________________
टिप्पनक-परागविवृतिसंवलिता लावण्यपूर्णमतिहृद्यगुणस्वरूपं, सन्नन्दन खवयसाऽमृतमेधयन्तम् ।।
श्रीनेमिसूरिमतिभूरिविभूतिभाजं, भ्राजन्तमन्सरनिशं गुरुमानमामि ॥ ११॥[वसन्ततिलका] कम्रालङ्कारकीर्णा सुललितपदन्यासनैपुण्यपूर्णा, प्रोदञ्चचारुवर्णा स्वररुचिरतया शश्वदाकृष्टकर्णा । उन्मीलङ्कारभावा नवरसहृदया श्लिष्यमाणा प्रसन्ना, स्वान्ते कान्तेव पुंसामुपहरति रसं भारती नेमिसूरेः ॥ १२ ॥
स्रग्धरा] यः सर्वदारोचितचित्तवृत्तिस्तथाऽप्यदारोचितचित्तवृत्तिः । सिद्धानुरागान्वितचित्तवृत्तिस्तथापि सिद्धान्तसुचित्तवृत्तिः ॥ १३ ॥ [ उपजातिः ] निरस्तधामाऽपि विकीर्णधामा, सुधीवरो धीवरताहरोऽपि । सदर्पणो वर्जितदर्पणोऽपि, स नेमिसूरिर्जगतीह जीयात् ॥ १४ ॥ युग्मम् ॥ [ उपेन्द्रवा]
_ लावण्यपूर्ण लावण्येन बाह्यान्तरिकसौन्दर्येण, नामैकदेशन्यायाद् विजयलावण्यसूरिणा शिष्येण च, पूर्ण समेधितम् । अतिहृद्यगुणस्वरूपम् अतिढ्यानामतिप्रियाणां गुणानां स्वरूपं मूर्तिम् , अतिहृद्यमतिप्रियं गुणस्य श्रीगुणविजयस्य स्वरूपं यस्य तं च । समन्दर्न सतां सुधियां साधूनां वा, नन्दनं स्वसुधीस्वातिशय-साधुत्वातिशयानुभवानन्देन समेधकम् , नन्दनः श्रीविजयनन्दनसूरिः, सन् सुधीः साधुश्च येन तं च । स्ववचसा स्वसदुपदेशवाक्येन, अमृतं भव्यजनानां मोक्षं श्रीविजयामृतसूरिंच, एधयन्तं वर्धयन्तम् , श्रीनेमिसूरिं गुरुम् , अन्तः अन्त:करणे, भनिशं सदा, भ्राजन्तं दीप्यमानम् , आनमामि आ समन्ताद् नमामि । अत्र विजयलावण्यमूरिप्रभृतीनामन्योन्यमैत्रीनियन्त्रितानां सह दीक्षा जिघृक्षणां सौराष्ट्रान्तर्गतवोदादाख्यैकग्रामजन्मनां मुनीशानामुल्लिखितनामान्यप्येकदेशन्यायेन निस्सरन्तीति वैचित्र्यम् ॥११॥
कम्रालारकी कौः कमनीयैः, अलङ्कारः-अनुप्रासोपमादिभिः शब्दा-ऽर्थालङ्कारः, पक्षे हार-करणादिभिः शरीरालङ्कारः, कीर्णा व्याप्ता। सुललितपदन्यासमैपुण्यपूर्णा सुललितानाम् अतिमनोहराणाम् , पदानां विभक्तयन्तशब्दानाम् , न्यासे विन्यासे नैपुण्यं निपुणता, तेन पूर्णा, पक्षे सुललितः पदन्यासश्चरणविक्षेपः, तन्नपुण्यपूर्णा । प्रोदचच्चारुवर्णा प्रकरण उदञ्चन् उच्चरन् चारुवों माधुर्यादिव्यजकमक्षरं यस्याम् , प्रकर्षेण उदचन् उद्भाजन्, चारो हस्पतेः, वर्ण इव वणों यश इव यशो यस्या वा, सा तथा, पक्षे उदअन् चारुवर्णो गौरवों यस्याः सा तथा । स्वररुचिरतया स्वराणाम् अकारादीनाम् , रुचिरतया लघुत्वादिवशेन रुचिरच्छन्दोऽनुगुणतया, पक्षे निषादर्षभादिस्वरसौष्ठवेन, शश्वदाकृष्टकर्णा शश्वत् सन्ततम् , आकृष्टः सर्वतो व्यावृत्त्य स्वस्सिन्' एकाभितः, कणों लोकानां ओनेन्द्रियवृत्तियया सा तथा । उन्मीलभूरिभावा उन्मीलन्तः शब्दवृत्त्या आविर्भवन्तः, भूरिभावा वक्तुविविधाभिप्रायाः, पक्षे कटाक्षविक्षेपादिभिः स्फुटीभवन्तो विविधसम्भोगाभिप्रायाः स्वेदकम्पादयो व्यभिचारिभावा वा यया सा तथा ! नवरसहृदया नवसङ्खकरससहिता, पोषकशक्या, व्यापत्या तु प्रशस्तरसप्रधाना, पक्षे नवोऽभिनवः, लोकोत्तर इत्यर्थः, रसः शृङ्गाररसो यस्मिंस्तादृशं ददयं यस्याः सा तथा। शिष्यमाणा एकवृन्ताश्रितानेकफलन्यायेन नानाथैः सम्बध्यमाना प्रसन्ना प्रसादगुणान्विता, पक्षे श्लिष्यमाणा आलिङ्गयमाना सती, प्रसन्ना बष्टा । नेमिसूरेरिती वाणी, कान्तेव कामिनीव, पुंसां सहृदयजनानाम् , स्वान्ते, रसं शान्तिरसम्, पक्षे आलम्बनविघया शृङ्गाररसम्, उपहरति उपानयीकरोति । अत्र वेषानुप्राणितरूपकालङ्कारः !!
"अलङ्कारस्तु हारादावुपमादावलङ्कतो" इति, "भावः सत्ता-स्वभावा-ऽभिप्राय-चेष्टात्म-जन्मसु । क्रिया-लीला-पदार्थेषु विभूतिबुध-जन्तुषु ॥ इत्यादौ च" इति, "प्रसादोऽनुग्रहे काव्यगुण-स्वास्थ्य-प्रसत्तिषु"। इति च मेदिनी "वणों गुणा-ऽक्षर-यशः शुक्लादिब्राह्मणादिषु । वर्णः स्तुतौ कुथायां च वर्गः स्याद्भेद-रूपयोः” ॥ इति शाश्वतः, "स्वरो नासासमीरे स्यान्मध्यमादित्रिकस्वरे । उदातादावकारादौ षड्जादौ च ध्वनौ पुमान्" ।। इति विश्वः ॥ १२ ॥
यः सर्वदेत्यादि । सर्वदाराणामुचिता तुल्यप्रणयास्पदत्वेन अनुकूला परिचिता वा चित्तवृत्तिर्यस्य स सर्वदारोचितचित्तवृत्तिः, तथाप्यदारोचितचित्तवृत्तिरिति विरोधः, परिहारे तु सर्वदा रोचिता रागादिमलापसारणेन उज्वलिता स्वस्य परस्य च चित्तवृत्तिर्येन स तथा । सिदेषु अणिमादिसिद्धिशालिषु, अनुरागः प्रीतिः, तदन्विता चित्तवृत्तिर्यस्य स तथा, तथापि सिद्धान्ते सिद्धजननिधने सुचित्तवृत्तिरिति विरोधः, परिहारे तु सिद्धान्तेषु आगमेषु सुचित्तवृत्तिः । निरस्तं त्यक्तं धाम तेजः प्रभावो वा येन तथाभूतोऽपि विकीर्णधामा विस्तीर्णधामेति विरोधः, परिहारे तु निरस्तधामा त्यक्तगृहः, मुनिरिति यावत् । हिंसाप्रतिषेधकतया भीवरताहरोऽपि मात्स्यिक्तानिवार