Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 69
________________ तिलकमञ्जरी । वासिष्ठैः स्म कृतस्मयो वरशतैरस्त्यग्निकुण्डोद्भवो भूपाल: परमार इत्यभिधयों ख्याता महान ले । अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः ॥ ३९ ॥ [ शार्दूलविक्रीडितम् ] टिप्पनकम् - वासिष्ठैरित्यादि । कृतस्मयः विहितगर्वः । विश्वामित्रजयोर्जितस्य विश्वामित्रर्षिपराभवविस्फुरितस्य ॥ ३९ ॥ काश्मीरकुङ्कुमन्यायेन भावानामुद्भवक्षेत्रानुगुणतया तदुद्भवाधारमदगिरिमद्भुतगुणैरादौ विशिनष्टि - अस्तीति । 'आश्चर्यनिधानम्, खेचरैः कृच्छ्रालङ्घितदिग्विलङ्घशिखरग्रामः [ अत एव ] क्ष्माभृतामप्रिमः, अर्बुद इति ख्यातः [ सः ] गिरिः, अस्ति, मैनाकेन महार्णवे सत्या हरतनौ प्रवेशे कृते [ सति ] हिमाचल:, येन एकेन शिखरिणां [ मध्ये ] पुत्रीति लक्ष्योऽभवत्' इत्यन्वयः । आश्चर्यनिधानम् आश्चर्याणाम् - विस्मयजनकावलोकनकर्मणां विविधमणिगणौषधिप्रभृति वस्तूनाम्, निधिः- संचथास्पदम् । खेचरैः गगनविहारिभिर्विद्याधर किन्नरादिभिः कृच्छ्रात् प्रयासान् लङ्घितदिग्विलङ्क्षिशिखरनामः लङ्घितः - गगनविहारायातिक्रान्तः, दिग्विलङ्घी - परमोच्चतया पश्चिमदिगवच्छिन्न । काश मण्डलो ध्ववतीं, 'दिग्विलम्बि' इति पाठेऽपि तद्दिगवच्छिन्नाकाशमण्डलोर्ध्वावलम्बी, शिखरग्रामः --शृङ्गसन्दोहो यस्य सः । अत एव क्ष्माभृतां पर्वतानाम्, अग्रिमः अग्रगण्यः । अर्बुद इति ख्यातः तन्नाम्ना संस्कृतवाङ्मये विश्रुतः, 'आबु' इति तदपभ्रंशनात्रा च लोके विश्रुतः । सः - उत्तरदलघटकयत्पदबोध्यत्वेन तात्पर्यविषयः, गिरिः पर्वतः अस्ति अद्यापि विद्यते । स कः ? मैनाकेन मेनकाया हिमाचलपत्न्या अपत्यं पुमानिति मैनाकस्तेन, तन्नाम्ना हिमालयसूतेन, महार्णवे महासमुद्रे, प्रवेशे पर्वतपक्षच्छेदनोद्यतेन्द्रभयाद् अन्तस्तिरोधाने कृते सति सत्या प्राग्भवे स्वपित्रा दक्षेणारान्धमखमहोत्सवे भर्तुः शिवस्य निमन्त्रणाभावभावितेनापमानेन स्वयमेवाग्नौ शरीरत्यागरूपं सतीकार्यं कृतवत्या पार्वत्याऽपि, पर्वतापत्यतया पर्वतविद्रोहीन्द्रभयाद् हरतनौ शिवशरीरे प्रवेशे शिवशक्तिरूपतया तिरोधाने कृते सति, हिमाचलः हिमालयः, एकेन एकमात्रेण, येन अर्बुदेन पितृप्रीतिप्रत्याख्यातेन्द्रभयेन शिखरिणां पर्वतानां मध्ये, स्वसमाज इत्यर्थः, पुत्रीति पुत्रवानयमित्येवम्, लक्ष्यः लोकैर्दृश्यः “लक्षिण् दर्शनाङ्कयोः" इति धातुपाठात, पुत्रवत्त्वेन लोकप्रत्यक्षगोचर इत्यर्थः अभवत् तदानीमासीत् । मैनाक-पार्वत्योस्तदपत्ययोस्तदानीमुक्तरीत्या निलीनयोरर्बुदेनैवैकपुत्रेण पितृभक्तेन तस्य पुत्रवत्त्वं लोकैरवलोक्यमानमासीदिति भावः । पुरा पक्षवद्भिरद्रिभिरभित उड्डीयमानैः पक्षानुपसंहृत्य क्वचिदवितर्कितमापतद्भिश्व जगतश्चूर्णनभवलोक्य मघवता स्वकुलिशेन तत्पक्षकर्तनकर्मण्यारभ्यमाणे तद्भयान्मैनाको महोदधौ पार्वती च शिवशरीरे तिरोदधे, परमर्बुदस्तु स्वपितृस्नेहाद् यथास्थानमेव तस्थाषिति पौराणिकी वार्ता । अत्र क्भाभृदग्रिमत्वं प्रति हेतुविधयाऽऽश्चर्यनिधानत्वादीनां निबन्धनात् काव्यलिङ्गालङ्कारः, छेकानुप्रासचेति बोध्यम् । "महीधे शिखरि क्ष्माभृदद्दार्यवरपर्वताः” इति, “कूटोऽस्त्री शिखरं शृङ्गम्" इति चामरः ॥ ३८ ॥ 1 परागाभिधा विवृतिः - अथोक्ता चलोपचितश्रीभोजराजवंशमदसीय बीजभूतभूपालं च विक्रमोत्कर्षवर्णनमुखेनोपन्यस्यति---वासिष्ठैरिति । ‘अग्निकुण्डोद्भवः, वासिष्टैः वरशतैः कृतस्मयः, परमार इत्यभिध्या महीमण्डले ख्यातः [ सः ] भूपालः, अर्बुदे अस्ति स्म, विश्वामित्रजयोर्जितस्य यस्य भुजयोः विस्फूर्जितम् उद्गतहर्षगद्गदगिरो गुर्जरा अद्यापि अर्बुदे गायन्ति, इत्यन्वयः । अग्निकुण्डोद्भवः अभिकुण्डे - वसिष्ठ (हितामिकुण्डे, उद्भवः- तत्प्रक्षिप्ताहुतिभ्य आविर्भावो यस्य सः । तेनैव हेतुना तद्वंशस्याप्यग्निकुण्डापदेश्यत्वमिति बोध्यम् । अत एव वासिष्ठैः वसिष्ठमुनेरागतैः वरशतैः शतसंख्योपलक्षितवरैः कृतस्मयः जनितमदः । अत एव परमार इत्यभिधया परान् शत्रून् मारयतीत्यर्थक परमार नाम्ना महीमण्डले भूवलये, न तु क्वचिद् भूभाग एव ख्यातः प्रसिद्धः, सः अनुपदवक्ष्यमाणयत्पदप्रतिपाद्यत्येन तात्पर्यविषयः, भूपालः क्षितिपतिः, अर्बुदे तन्नानि निरुक्त पर्वते, अस्ति स्म आसीद्, बभूवेत्यर्थः । विश्वामित्रजयोर्जितस्य विश्वामित्रस्य - तन्नानो गाधिराजात्मजस्य क्षत्रियर्षेः, जयः - पराजयः, तेन ऊर्जितस्य उद्वेलितबलस्य, यस्य वर्ण्यमानभूपतेः, भुजयोः बाहोः, विस्फूर्जितं विक्रान्तिगाथाम्, उद्गतहर्षगद्गदगिरः उद्गतेन तद्विक्रमश्रवणोदितेन, हर्षेण-आनन्देन, गद्दा अव्यक्ता गिरो वाण्यो येषां तादृशाः, ५ तिलक०

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196