________________
टिप्पनक-परागविवृतिसंवलिता समाधिगुणशालिन्यः प्रसन्नपरिपक्त्रिमा । यायावरकवेर्वाचो मुनीनामिव वृत्तयः ॥ ३३॥ [पल्या ] सूरिर्महेन्द्र एवैको वैबुधाराधितक्रमः । यस्यामोचितप्रौढिकविविस्मयकद्वचः ॥ ३४॥ [पथ्या ]
टिप्पनकम्-वाचो वर्तन्ते । कस्य ? यायावरक राजशेखरस्य । समाधिगुणशालिन्यः समाधिलक्षणो यो गुणः--शब्दालङ्कारविशेषः, तेन शालिन्य:-श्लाघावत्यः । प्रसन्नपरिपक्रिमा प्रसादपरिणताः । का इव केषाम् ? वृत्सय इव व्यापारा इव, मुनीनां यतीनाम्, समाधिगुणशालिन्यः समाधानगुणश्लाघावत्यः, यद्वा समाधिश्च गुणाश्च क्षाम्स्यादयस्तैः शोभावत्यस्तथा, प्रसन्नपरिपक्रिमाः निर्मला: स्वर्गापवर्गफलपाकनिर्वृत्ताः॥३३॥
टिप्पनकम्-महेन्द्र एव, एकः अद्वितीयः । सूरिः आचार्यः वर्तते । वैधुधाराधितक्रमः विविधचिद्वदृन्दसेवितपादः । यस्य महेन्द्रसूरेः । वचः वचनमस्ति । कीदृशम् ? अमोचितप्रौढिकविविस्मयकृत् अमयोचितप्रौढयः-देवयोग्यप्रौढताः, ये कवयः-कवितारः, तेषां विस्मयकृत्-आश्चर्यकारि । अन्यत्र महेन्द्र एव देवराज एव, एकः सूरिः विद्वान् । कीदृशः? वैवुधाराधितक्रमः देवसमूहसेवितचरणः, यस्य महेन्द्रस्य, वचः, अमयोचितप्रौढिकविविस्मयकृत् अमर्त्यः-देवः, उचितप्नौढिश्च-योग्यप्रौडिमा च, यः कविः-बृहस्पतिः, तस्य विस्मयकृत्आश्चर्यकारि ॥ ३४॥
मार्गेण, तदन्थद्वारेत्यर्थः । आशाः सर्वदिशः । भ्रमति व्याप्नोति, प्रसरतीत्यर्थः । कस्य केव ? श्वेताम्बरशिरोमणेः श्वेतम्-निर्मलम् , यद् अम्बरम्-आकाशम् , तस्य शिरोमणे:-शिरोभूषणस्य, भद्रकीतः सुन्दरकीर्तेः, ताराधिपस्य चन्द्रस्य । प्रभा इव प्रकृष्टा भा इव, चन्द्रिकेवेत्यर्थः, सा यथा तारागणाध्वना सारागणस्य मार्गेण, आकाशमार्गेणेति यावत् , आशाः सर्वदिशः, भ्रमति व्याप्नोति तथा।
__ इहापि श्लेषानुप्राणितोपमालङ्कारः । “अम्बरं व्योम-वस्त्रयोः । कार्पासे सुरभिद्रव्ये” इति, “तारो निर्मलमौक्तिके । मुक्ताशुद्धावुचनादे नक्षत्र-नेत्रमध्ययोः" इति, “भद्रं तु मङ्गले । मुस्तक-श्रेष्ठयोः साधौ काशने करणान्तरे" ॥ इति, “अध्वा कालवर्त्मनोः" इति चानेकार्थसङ्ग्रहः॥ ३२॥
परागाभिधा विवृतिः-~यायावरनामानं श्रीराजशेखरकविं स्तौति-समाधिगुणशालिन्य इति । 'यायावरकवेर्वाचो मुनीनां वृत्तय इव समाधिगुणशालिन्यः प्रसन्नपरिपक्रिमाः [विलसन्ति ]' इत्यन्वयः । यायायरकवेः यायावरनाम्नः काव्यकारस्य । वाचः काव्यभावमापन्ना वाण्यः । समाधिगुणशालिन्यः समाधिः-आरोहणावरोहणक्रमः, स चासौ गुण:प्राचीनाभिप्रेतो माधुर्यादिगुणत्रयातिरित्तो गुणः, यद्वा समाधिः-"समाधिः सुकर कार्य कारणान्तरयोगतः” इति काव्यप्रकाशकृल्लक्षितोऽलङ्कारविशेषः, स चासौ गुणः-शोभाधायको धर्मः, तेन शालन्वे-शोभन्ते तच्छीला यास्ताः । प्रसन्नपरिपक्रिमाः प्रसन्नाः प्रसादगुणान्विताः, परिपक्रिमाः-परिपाकेन निवृत्ताः, सुविवेकाग्निपरिपक्का इत्यर्थः, सुविविच्य निबद्धा इति यावत् , विलसन्ति । का इव ? मुनीनां संयमिनाम् , वृत्तयः अन्तःकरणवृत्तयः, इव ता यथा समाधिगुणशालिन्यः "तदेवार्थनिर्भासं स्वरूपशून्यमिव समाधिः" इति पतञ्जलिप्रभृतिपरिभाषितः स्वरूपमपि विलाप्येव ध्येयार्थमात्राकारेण प्रतिभासपर्यवसितं ध्यानमेव समाधिः, योगस्यान्तरङ्गमङ्गम् , तद्रूपेण गुणेन-मुक्तिप्रयोजकोत्कर्षेण, यद्वा निरुक्तसमाधिना, गुणै:-क्षमादिभिश्च शालन्ते-शोभन्त इत्येवंशीला इति तथा, प्रसनपरिपक्रिमाः प्रसन्नाः-रागादिमलापनयनान्निर्मलाः, सन्तोषात्मानो वा, परिपक्रिमाः-परिपक्वाः, न तु व्युत्थायिन्यः, तथा ।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः । “समाधिः स्यात् समर्थने । चित्तैकाय्य-नियमयोर्मोंने” इति, “प्रसादोऽनुग्रहस्वास्थ्य-प्रसत्तिषु । काव्यगुणे” इति चानेकार्थसङ्ग्रहः ॥ ३३ ॥
परागाभिधा विवृतिः-अथ खधर्मगुरुं खबन्धुशोभनमुनिदीक्षागुरुं च श्रीमहेन्द्रसूरिवरं कविवरं प्रशंसतिसूरिमहेन्द्र इति । 'वैबुधाराधितक्रमः [ सः ] महेन्द्र एवैकः सूरिः [ अस्ति ], यस्य वचोऽमयोचितप्रौढिकविविस्मयकृत्