________________
३६
टिप्पनक-परागविवृतिसंवलिता देव्या विभ्रमसद्म पद्मवसतेः कर्णावतंसं क्षितेः सौभाग्यप्रतिपक्षमिन्दुमहसः सर्गाद्भुतं वेधसः। धत्ते योऽवधिभूतमीक्षणहृतां नेत्रामृतं योषितां रूपन्यकृतकाममद्भुतमणिस्तम्भाभिरामं वपुः ॥४४॥
[शार्दूलविक्रीडितम्]
टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ ४४ ॥
राज्ये प्रीत्या अभिषिक्तः' इत्यन्वयः । सरोज-कलश-च्छत्रादिभिः कमल-कलशा-ऽऽतपत्राकाररेखात्मकैः, लाञ्छनैः भाग्यचिह्नः, आकीर्णाशितलः पूर्णपादपृष्टः, सामुद्रिकशास्ने तादृशरेखानां राज्ययोगभिव्यञ्जकत्वाभिधानात् । तदुक्तम्-"छत्रं तामरसं धनू रथवरो दम्भोलि-कूर्मा-ऽङ्कुशा वापी-स्वस्तिक-तोरणानि च सरः पञ्चाननः पादपः । चक्रं शङ्ख-गजौ समुद्र-कलशौ प्रासाद-मत्स्या यवा यूपस्तूपकमण्डलून्यवनिभृत् सच्चामरो दर्पणः" ॥ १ ॥ इति, “उक्षा पताका कमलाभिषेकः सुदाम केकी धनपुण्यभाजाम्” इति च । मांसलायतभुजः मांसलौ-स्थूलौ बलवन्तावित्यर्थः, आयतौ-दी! च, भुजौ-बाहू यस्य सः, बाहुबलशालीत्यर्थः । प्रतापवसतिः प्रतापस्य-शक्तिदण्डजन्यक्षात्रतेजसः, वसतिः-आश्रयः । श्रीभोज इति श्रीभोजनामविश्रुतः। तस्य श्रीसिन्धुराजस्य नृपतेः, आत्मजः सुतः, अजायत अभूत् । यः पञ्चाशत्तमपद्यघटकतत्पदबोध्यत्वेन कवि. तात्पर्यविषयः, भोजराजः, मुजाख्यया मुख्यतृणविशेषक्षेत्रोपलब्धतया भुञ्जनाना, ख्यातेन प्रसिद्धिमापन्नेन वाक्पति
भूपतिना वाक्पतिराजदेवनाना नृपतिना, स्वयम आत्मनैव न तु भोजपित्रा श्रीसिन्धुराजेन, योग्य इति राज्यधुराधारणनिपुणोऽयमिति प्रतीत्य, स्वे राज्ये खाधिष्ठितराज्यासने,प्रीत्या वात्सल्येन, अभिषिक्तः अभिषेकविधिना स्थापितः ।
श्रीभोजराजे पचमाब्दवयस्के सति श्रीसिन्धुराजो निजमरणमचिरभावि विभाव्य श्रीमुञ्जस्य भुजयो राज्यभारमुत्सङ्गे च श्रीभोजकुमार निक्षिप्य तद्योग्यतानिष्पत्तौ पश्चाद् भोजाय राज्यमर्पयितुमाज्ञप्तवानासीदिति तदादेशमनुसृत्य तेन तस्मै सदर्पितमित्यैतिह्यम् ।
मुजाख्यया ख्यातेनेत्यत्र छेकानुप्रासः, पतिराज-भूमिपतिनेत्यत्र पुनरुत्रदाभासश्चालङ्कारः । “कलशस्तु त्रिषु द्वयोः" इति, "चिहं लक्ष्म च लाञ्छनम्” इति, “बलवान् मांसलोऽसलः” इति चामरः ॥ ४३ ॥
परागाभिधा विवृति-श्रीभोजराजवपुरुपवर्णयति-देव्या इति । 'यः पद्मवसतेः देव्याः विश्रमसद्म, क्षितेः कर्णावंतंसम् , इन्दुमहसः सौभाग्यप्रतिपक्षम् , वेधसः सर्गाद्भुतम् , ईक्षणहृताम् अवधिभूतम् , ईक्षणहृतां योषितां नेत्रामृतम् , रूपन्यकृतकामम् , अद्भुतमाणिस्तम्भाभिरामम् , वपुः धत्ते' इत्यन्वयः । यः भोजराजः, पावसतेः पद्म-कमलम् , वसतिः- . वासस्थानं यस्यास्तस्याः, देव्या लक्ष्मीदेव्याः, विभ्रमसद्म विलासास्पदम् , रामणीयकादिगुणातिरेकेण लक्ष्म्याः प्रणयास्पदस्वात् । क्षितेः महीमहिलायाः, कर्णावतंसं कर्णालङ्करणम् , तद्वदुद्भासकत्वात् , अन्यालङ्करणस्य त्वधस्तनाझावभासकतया न तद्रूपत्वमुक्तम् । इन्दुमहसः चन्द्रकान्तः, चन्द्रिकाया इत्यर्थः, सौभाग्यप्रतिपक्षं सौन्दर्यप्रतिद्वन्द्रि, तदधिकालादकत्वात् । वेधसः विश्वसृजः, सद्भुतं सर्च-सृष्टिकलायाम् , अद्भुतं-आश्चर्यजनकम् , अलौकिकसंस्थानशालित्वात् । ईक्षणहताम् ईश्यते दृश्यते यैस्तानि ईक्षणानि लोकलोचनानि, तानि हरन्ति अपहरन्तीति ईक्षणहतस्तेषाम् , नयनाकर्षकपदार्थानाम् , अवधिभूतं नयनाकर्षताया निरतिशयोत्कर्षस्थानम् , नयनाकर्षणक्रियायामद्वितीयत्वात् । 'ईक्षणहृताम्' इत्यस्य 'योषिताम्' इत्यनेनान्वयात् ईक्षणहृतां नयनाकर्षिणीनाम् , योषितां नारीणाम् , नेत्रामृतं नयनपेयपीयूषम् , तद्वन्नयनाखाद्यत्वात् । रूपन्यकृतकामं रूपेण-सौन्दर्येण, न्यकृतः-तिरस्कृतः, कामः-कन्दर्पो येन तत् , तदधिकसौन्दर्यास्पदत्वात् । अद्भुतमणिस्तम्भाभिरामम् अद्भुतः-अपूर्वो यः, मणिस्तम्भः-मणिमयः स्तम्भः स्थूणा, तद्वदभिरामं-मनोहरम् , उज्वलद्युतिदिग्धढिमास्पदत्वात् , एतावद्विशेषणविशिष्टं वपुः शरीरं धत्ते धारयति ।
अत्र पादत्रये रूपकम् , तुरीयपादे 'रूपन्यकृतकामम्' इत्यत्र व्यतिरेकः, अद्भुतमणिस्तम्भाभिरामम्' इत्यत्रोपमा चालङ्कारः । "स्त्रीणां विलास-बिब्बोक-विभ्रमा ललितं तथा" इति, "हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः" इति, "स्रष्टा प्रजापतिर्वेधा विधाता" इति, "स्त्री योषिदबला" इति, "स्तम्भौ स्थूणा-जडीभावौ” इति चामरः, “सद्म स्यान्मन्दिरे नीरे" इति, “लोचनं नयनं नेत्र. मीक्षणं चक्षुरक्षिणी' इति च मेदिनी ॥ ४४ ।।