Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 70
________________ टिप्पनक-परागविवृतिसंवलिता तस्मिन्नभूद् रिपुकलत्रकपोलपत्रवल्लीवितानपरशुः परमारवंशे ।। श्रीवैरिसिंह इति दुर्धरसैन्यदन्तिदन्ताप्रभिन्नचतुरर्णवकूलभित्तिः ॥ ४०॥ [ वसन्ततिलका ] तत्राभूद् वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया विख्यातश्चतुरम्बराशिरसनादाम्नः प्रशास्ता भुवः । भूपः खर्वितवैरिगर्वगरिमा श्रीसीयकः सायकाः पञ्चेषोरिव यस्य पौरुषगुणाः केषां न लना हृदि ॥४१॥ [शार्दूलविक्रीडितम् ] टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ ४०॥ ११ ॥ गुर्जराः गुर्जरदेशीयाः, अर्बुदे तत्संज्ञकगिरौ, अद्यापि अधुनाऽपि, प्रकृतकविकालेऽपीत्यर्थः, गायन्ति सस्वरमुदीरयन्ति । एतेनार्बुदगिरेगुर्जरान्तर्वर्तित्वमभिव्यज्यते । अर्बुदाचले निवसतो वसिष्ठ ऋषेर्नन्दिनीनाम्न्यां धेनौ विश्वामित्रेणापहृतायामतीव कुध्यन् वशिष्ठः खाहिताग्निकुण्डे समन्त्रातिभिर्बुमराजनामकमेकं वीरमुद्भावयामास स्ववरैस्तमभिवर्धयामास च । स चोत्पद्य सद्य एव विश्वामित्रसैन्यं संहत्य नन्दिनीमानिनाय, अत्यन्तसन्तुष्टवसिष्ठकृतपरमारेत्यन्वर्थनाना प्रसिद्धिमवाप चेति संक्षिप्तमैतिह्यम् ।। अन वृत्त्यनुप्रासः काव्यलिङ्गं चालङ्कारः । “दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः" इत्यभिधानचिन्तामणिः ॥३९॥ परागाभिधा विवृतिः-अथ परमारवंशसारभूतमरिकरिनिकरकेसरितयाऽर्थवदाख्याविख्यातविक्रमं श्रीवैरिसिंहसंज्ञकभवनिपतिं स्तौति-तस्मिन्नभूदिति । तस्मिन् परमारवंशे दुर्धरसैन्यदन्तिदन्तायभिन्नचतुरर्णवकूलभित्तिः, रिपुकलनकपोलपत्रवाल्ली वितानपरशुः, श्रीवैरिसिंह इति [नृपतिः] अभूत्' इत्यन्वयः । तस्मिन् अनुपदोपश्लोकिते, परमारवंशे परमारसंज्ञकनृपतिकुले, दुर्धरसैन्यदन्तिदन्ताग्रभिन्नचतुरर्णवकूलभित्तिः दुर्धराणां-दुरतिक्रमाणाम् , सैन्यदन्तिना-सैनिकहस्तिनाम् , दन्ताप्रैः-दन्ताग्रभागः, भिमाः- विघटिताः, चतुर्णाम्-चतुर्दिग्वर्तिनाम् , अर्णवानाम्-समुद्राणाम् , कूलभित्तयः-तटः कुड्यानि तटसीमान इति यावत् , येन सः, विजितसर्वदिक इत्यर्थः । अत एव रिपुकलत्रकपोलपत्रवल्लीवितानपरशुः रिपूणाम्-तत्तद्दिगवस्थितशत्रूणाम् , कलवाणि-पन्यः, तासां कपोले-गण्डस्थले, उपलक्षणत्वात् स्तनमण्डल च, पत्रवल्ली-देशभेदभिन्नकस्तूरिकादिद्रवचित्रितपत्राश्चितलता, तस्या वितानः-विस्तारः, तत्र परशु:-कुठाररूपः, रिपून् निहत्य तदननासु वैधव्यापादनेन तदुच्छेदकत्वात् । श्रीवैरिसिंह इति वैरिषु-वैरिरूपद्विपेषु, सिंहः-केसरीति वैरिसिंहः, श्रिया सहितो वैरिसिंह इति श्रीवैरिसिंह इत्याख्यः, नृपोपाख्यानोपक्रमान्नृपः, अभूत् अजनि। अत्र रूपक्रमतिशयोक्तिश्चालङ्कारः । “कलनं श्रोणि-भार्ययोः” इति रभसः, “वल्ली स्यादजमोदायां लतायां कुसुमान्तरे" इति हैमः, "द्वयोः कुठारः खधितिः परशुश्च परश्वधः” इति, “कुलं रोधश्च तीरं च" इति, "भित्तिः स्त्री कुज्यम्” इति चामरः । वसन्ततिलकावृत्तम् , लक्षणं तु प्रागुक्तमेव ॥ ४० ॥ ___परागाभिधा विवृतिः-अथोक्तवंशे श्रीवैरिसिंहात्मजन्मानं श्रीसीयकनामानं नृपतिमभिष्टौति-तत्राभूदिति । 'तत्र त्रियां वसतिः, चतुरम्युराशिरसनादाम्नः भुवः प्रशस्ता, खर्वितवैरिगर्वगरिमा, अपरया श्रीहर्ष इत्याख्यया विख्यातः, श्रीसीयकः [स:] भूपः अभूत्, पञ्चेषोरिव यस्य पौरुषगुणाः सायकाः केषां हृदि न लग्नाः' इत्यन्वयः। धियां विविधसम्प. दाम्, वसतिः आश्रयः । चतुरम्बुराशिरसनादानः चत्वारः-प्राच्यादिचतुर्दिगवस्थायितया चतुःसंख्यकाः, अम्बुरा. शयः सागरा एव, रसनादाम-काश्चीगुणो यस्यास्तस्याः, भूवः पृथिव्याः, अखण्डमहीमण्डलस्येत्यर्थः, प्रशास्ता प्रकर्षेण शासकः। खावंतवरिगवेगरिमा खर्वितः-मन्दतामितः, वैरिणा-शत्रूणाम्, गवेगरिमा-आभमानभूयस्त्वं येन सः, खवितपदस्थाने चर्वितपदपाठे चर्वितः-भक्षितः, विध्वंसित इत्यर्थः, गर्वगविमा येन सः । अपरया द्वितीयया, श्रीहर्षे इत्याख्यया श्रीहर्ष इति सार्थकसंज्ञया, विख्यातः प्रसिद्धः। भूपः नृपः, अभूत् बभूव, भूप इत्यस्य स्थाने सूनुरिति पाठे श्रीवैरिसिंहस्य सुत इति तदर्थो बोध्यः । पञ्चेषोरिव पञ्च-"उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः" ।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196