________________
तिलकमलरी।
वर्णवर्गान्त्यवर्गान्यौ, निजनामावलम्बिनौ । न-मौ गुणश्रियोद्भास्य, स्पर्शख्याति नयन्ति ये ॥ १५ ॥ तेषां श्रीनेमिसूरीणां, गुरूणामनुकम्पया । सम्भवन्ति न किं दक्षा मादक्षा जडशेखराः ॥ १६ ॥ युग्मम् ॥ [ अनुष्टुप् ] परागो न परागोऽपि, सुवर्णोऽन्यः सुवर्णतः । दुष्प्राप्यसदलङ्कारधनपालार्थनायकः ॥ १७ ॥ वैधुधागम आमोदप्रदः प्रेम्णा प्रसाध्यते । लावण्यविबुधेनाथ, मया मूलमधुग्रहः ॥ १८ ॥ युग्मम् ॥ [ अनुष्टुप् ]
कोऽपि, सुधीवर इति विरोधः, परिहारे हु सुधियां पण्डितानां वरः श्रेष्ठ इति सुधीवरः। वजितं दर्पणम् अभिमानः, मण्डनाननुरागितया आदशों वा येन तथाभूतोऽपि सदर्यण इति विरोधः, परिहारे तु सतां सदरतूनाम् अर्पणः समर्पक इत्यर्थः । विरोधाभास-यमकयोरत्र संसृष्टिः॥ ___“अन्तः प्रान्ते स्वरूपे च समीपे निधनेऽपि च"। इति, "उचितो युक्तेऽनुमते निश्चिता-ऽभ्यस्तयोरपि"। इति च नानार्थसङ्ग्रहः ॥ १३ ॥ १४ ॥
धणेत्यादि । वर्णानां ककारादीनां वर्गाः करग-चवर्ग-टवर्ग-तवर्ग-पवर्गरूपाः पञ्च पञ्चकाः, तेषामन्त्यौ वर्गों तवर्ग-पवगौ, तदन्त्यौ तत्र चरमौ नमो नकार-मकारो, यतो निजनामावलम्बिनौ निजनामनिवेशिनौ, अतो गुणश्रिया गुणस्य गुणपदेन व्याकरणपरिभाषितस्य एकारस्य तदुभयमध्यस्थस्य श्रिया शोमया, उद्भास्य, स्पर्शख्याति स्पर्शपदव्यपदेशम् , नयन्ति प्रापयन्ति, अत ऊर्व स्पष्टा• धम् । वर्णानां ब्राह्मणादीनां वर्गश्चतुष्कः, तस्यान्ते भवो यो वर्गः, अन्त्यजवर्ग इत्यर्थः, तदन्त्यमपि, अत्यन्ततुच्छमपि जनम् , श्रास्तामितर मित्यर्थः, निजनामजपादिना, उद्भास्य प्रकाश्य, श्रीमन्तं कुल्लेत्यर्थः, स्पर्शन दानगुणेन ख्याति वदान्यत्वेन प्रसिद्धिमापादयन्तीप. नुरणनरूपेण निर्गलितोऽर्थः । अत्र निजनामावलम्बनस्य पदार्थस्य उद्भासनाङ्तया काव्यलिङ्गालङ्कारः ।।
"स्पों वर्गाक्षरे दाने स्पर्शने स्पर्शने रुजि" इत्यनेकार्थसङ्ग्रहः ॥ १५ ॥ १६ ॥
अथ मङ्गलाचरणानन्तरम् , मया लावण्यविबुधेन विजयलावण्यसूरिणा, वैबुधागमः विबुधस्य भावो वैबुधम् , तद् आगमयति प्रापयतीति तथा । आमोदप्रदः सत्वाव्यव्यसनिनां विनोदप्रदः। मूलमधुग्रहः मूलस्य मञ्जरीपदारपदस्य व्याख्येयग्रन्थस्य, मधु पुष्परसः, तद्वदास्वायत्वात् प्रस्तुतकाव्यरस इत्यर्थः, तस्य ग्रहो ग्रहणमास्वादनं यतः, प्रस्तुतकाच्यरसास्वादकारणमित्यर्थः । दुष्प्राप्याः काव्यान्तरदुर्लभाः सदलङ्काराः सुन्दरालङ्कारा यस्मिन् स चासौ धनयालार्थो धनपालोत्प्रेक्षितप्रस्तुतकान्याः, तस्य नायकः प्रापकः, ज्ञापक इत्यर्थः । सुवर्णतोऽन्योऽपि सुवर्ण इति घिरोधः, परिहारे तु सुवर्णद्रव्यव्यतिरिक्तोऽपि सुन्दरवर्णमयः। न परागोऽपि परागभिन्नोऽपि पराग इति विरोधः, परिहारे तु अनपगतो रागो यस्मादित्यनपरागः, परागः परागनाम्नी विवृतिः । प्रेम्णा तिलकमलरीप्रीत्या, न तु कस्यापि नियन्त्रणया, प्रसाध्यते प्रकर्षण प्रणीयते। कुसुमकणरूपपरागपक्षे तु---वैबुधागमः विबुधानां देवानाम् , आगम इष्टागमनहेतुः, यदा अगमो वृक्षः, कल्पतरुरित्यर्थः, तत्सम्बन्धी। आमोदप्रदः परिमलप्रदः । दुष्प्राप्याः सदलङ्कारा यसिन् तादृशस्य धनपालार्थस्य कुबेरवैभवस्य नायकः प्रापकः, कल्पतरुपत्रस्यापि सर्वप्रदत्वं किमुत तत्सारभूतस्य परागस्य । मामूलमधुग्रहः आमूलं मूल. पर्यन्तं मधुग्रहा मधुपा यस्मिन्नसौ, परागः, मया लक्ष्म्या फलत्वेन हेतुभूतया, लावण्यविबुधेन लावण्यपूर्णदेवेन, शाकपार्थिवादित्वान्मध्यमपदलोपः प्रसाध्यते विभूष्यते । अन्यत् स्पष्टम् । अत्र यमक-विरोधाभासालङ्कारयोः संसृष्टिः ॥
"परागः सुमनोरजः” इति, “वृक्षो महीरुहः शाखी विटपी पादपस्तरः । अनोकहः कुटः सालः पलाशी दु-दुमा-ऽगमाः" । इति चाऽमरः “आमोदो गन्ध-हर्षयोः" इति, “मा लक्ष्म्यां वारणेऽव्ययम्" इति चानेकार्थसङ्ग्रहः ॥ १७ ॥ १८ ॥
इति परागमङ्गलपद्यव्याख्या सम्पूर्णा ॥