________________
टिप्पनक-परागविवृतिसंवलिता तस्मिन्नभूद् रिपुकलत्रकपोलपत्रवल्लीवितानपरशुः परमारवंशे ।।
श्रीवैरिसिंह इति दुर्धरसैन्यदन्तिदन्ताप्रभिन्नचतुरर्णवकूलभित्तिः ॥ ४०॥ [ वसन्ततिलका ] तत्राभूद् वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया विख्यातश्चतुरम्बराशिरसनादाम्नः प्रशास्ता भुवः । भूपः खर्वितवैरिगर्वगरिमा श्रीसीयकः सायकाः पञ्चेषोरिव यस्य पौरुषगुणाः केषां न लना हृदि ॥४१॥
[शार्दूलविक्रीडितम् ]
टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ ४०॥ ११ ॥
गुर्जराः गुर्जरदेशीयाः, अर्बुदे तत्संज्ञकगिरौ, अद्यापि अधुनाऽपि, प्रकृतकविकालेऽपीत्यर्थः, गायन्ति सस्वरमुदीरयन्ति । एतेनार्बुदगिरेगुर्जरान्तर्वर्तित्वमभिव्यज्यते ।
अर्बुदाचले निवसतो वसिष्ठ ऋषेर्नन्दिनीनाम्न्यां धेनौ विश्वामित्रेणापहृतायामतीव कुध्यन् वशिष्ठः खाहिताग्निकुण्डे समन्त्रातिभिर्बुमराजनामकमेकं वीरमुद्भावयामास स्ववरैस्तमभिवर्धयामास च । स चोत्पद्य सद्य एव विश्वामित्रसैन्यं संहत्य नन्दिनीमानिनाय, अत्यन्तसन्तुष्टवसिष्ठकृतपरमारेत्यन्वर्थनाना प्रसिद्धिमवाप चेति संक्षिप्तमैतिह्यम् ।।
अन वृत्त्यनुप्रासः काव्यलिङ्गं चालङ्कारः । “दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः" इत्यभिधानचिन्तामणिः ॥३९॥
परागाभिधा विवृतिः-अथ परमारवंशसारभूतमरिकरिनिकरकेसरितयाऽर्थवदाख्याविख्यातविक्रमं श्रीवैरिसिंहसंज्ञकभवनिपतिं स्तौति-तस्मिन्नभूदिति । तस्मिन् परमारवंशे दुर्धरसैन्यदन्तिदन्तायभिन्नचतुरर्णवकूलभित्तिः, रिपुकलनकपोलपत्रवाल्ली वितानपरशुः, श्रीवैरिसिंह इति [नृपतिः] अभूत्' इत्यन्वयः । तस्मिन् अनुपदोपश्लोकिते, परमारवंशे परमारसंज्ञकनृपतिकुले, दुर्धरसैन्यदन्तिदन्ताग्रभिन्नचतुरर्णवकूलभित्तिः दुर्धराणां-दुरतिक्रमाणाम् , सैन्यदन्तिना-सैनिकहस्तिनाम् , दन्ताप्रैः-दन्ताग्रभागः, भिमाः- विघटिताः, चतुर्णाम्-चतुर्दिग्वर्तिनाम् , अर्णवानाम्-समुद्राणाम् , कूलभित्तयः-तटः कुड्यानि तटसीमान इति यावत् , येन सः, विजितसर्वदिक इत्यर्थः । अत एव रिपुकलत्रकपोलपत्रवल्लीवितानपरशुः रिपूणाम्-तत्तद्दिगवस्थितशत्रूणाम् , कलवाणि-पन्यः, तासां कपोले-गण्डस्थले, उपलक्षणत्वात् स्तनमण्डल च, पत्रवल्ली-देशभेदभिन्नकस्तूरिकादिद्रवचित्रितपत्राश्चितलता, तस्या वितानः-विस्तारः, तत्र परशु:-कुठाररूपः, रिपून् निहत्य तदननासु वैधव्यापादनेन तदुच्छेदकत्वात् । श्रीवैरिसिंह इति वैरिषु-वैरिरूपद्विपेषु, सिंहः-केसरीति वैरिसिंहः, श्रिया सहितो वैरिसिंह इति श्रीवैरिसिंह इत्याख्यः, नृपोपाख्यानोपक्रमान्नृपः, अभूत् अजनि।
अत्र रूपक्रमतिशयोक्तिश्चालङ्कारः । “कलनं श्रोणि-भार्ययोः” इति रभसः, “वल्ली स्यादजमोदायां लतायां कुसुमान्तरे" इति हैमः, "द्वयोः कुठारः खधितिः परशुश्च परश्वधः” इति, “कुलं रोधश्च तीरं च" इति, "भित्तिः स्त्री कुज्यम्” इति चामरः । वसन्ततिलकावृत्तम् , लक्षणं तु प्रागुक्तमेव ॥ ४० ॥ ___परागाभिधा विवृतिः-अथोक्तवंशे श्रीवैरिसिंहात्मजन्मानं श्रीसीयकनामानं नृपतिमभिष्टौति-तत्राभूदिति । 'तत्र त्रियां वसतिः, चतुरम्युराशिरसनादाम्नः भुवः प्रशस्ता, खर्वितवैरिगर्वगरिमा, अपरया श्रीहर्ष इत्याख्यया विख्यातः, श्रीसीयकः [स:] भूपः अभूत्, पञ्चेषोरिव यस्य पौरुषगुणाः सायकाः केषां हृदि न लग्नाः' इत्यन्वयः। धियां विविधसम्प. दाम्, वसतिः आश्रयः । चतुरम्बुराशिरसनादानः चत्वारः-प्राच्यादिचतुर्दिगवस्थायितया चतुःसंख्यकाः, अम्बुरा. शयः सागरा एव, रसनादाम-काश्चीगुणो यस्यास्तस्याः, भूवः पृथिव्याः, अखण्डमहीमण्डलस्येत्यर्थः, प्रशास्ता प्रकर्षेण शासकः। खावंतवरिगवेगरिमा खर्वितः-मन्दतामितः, वैरिणा-शत्रूणाम्, गवेगरिमा-आभमानभूयस्त्वं येन सः, खवितपदस्थाने चर्वितपदपाठे चर्वितः-भक्षितः, विध्वंसित इत्यर्थः, गर्वगविमा येन सः । अपरया द्वितीयया, श्रीहर्षे इत्याख्यया श्रीहर्ष इति सार्थकसंज्ञया, विख्यातः प्रसिद्धः। भूपः नृपः, अभूत् बभूव, भूप इत्यस्य स्थाने सूनुरिति पाठे श्रीवैरिसिंहस्य सुत इति तदर्थो बोध्यः । पञ्चेषोरिव पञ्च-"उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः" ।