________________
टिप्पनक-परागविवृतिसंवलिता [सवः पातु जिनः कृत्स्ना, मीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैक,-जन्तोाप्तं जगत्रयम् ॥१॥]
टिप्पनकम्-इह जगति सर्वेऽपि शिष्टा अभीष्टे वस्तुनि प्रवर्तमाना अभीष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इति मत्वा परमश्नावको धनपालकविः स वः पातु' इत्यादिश्लोकपश्चकेनेष्टा-अभिमता-ऽधिकृतदेवतानां नमस्कारान् करोति, तत्राधेन श्लोकद्वयेन जिनस्य चतुर्विशतितीर्थकृतां चेष्टदेवतानमस्कारः, अपरेण चाभिमतदेवताया नाभेयस्य, एकेन चाधिकृतदेवताया सरस्वत्या इति । सत्र रागादिजेतृत्वादिसामान्यगुणेनेष्टदेवता, गोत्रपारम्पर्य विनविनाशकस्वादिगुणं चाश्रित्याभिमतदेवता, शास्त्रकरणे च प्रवर्तमानस्य विशिष्टवागर्थप्रापकत्वेनाधिकृतस्वाद भधिकृता देवता सरस्वती । तत्र तावद् आयं श्लोकद्वयं व्याख्यायते-स जिनो रागादिजेता देवः, पातु रक्षतु, वो युष्मान् , य ईक्षते सामान्यः रूपतया [पश्यति, विशेषरूपतया ] च जानाति, दर्शनज्ञानार्थवादीक्षतेः । किं तत् ? जगत्रयं भुवनत्रयमधोमध्योर्वम् , चतुर्दशरजवात्मकं लोकमित्यर्थः, एतच्चोपलक्षणम् , तथाऽ[तथा चा]लोकमपि धर्मादिपदार्थशून्यमनन्तं पश्यति जानाति छ । कीदर्श जगत्रयम् ? व्याप्तं युक्तम् । कैः ? रूपैः शरीरैः । कियद्भिः? अनन्तैः भनादित्वेन, न पुनः पर्यवसानैः, मुक्तानां शरीरपर्यवसानां नन्तररवादसम्भवात् (?) [मनादित्येन, न पुनरपर्यवसानेन, मुक्तानां शरीरपर्यवसानेनानन्तत्वासम्भवात् ] । कस्य रूपैः ? एकैकजन्तोः एकैकस्य जीवस्य, अनादिस्वं रूपाणामनादौ संसारेऽनन्तशो जन्ममरणप्राप्तेः । पुनः कीदृशम् कृत्स्नं परिपूर्ण समग्रम्, नैकदेशम् । कथमीक्षते ? प्रतिक्षणं निरन्तरम्, न पुनरन्तरमस्तीति ॥१॥
परागाभिधा विवृतिः-अथ विश्वविस्तारनिस्तारविश्वविश्वस्तसमस्तकालनिर्विशेषनिरवशेषविशेषविविक्तविमर्शिभिर्दूरदर्शिभिः प्रकृतप्रबन्धपूर्तिप्रतिबन्धकदुरितदूरीकरणाय शश्वदूरीकृतं मङ्गलमत्यन्तनिर्वृजिनजिनसामान्यविशेषकर्तृकरक्षणाद्याशीरूपेण प्रणीय कमनीयकवितालताऽऽलवालो मनीषिमानसमरालो धीमान् धनपालो निजनिबन्धभालोपरि प्राजयति-सव: पातु जिन इति । 'य एकैकजन्तोरनन्तै रूपैर्याप्तं कृत्वं जगत्रयं प्रतिक्षणमीक्षते स जिनो वः पातु' इत्यन्वयः । यः अनवधृतनामधेयः समभिव्याहृततत्पदजन्यबोधविषयत्वेन वक्तृत्तात्पर्यविषयः कश्चित् । एकैकजन्तोः जायते नरामरादिरूपेणोत्पद्यत इति जन्तुः, जन्मपरम्परानिपतितो जीव इत्यर्थः, एकैकश्चासौ जन्तुरेकैकजन्तुस्तस्य, प्रत्येकप्राणिन इत्यर्थः । अनन्तैः अनादित्वेन गणनापर्यवसानाभावाद् अनन्तसङ्ख्यकैः, अनादित्वं च रूपाणामनादौ संसारेऽनन्तो जन्म-मरणप्राः । रूपैः पर्यायपदवाच्यैः खरूपैः, खकृतकर्मविपाकोपनीतैश्चतुरशीतिलक्षयोन्यनुरूपैर्दुःखावलिसंवलितैर्दशाविशेषरित्यर्थः, रूपैः नाटकीयरूपैर्वा । व्याप्तं परितः पूर्णम् , यदुक्तम्-“समस्तलोकाकाशेऽपि नानारूपः स्वकर्मतः। वालाममपि तनास्ति यन्न स्पृष्टं शरीरिभिः" । [ योगशास्त्रम् ], पर्यायार्थे व्याप्तत्वं जीवे नियतम् , न तु तदाश्रिते लोके इति कथं तदुपवर्णनमिति न शक्यम् , 'मञ्चाः कोशन्ति' इतिवत् तारस्थ्यात् तद्व्यपदेशन्यायेन विरोधाभावात् । जगत्रयं स्वर्ग-सर्ल्स-पाताललक्षणं त्रिभुवनम् , जैननये अधोलोकमध्यलोकोयलोकलक्षणं तत् , चतुर्दशरज्वात्मकलोकाकाशमिति भावः । प्रतिक्षणं क्षणे क्षणे समये समये इति प्रतिक्षणम् , निरन्तरमित्यर्थः, क्षणो नाम सर्वज्ञेनापि विभज्य साक्षात्कर्तुमशक्यः कालस्य निरंशोऽशः, ईदृक्षाः क्षणा अक्ष्णो निमेषे उन्मेषे वा सङ्ख्यातीता व्यपगच्छन्ति । ईक्षते निखिलसामान्य-विशेषपुरस्कारेण साक्षात्करोति, प्रतिक्षणमीक्षणेनास्य भगवतः सर्वज्ञता सर्वदर्शिता चाऽऽवेदिता, सर्वज्ञज्ञानस्यैव प्रतिसमयमात्मलाभात् , असर्वज्ञज्ञानं तु अन्तर्मुहूर्तेनैवात्मलाभ लभते, समयनवकाद् आरभ्य समयोनमुहूर्त यावत् सर्वोऽपि कालोऽन्तर्मुहूर्तशब्देन परिभाष्यते, सामान्य-विशेषोभयात्मकं वस्तु, तत्र सामान्यांशावगाही बोधो दर्शनम्, विशेषांशावगाही बोधो ज्ञानमिति जैनदर्शनविवेकः । सिद्धान्तिता हि सर्वज्ञसिद्धिः "सूक्ष्माऽन्तरित-दूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतोऽम्यादिरिति सर्वज्ञसंस्थितिः” ॥ इत्यादिना । स जिनः जयति रागायन्तरङ्गरिपूनिति जिनः, वीतरागो भगवान्, योगसंवलितरूया वा तादृशोऽर्हन् , जातावेकवचनम् , तेन निखिला जिना इत्यर्थः । वः निरुक्तरूपैः कदर्थ्यमानान् युष्मान् । पातु निरुक्तरूपेभ्यो रक्षतु ।