SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । बिन-38200 शास्त्रेष्वधीत कुशलः क्रियासु बन्धे च बोधे च गिरां प्रकृष्टः वि. तस्यात्मजन्मा समभून्महात्मा देवः स्वयम्भूरिव सर्वदेवः ॥ ५२ ॥ [ उपजाति: ] टिप्पनकम् - शास्त्रेष्वित्यादि । आत्मजन्मा पुत्रः, ब्रह्माऽपि आत्मना जन्म यस्य स तथोक्तः, उभयोः सर्वविशेषणानि योज्यानि ॥ ५२ ॥ अखिलः - अखण्डो यः, मध्यदेशः - हिमाचल- विन्ध्याचलान्तरालभूतः, “हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः” ॥ इति परिभाषितो देशविशेषः, तत्र प्रकाशः - सर्वविधसमृद्धिप्रसिद्धिशाली, साङ्काश्य निवेशःसङ्काशेन निर्वृत्तं साङ्काश्यम्, तचासौ निवेशो नगरम्, तत्र जन्म-प्रादुर्भावो यस्यासौ, सः- उत्तरार्धगतयत्पदप्रतिपाद्यत्वेन कवेरभिप्रेतः, द्विजन्मा विप्रः आसीत्, यः विप्रः, दानवर्षित्वविभूषितोऽपि दानवेषु दैत्येषु, ऋषित्वेन --मुनित्वेन, विभूषितोऽपि - अलङ्कृतोऽपि दैत्येषु मुनिरपीत्यर्थः, देवर्षिरिति देवेषु ऋषिरिति- मुनिरिति, प्रसिद्धिं प्रख्यातिम्, अलब्ध प्राप्तवानिति विरोधः, पर्यवासने तु दानं देयम्, सत्यात्रदेयजनेषु वर्षति - विमुञ्चतीति दानवर्षी, तत्त्वेनालङ्कृतोऽपि देवर्षिरिति नाम्रा प्रसिद्धिं लब्धवानित्यर्थेन तत्परिहारादत्र विरोधाभासालङ्कारः । "असुरा दैत्य- दैतेय- दनुजेन्द्रारिन्दानवाः” इत्यमरः, “निवेशः सैन्यविन्यासे न्यासे द्रङ्ग- विवाहयोः" इत्यनेकार्थसङ्ग्रहः, तत्र ब्रङ्गपदं नगररूपार्थकम् ॥ इदमुपजातिवृत्तम्, प्रथम चतुर्थपादयोरिन्द्रवज्रा, द्वितीय तृतीयपादयो रुपेन्द्रवज्रा, एतयोः सङ्करेणोपजातिः, यदुक्तं छन्दोऽनुशासने - "तौ जगाविन्द्रवज्रा” “जतजा गावुपेन्द्रवज्रा " " एतयोः परयोश्च सङ्कर उपजातिश्चतुर्दशधा " [ एतयोः - इन्द्रवज्रोपेन्द्रवज्रयोः सङ्करः - अन्योऽन्यपादमीलनमुपजातिः ] इति ॥ ५१ ॥ , परागाभिधा विवृतिः:- अथ निजपितरमुपश्लोकयति - शास्त्रेष्विति । 'शास्त्रेषु अधीती, क्रियासु कुशलः, गिरां बन्धे बोधे च प्रकृष्टः, महात्मा, सर्वदेवः तस्य आत्मजन्मा समभूत् स्वयम्भूः देवः इव' इत्यन्वयः । शास्त्रेषु अशेषवाङ्मयेषु, न तु क्वचिदेकत्रैव शास्त्रे, अधीती अधीतं येनासौ, समनुशीलितसकलशास्त्र इत्यर्थः । क्रियासु धार्मिक व्यावहारिक कृत्यकलापे, न तु कचिदेव क्रियायाम्, कुशलः निपुणः, गिरां वाचाम्, बन्धे कमनीयकाव्यात्मना विरचने, अथ च गिरां श्रौतस्मार्तरूपाणां भारतीनां बोधे अर्थमीमांसने, प्रकृष्टः सर्वोत्कृष्टः, महात्मा आध्यात्मिकसम्पदा महनीयात्मा सर्वदेवः सर्वदेवनामा, तस्य देवर्षिनाम्रो विप्रस्य, आत्मजन्मा सुतः, समभूत् सम्यग् बभूव क इव ? स्वयम्भूरिव स्वयमेव भवति न तु कर्मविपाकेनेति स्वयम्भूः, ब्रह्मेत्यर्थः, तादृशदेव इव, ब्रह्माऽपि शास्त्रेष्वधीती शास्त्रेषु वेदेषु, अधीती 'इंक् स्मरणे" इति वचनाद् अधीतं स्मृतं येनासौ, प्रथमतः स्मृतसकलवेद इत्यर्थः, क्रियासु जगद्रचनासु, कुशलः निपुणः, गिरां वाणीनाम्, बन्धे रचनायाम्, बोधे ज्ञाने च प्रकृष्टः प्रधानः, विविधग्रन्थरचनाशक्तियुक्तः, विविधग्रन्थबोधयुक्तश्चेत्यर्थः, यद्वा गिरां वेदरूपवाणीनाम्, बन्धे मुखरूपस्थानस्थापने, प्रकृष्टः प्रधानः, चतुर्भिर्मुखैश्चतुर्णां वेदानां धारणे निपुण इत्यर्थः । यद्वा गिरां निजतनयायाः- सरखत्याः, मानार्थत्वाद् बहुवचनम्, बन्धे पुत्रस्नेहेनाऽऽलिङ्गनादौ हस्तादिना बन्धे परिवेष्टने, बोधे तन्मनोभावविज्ञाने, प्रकृष्टः निपुणः, आत्मजन्मा आत्मना - स्वयम् जन्म यस्य सः, तदुक्तम्- “हिरण्यवर्णमभवदत्राण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूर्लोकविश्रुतः” ॥ इति, अत एव ब्रह्मा प्रथमसृष्टास्वप्सु स्वयमुप्ते स्वशक्तिभूते बीजेऽरुणार्कमण्डलायमानहैमाण्डरूपतामापद्यमाने लिङ्गशरीरावच्छिन्नजीवतत्त्वमनुप्रविश्य सृष्ट्यादौ स्वयमेवोद्भवतीति तस्य हिरण्यगर्भत्वं स्वयम्भूत्वं च मन्वादिनोदीरितमुपपद्यते । महात्मा आध्यात्मिकसम्पदा महनीयात्मा सर्वदेवः सर्वेषां प्राणिनां देवः तन्मतानुसारिभिस्तथाभ्युपगमात् । अत्र पूर्णोपमालङ्कारः, तृतीयपादेऽन्त्यानुप्रासः, द्वितीयपादे छेकानुप्रासः, एषां परस्परनैरपेक्ष्यात् संसृष्टिः । “हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः" इत्यमरः ॥ ५२ ॥ ६ तिलक०
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy