________________
तिलकमञ्जरी ।
तस्योदप्रयशाः समस्ते सुभटमामाग्रगामी सुतः सिंहो दुर्धरशत्रुसिन्धुरततेः श्रीसिन्धुराजोऽभवत् । एकाधिज्यधनुर्जितान्धिवलयावच्छिन्नभूर्यस्य स श्रीमद्वाक्पतिराजदेवनृपतिर्वीरामणीरत्रजः ॥ ४२ ॥
आकीर्णाजितः सरोज कलशच्छत्रादिभिलञ्छनैस्तस्याजायत मांसलायतभुजः श्रीभोज इत्यात्मजः ।
३५
प्रीत्या योग्य इति प्रतापत्रसतिः ख्यातेन मुञ्जाख्यया
यः स्खे वाक्पतिराज भूमिपतिना राज्येऽभिषिक्तः स्वयम् ||४३|| [ शार्दूलविक्रीडिते ]
टिप्पनकम् - [ नेह व्याख्यातम् ] ॥ ४२ ॥ ४३ ॥
इत्युक्ताः पञ्चसंख्यकाः, इषवः-वाणां यस्य तस्य कामस्येव यस्य पौरुषगुणाः पराक्रमगुणकाः, सायकाः बाणाः, केषां विद्विषां कामदेवपक्षे केषां पुंसाम् हृदि वक्षसि, पक्षे मनसि न लग्ना, अपि तु सर्वेषामित्यर्थः ।
अत्र छेकानुप्रास उपमा चालङ्कारः । " रसना काञ्ची -जिह्वयोः” इति विश्वप्रकाशः, "नपुंसि दाम सन्दानम्" इत्यमरः, “पौरुषं पुरुषस्य स्याद् भावे कर्मणि तेजसि” इति विश्वः, "शरे खङ्गे च सायकः” इत्यमरः ॥ ४१ ॥
wwwww
परागामिधा विवृति-(-- अथ श्रीभोजराजपितरं श्रीसिन्धुराजमुप श्लोकयति - तस्योदग्रयशा इति । 'उदप्रयशाः, संमस्त सुभद्रप्रामाग्रगामी, दुर्धरशत्रु सिन्धुरततेः सिंहः, [सः] श्रीसिन्धुराजः, तस्य सुतः अभवत्, एकाधिज्यधनुर्जितान्धिवलयावच्छिन्नभूः, स श्रीमद्वाक्पतिराजदेव नृपतिः यस्य अग्रजः, अभवत्' इत्यन्वयः । उदग्रंयशाः उदग्रम्-उन्नतं, उत्कृष्टमित्यर्थः, यशः - निखिलदिग्विस्तीर्ण प्रशस्तिर्यस्यासौ 'एकदिग्व्यापिनी कीर्तिः सर्वदिग्व्यापकं यशः' इति यशसः परिभाषणम् । समस्तसुभटग्रामाग्रगामी समस्ताः सकला ये सुभटाः - सुष्ठु भटा योद्धारः, तेषां ग्रामः समूहः, तत्र अग्रगामी - अग्रेसरः । दुर्धर - शत्रु सिन्धुरततेः दुर्धराणां - दुर्धर्षाणाम्, शत्रुसिन्धुराणां - रिपुगजानाम्, ततेः- समूहस्य, सिंह :- सिंहरूपस्तद्वत् विदारकत्वात्, शकसिन्धुरेति पाठे दुर्धराणां शक्रसिन्धुराणाम्-इन्द्रगजानामैरावतादीनाम्, ततैरिति व्याख्येयम् । सः - उत्तरार्धनिविष्ट*त्पदार्थत्वेन कवितात्पर्यविषयः । श्रीसिन्धुराजः सिन्धुषु -सागरेषु, राजा - महानिति सिन्धुराजः, शौर्यौदार्यादिगुणमहोदधिरित्यर्थः, श्रिया सहितः सिन्धुराजः श्रीसिन्धुराजेत्यन्वर्थसंज्ञ इति तथा । तस्य सीयकनृपतेः सुतः पुत्रः, अभवत् अभूत् । एकाधिज्यधनुर्जितान्धिवलयावच्छिन्नभूः एकेन निष्प्रतिद्वन्द्विना, अधिज्येन - ज्याम् मौवम् अधिरूढेन, आकृ नेत्यर्थः, धनुषा, जिता - स्वायत्तीकृता, अब्धिवलयावच्छिन्ना समुद्रसन्दोह सीमिता, भूः पृथिवी येन सः, सार्वभौमत्वमापन इत्यर्थः । वीराग्रणीः शूरशिरोमणिः । सः प्रसिद्धः । श्रीमद्वाक्पतिराज देवनृपतिः श्रीमान् वाक्पतिराजदेवनामा भूपतिः, यस्य श्रीसिन्धुराजस्य, अग्रजः पूर्वजन्मा, अभवत् आसीत् ।
श्रीवाक्पतिराजदेवः श्रीसीयकमृपतेनौरसः सुत आसीत्, अपि तु तेनामुतेन मुञ्जक्षेत्रे केनचिद् विक्षिप्तोऽसौ शैशवेऽपि भाग्याभिव्यञ्जकमञ्जुलाकृतितया स्वसुत स्नेहेनानीय शृङ्गारसुन्दरीराज्यै समर्पितस्तया लालना- पालनाम्यामाप्यायित इति कृत्रिम सुत इति कृत्वा जात पूर्वायापि तस्मै राज्यमदत्त्वा पश्चात् पद्मराश्या प्रसूतायापि श्रीसिन्धुराजा यैवौरसपुत्राय नृपतिरसौ राज्यं दत्तवानासीत्, श्रीसिन्धुराजेन तूपभुज्यान्ते तस्मै समर्पितमिति तदानीन्तनमेवादसीय वीर्यमेतत्पद्येन भावितमिति बोध्यम् ।
अत्र छेकानुप्रासो रूपकमतिशयोक्तिश्चालङ्कारः । “उच्च प्रांशूलतोदप्रोच्छ्रितास्तु" इत्यमरः, "भट्टः स्यात् पुंसि वीरे च, विशेषे पामरस्य च” इति मेदिनी, " स्तम्बेरमद्विरद-सिन्धुर-नाग- दन्तिनः" इत्यभिधानचिन्तामणिः ॥ ४२ ॥
परागाभिधा विवृतिः - अथ कविकालिकराज्याधिपतया प्रकृतकथालतिकाऽऽलवाल रूपतया च श्रीभोजराजमतिमञ्जुपद्य सप्तकाम्बुजखजा सभाजयति - आकीर्णाङ्गितलः इति । 'सरोजकलशच्छत्रादिभिः लाञ्छनैः आकीर्णाङ्घ्रितलः, मांसलायतभुजः प्रतापवसतिः, श्रीभोज इति तस्यात्मजः, अजायत, यः मुञ्जाख्यया ख्यातेन वाक्पतिराजभूपतिना स्वयं योग्य इति स्वे