Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
बिन-38200
शास्त्रेष्वधीत कुशलः क्रियासु बन्धे च बोधे च गिरां प्रकृष्टः वि. तस्यात्मजन्मा समभून्महात्मा देवः स्वयम्भूरिव सर्वदेवः ॥ ५२ ॥ [ उपजाति: ]
टिप्पनकम् - शास्त्रेष्वित्यादि । आत्मजन्मा पुत्रः, ब्रह्माऽपि आत्मना जन्म यस्य स तथोक्तः, उभयोः सर्वविशेषणानि योज्यानि ॥ ५२ ॥
अखिलः - अखण्डो यः, मध्यदेशः - हिमाचल- विन्ध्याचलान्तरालभूतः, “हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः” ॥ इति परिभाषितो देशविशेषः, तत्र प्रकाशः - सर्वविधसमृद्धिप्रसिद्धिशाली, साङ्काश्य निवेशःसङ्काशेन निर्वृत्तं साङ्काश्यम्, तचासौ निवेशो नगरम्, तत्र जन्म-प्रादुर्भावो यस्यासौ, सः- उत्तरार्धगतयत्पदप्रतिपाद्यत्वेन कवेरभिप्रेतः, द्विजन्मा विप्रः आसीत्, यः विप्रः, दानवर्षित्वविभूषितोऽपि दानवेषु दैत्येषु, ऋषित्वेन --मुनित्वेन, विभूषितोऽपि - अलङ्कृतोऽपि दैत्येषु मुनिरपीत्यर्थः, देवर्षिरिति देवेषु ऋषिरिति- मुनिरिति, प्रसिद्धिं प्रख्यातिम्, अलब्ध प्राप्तवानिति विरोधः, पर्यवासने तु दानं देयम्, सत्यात्रदेयजनेषु वर्षति - विमुञ्चतीति दानवर्षी, तत्त्वेनालङ्कृतोऽपि देवर्षिरिति नाम्रा प्रसिद्धिं लब्धवानित्यर्थेन तत्परिहारादत्र विरोधाभासालङ्कारः ।
"असुरा दैत्य- दैतेय- दनुजेन्द्रारिन्दानवाः” इत्यमरः, “निवेशः सैन्यविन्यासे न्यासे द्रङ्ग- विवाहयोः" इत्यनेकार्थसङ्ग्रहः, तत्र ब्रङ्गपदं नगररूपार्थकम् ॥ इदमुपजातिवृत्तम्, प्रथम चतुर्थपादयोरिन्द्रवज्रा, द्वितीय तृतीयपादयो रुपेन्द्रवज्रा, एतयोः सङ्करेणोपजातिः, यदुक्तं छन्दोऽनुशासने - "तौ जगाविन्द्रवज्रा” “जतजा गावुपेन्द्रवज्रा " " एतयोः परयोश्च सङ्कर उपजातिश्चतुर्दशधा " [ एतयोः - इन्द्रवज्रोपेन्द्रवज्रयोः सङ्करः - अन्योऽन्यपादमीलनमुपजातिः ] इति ॥ ५१ ॥
,
परागाभिधा विवृतिः:- अथ निजपितरमुपश्लोकयति - शास्त्रेष्विति । 'शास्त्रेषु अधीती, क्रियासु कुशलः, गिरां बन्धे बोधे च प्रकृष्टः, महात्मा, सर्वदेवः तस्य आत्मजन्मा समभूत् स्वयम्भूः देवः इव' इत्यन्वयः । शास्त्रेषु अशेषवाङ्मयेषु, न तु क्वचिदेकत्रैव शास्त्रे, अधीती अधीतं येनासौ, समनुशीलितसकलशास्त्र इत्यर्थः । क्रियासु धार्मिक व्यावहारिक कृत्यकलापे, न तु कचिदेव क्रियायाम्, कुशलः निपुणः, गिरां वाचाम्, बन्धे कमनीयकाव्यात्मना विरचने, अथ च गिरां श्रौतस्मार्तरूपाणां भारतीनां बोधे अर्थमीमांसने, प्रकृष्टः सर्वोत्कृष्टः, महात्मा आध्यात्मिकसम्पदा महनीयात्मा सर्वदेवः सर्वदेवनामा, तस्य देवर्षिनाम्रो विप्रस्य, आत्मजन्मा सुतः, समभूत् सम्यग् बभूव क इव ? स्वयम्भूरिव स्वयमेव भवति न तु कर्मविपाकेनेति स्वयम्भूः, ब्रह्मेत्यर्थः, तादृशदेव इव, ब्रह्माऽपि शास्त्रेष्वधीती शास्त्रेषु वेदेषु, अधीती 'इंक् स्मरणे" इति वचनाद् अधीतं स्मृतं येनासौ, प्रथमतः स्मृतसकलवेद इत्यर्थः, क्रियासु जगद्रचनासु, कुशलः निपुणः, गिरां वाणीनाम्, बन्धे रचनायाम्, बोधे ज्ञाने च प्रकृष्टः प्रधानः, विविधग्रन्थरचनाशक्तियुक्तः, विविधग्रन्थबोधयुक्तश्चेत्यर्थः, यद्वा गिरां वेदरूपवाणीनाम्, बन्धे मुखरूपस्थानस्थापने, प्रकृष्टः प्रधानः, चतुर्भिर्मुखैश्चतुर्णां वेदानां धारणे निपुण इत्यर्थः । यद्वा गिरां निजतनयायाः- सरखत्याः, मानार्थत्वाद् बहुवचनम्, बन्धे पुत्रस्नेहेनाऽऽलिङ्गनादौ हस्तादिना बन्धे परिवेष्टने, बोधे तन्मनोभावविज्ञाने, प्रकृष्टः निपुणः, आत्मजन्मा आत्मना - स्वयम् जन्म यस्य सः, तदुक्तम्- “हिरण्यवर्णमभवदत्राण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूर्लोकविश्रुतः” ॥ इति, अत एव ब्रह्मा प्रथमसृष्टास्वप्सु स्वयमुप्ते स्वशक्तिभूते बीजेऽरुणार्कमण्डलायमानहैमाण्डरूपतामापद्यमाने लिङ्गशरीरावच्छिन्नजीवतत्त्वमनुप्रविश्य सृष्ट्यादौ स्वयमेवोद्भवतीति तस्य हिरण्यगर्भत्वं स्वयम्भूत्वं च मन्वादिनोदीरितमुपपद्यते । महात्मा आध्यात्मिकसम्पदा महनीयात्मा सर्वदेवः सर्वेषां प्राणिनां देवः तन्मतानुसारिभिस्तथाभ्युपगमात् ।
अत्र पूर्णोपमालङ्कारः, तृतीयपादेऽन्त्यानुप्रासः, द्वितीयपादे छेकानुप्रासः, एषां परस्परनैरपेक्ष्यात् संसृष्टिः । “हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः" इत्यमरः ॥ ५२ ॥
६ तिलक०
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196