Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 66
________________ टिप्पनक-परागविवृतिसंवलिता समाधिगुणशालिन्यः प्रसन्नपरिपक्त्रिमा । यायावरकवेर्वाचो मुनीनामिव वृत्तयः ॥ ३३॥ [पल्या ] सूरिर्महेन्द्र एवैको वैबुधाराधितक्रमः । यस्यामोचितप्रौढिकविविस्मयकद्वचः ॥ ३४॥ [पथ्या ] टिप्पनकम्-वाचो वर्तन्ते । कस्य ? यायावरक राजशेखरस्य । समाधिगुणशालिन्यः समाधिलक्षणो यो गुणः--शब्दालङ्कारविशेषः, तेन शालिन्य:-श्लाघावत्यः । प्रसन्नपरिपक्रिमा प्रसादपरिणताः । का इव केषाम् ? वृत्सय इव व्यापारा इव, मुनीनां यतीनाम्, समाधिगुणशालिन्यः समाधानगुणश्लाघावत्यः, यद्वा समाधिश्च गुणाश्च क्षाम्स्यादयस्तैः शोभावत्यस्तथा, प्रसन्नपरिपक्रिमाः निर्मला: स्वर्गापवर्गफलपाकनिर्वृत्ताः॥३३॥ टिप्पनकम्-महेन्द्र एव, एकः अद्वितीयः । सूरिः आचार्यः वर्तते । वैधुधाराधितक्रमः विविधचिद्वदृन्दसेवितपादः । यस्य महेन्द्रसूरेः । वचः वचनमस्ति । कीदृशम् ? अमोचितप्रौढिकविविस्मयकृत् अमयोचितप्रौढयः-देवयोग्यप्रौढताः, ये कवयः-कवितारः, तेषां विस्मयकृत्-आश्चर्यकारि । अन्यत्र महेन्द्र एव देवराज एव, एकः सूरिः विद्वान् । कीदृशः? वैवुधाराधितक्रमः देवसमूहसेवितचरणः, यस्य महेन्द्रस्य, वचः, अमयोचितप्रौढिकविविस्मयकृत् अमर्त्यः-देवः, उचितप्नौढिश्च-योग्यप्रौडिमा च, यः कविः-बृहस्पतिः, तस्य विस्मयकृत्आश्चर्यकारि ॥ ३४॥ मार्गेण, तदन्थद्वारेत्यर्थः । आशाः सर्वदिशः । भ्रमति व्याप्नोति, प्रसरतीत्यर्थः । कस्य केव ? श्वेताम्बरशिरोमणेः श्वेतम्-निर्मलम् , यद् अम्बरम्-आकाशम् , तस्य शिरोमणे:-शिरोभूषणस्य, भद्रकीतः सुन्दरकीर्तेः, ताराधिपस्य चन्द्रस्य । प्रभा इव प्रकृष्टा भा इव, चन्द्रिकेवेत्यर्थः, सा यथा तारागणाध्वना सारागणस्य मार्गेण, आकाशमार्गेणेति यावत् , आशाः सर्वदिशः, भ्रमति व्याप्नोति तथा। __ इहापि श्लेषानुप्राणितोपमालङ्कारः । “अम्बरं व्योम-वस्त्रयोः । कार्पासे सुरभिद्रव्ये” इति, “तारो निर्मलमौक्तिके । मुक्ताशुद्धावुचनादे नक्षत्र-नेत्रमध्ययोः" इति, “भद्रं तु मङ्गले । मुस्तक-श्रेष्ठयोः साधौ काशने करणान्तरे" ॥ इति, “अध्वा कालवर्त्मनोः" इति चानेकार्थसङ्ग्रहः॥ ३२॥ परागाभिधा विवृतिः-~यायावरनामानं श्रीराजशेखरकविं स्तौति-समाधिगुणशालिन्य इति । 'यायावरकवेर्वाचो मुनीनां वृत्तय इव समाधिगुणशालिन्यः प्रसन्नपरिपक्रिमाः [विलसन्ति ]' इत्यन्वयः । यायायरकवेः यायावरनाम्नः काव्यकारस्य । वाचः काव्यभावमापन्ना वाण्यः । समाधिगुणशालिन्यः समाधिः-आरोहणावरोहणक्रमः, स चासौ गुण:प्राचीनाभिप्रेतो माधुर्यादिगुणत्रयातिरित्तो गुणः, यद्वा समाधिः-"समाधिः सुकर कार्य कारणान्तरयोगतः” इति काव्यप्रकाशकृल्लक्षितोऽलङ्कारविशेषः, स चासौ गुणः-शोभाधायको धर्मः, तेन शालन्वे-शोभन्ते तच्छीला यास्ताः । प्रसन्नपरिपक्रिमाः प्रसन्नाः प्रसादगुणान्विताः, परिपक्रिमाः-परिपाकेन निवृत्ताः, सुविवेकाग्निपरिपक्का इत्यर्थः, सुविविच्य निबद्धा इति यावत् , विलसन्ति । का इव ? मुनीनां संयमिनाम् , वृत्तयः अन्तःकरणवृत्तयः, इव ता यथा समाधिगुणशालिन्यः "तदेवार्थनिर्भासं स्वरूपशून्यमिव समाधिः" इति पतञ्जलिप्रभृतिपरिभाषितः स्वरूपमपि विलाप्येव ध्येयार्थमात्राकारेण प्रतिभासपर्यवसितं ध्यानमेव समाधिः, योगस्यान्तरङ्गमङ्गम् , तद्रूपेण गुणेन-मुक्तिप्रयोजकोत्कर्षेण, यद्वा निरुक्तसमाधिना, गुणै:-क्षमादिभिश्च शालन्ते-शोभन्त इत्येवंशीला इति तथा, प्रसनपरिपक्रिमाः प्रसन्नाः-रागादिमलापनयनान्निर्मलाः, सन्तोषात्मानो वा, परिपक्रिमाः-परिपक्वाः, न तु व्युत्थायिन्यः, तथा । अत्रापि श्लेषानुप्राणितोपमालङ्कारः । “समाधिः स्यात् समर्थने । चित्तैकाय्य-नियमयोर्मोंने” इति, “प्रसादोऽनुग्रहस्वास्थ्य-प्रसत्तिषु । काव्यगुणे” इति चानेकार्थसङ्ग्रहः ॥ ३३ ॥ परागाभिधा विवृतिः-अथ खधर्मगुरुं खबन्धुशोभनमुनिदीक्षागुरुं च श्रीमहेन्द्रसूरिवरं कविवरं प्रशंसतिसूरिमहेन्द्र इति । 'वैबुधाराधितक्रमः [ सः ] महेन्द्र एवैकः सूरिः [ अस्ति ], यस्य वचोऽमयोचितप्रौढिकविविस्मयकृत्

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196