अनुगमरहितः, नष्टस्यापि द्रव्यस्योत्तरक्षणानुसरणमस्तीत्यर्थः । किम्भूते बौद्ध तर्के ? स्फुरद्धेतौ देदीप्यमानस्वभावादिलिङ्गे, कथं प्रतीये? ध्रुवं निश्चितम् ॥ १॥ . टिप्पनकम्-लतेत्यादि । यदरिभिः यस्य-भोजनृपस्य भरिभिः-शत्रुभिः । निशा रात्रिः। निन्ये नीता। कस्मिन् ? अश्मनि दृषदि, न वेश्मनि न गृहे । कस्याश्मनि ? विन्ध्याद्रेः; भयेन विन्ध्यगिरिमधिरूढा अरय इत्यर्थः। कीडशे अश्मनि वेश्मनि च? तल्पं-शयनीयम् , तद्वद्रुचिरे-सुकुमारपृथुत्वादिगुणै रम्ये, तल्पेन रुचिरे दीप्ते । तथा मवे नूतने, तथा लतावनपरिक्षिप्ते अशोकचम्पकलतावनवेष्टिते येश्मनि, वल्लीवनगहनछमेऽश्म नि, अदृश्य इत्यर्थः ॥२॥
__ शुभ्रसमादिषु स्थानेषु दृग्विलोचनरूपैकधर्माभिसम्बन्धादत्र तुल्ययोगिताऽलकारः । “रूयगार भूभुजामन्तःपुर स्यादवरोधनम्" इति, “वापी तु दीर्घिका" इति, "दृग्दृष्टी" इति, “आरामः स्यादुपवनम्" इति चामरः ॥ ४६ ॥
परागाभिधा विवृतिः-तदरिभूतेषु नृपेषु सामात्यभृत्येषु पलायितेष्वरश्यतामापाद्यमानायामदसीयराजधान्या देवताया अपि दुर्दशा दर्शयति-प्रासादेविति । 'शून्ये यदरिनगरे प्रासादेषु श्रुटितशिखरश्वभ्रलब्धप्रवेशः शार्वरैः तुहिनसलिलैः प्रातः प्रातःसापितानि स्थाणुलिङ्गानि धन्याः पादपाः शाखाहस्तस्रस्तैः कुसुमनिकरः पूजयन्ति' इत्यन्वयः। शून्ये विजने, यदरिनगरे यस्य-श्रीभोजराजस्य, अरेः-शत्रोः, नगरे-राजधान्याम् , प्रासादेषु-देवालयेषु, त्रुटितशिखरश्वभ्रलब्धेप्रवेशैः त्रुटितानां-श्रीभोजराजसेन्याभिघातभमानाम् , शिखराणां-शृङ्गानाम् , ऊर्ध्वभागानामित्यर्थः, श्वश्रेषु-छिद्रेषु, लब्धःप्राप्तः, प्रवेशो येस्तादृशैः, तद्वारा शिवलिङ्गोपरिविगलितरित्यर्थः,शार्वरैः शर्वरी-रात्रिः, तद्भवैः, तुहिनसलिलैः हिमोदकैः, नापितानि कृतामिषेकाणि, स्थाणुलिङ्गानि शिवलिङ्गानि, शाखाहस्तस्त्रस्तैः शाखारूपेभ्यो हस्तेभ्यः, सस्तैः-स्खलितैः, कुसुमनिकरैः पुष्पपुजेः, धन्याः मानवोचिताचारचतुरतया धन्यवादाः, पादपाः तरवः, पूजयन्ति अर्चन्ति, तदधिष्ठितविहङ्गरवस्तवेनेति तृह्यम् ।
__अत्राप्रकृतपादपकर्तृकार्चनव्यवहारे प्रकृतपुरुषकर्तृकार्चनव्यवहारतादात्म्यारोपात् समासोक्तिः, शाखायां हृस्ततादात्म्यारोपातु रूपकं चालङ्कारः। "प्रासादो देव-भूभुजाम्" इति, "रन्ध्र श्वभ्रं वपा शुषिः” इति. “अथ शर्वरी । निशा निशीथिनी रात्रिः" इति, “स्थाणू रुद्र उमापतिः" इति चामरः । इदं मन्दाक्रान्तावृत्तम् , तल्लक्षणं तु “मो भी तो गौ च धर्मन्दाक्रान्ता" (मभनततगगाः धैरिति चतुर्भिर्यतिः ] इति छन्दोऽनुशासनाभिहितमवगन्तव्यमिति ॥ ४७ ॥ : अत्र “यस्य दोष्णि." इत्यादयश्चत्वारः श्लोका मुद्रितग्रन्थादौ न दृश्यन्ते, किन्त्यग्रे मेघवाहमवर्णनावसरेऽतो नास्माभिरिह व्याख्याताः, टिप्पनिकाकारेण तु भोजवर्णनपरत्वेनेहैव व्याख्याताः ॥