SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी। स मदान्धकविध्वंसी रुद्रः कै भिनन्द्यते । सुश्लिष्टललिता यस्य कथा त्रैलोक्यसुन्दरी ॥ ३५ ॥ [पध्या ] टिप्पनकम-स रुद्रः रुद्राभिधानः कविः । कैनाभिनन्द्यते ? सर्वैरपि प्रशस्यते । कीदृशः ? मदान्धक विध्वंसी मदान्धा:-दन्धिाः , ये कवयस्तान् ध्वंसयते-तिरस्करोति पराभवतीति स तथोक्तः। यस्य कथा वर्तते, किमाख्या? त्रैलोक्यसुन्दरी । किम्भूता ? सुश्लिष्टललिता पुष्टश्लेषधना लालित्यघना च । अन्यत्र रुद्रः हरः । कैर्नाभिनन्द्यते ? सर्वैरपि प्रशस्यते । कीदृशः ? समदान्धकविध्वंसी समदः-मदसहितः, भन्धक:-मन्धकासुरः, तस्य विध्वंसी-विधाती । यस्य सुश्लिष्टललिता आलिङ्गनवती गौरी । किम्भूता? त्रैलोक्यसुन्दरी त्रैलोक्ये-त्रिभुबममध्ये, सुन्दरी-सौन्दर्ययुक्ता ॥ ३५ ॥ [वर्तते]' इत्यन्वयः। उत्तरार्धनिवेशियच्छब्दानुरोधेन पूर्वार्धे तच्छब्दोऽध्याहृत्य योजनीयः, तथा च वैबुधाराधितक्रमः विविधा विशिष्टा वा बुधाः-विद्वांसो विबुधाः, तेषां समूहो वैवुधम् , तेन अथवा वै-निश्चयेन, बुधैः-विद्वद्भिः, आराधितौसेवितौ क्रमौ चरणौ यस्य सः, विद्वद्वन्दवन्दितपादारविन्द इत्यर्थः । सः-यच्छब्दबोध्यत्वेन कवितात्पर्यविषयः । महेन्द्र एव महेन्द्रसंज्ञक एव, एकः अद्वितीयः, सूरिः विद्वान् , आचार्य इति यावत् , अस्तीति शेषः । यस्य कविवर्यस्य । वचः काव्यभावापन्ना वाक् । अमोचितप्रौढिकविविस्मयकृत् अमाः-देवाः, तदुचिता-तदभ्यस्ता तद्योग्या वा, प्रौढि:-काव्यप्रणयनप्रगल्भता येषां तेषामपि कवीनाम् , विस्मयकृत्-आश्चर्यजनकम् । यद्वा 'अमयोचितप्रौढि' 'कविविस्मयकृस्' इति पृथक् पदम् , तथा च आ समन्तात् , मसः-मनुजैः, रचिता-परिचिता, प्रौढिः-रचनानैपुण्यम् , यस्मिंस्तत् , अत एव कविविस्मयकृत, इति प्रासङ्गिकोऽर्थः । श्लेषानुप्राणितोऽर्थस्तु-वैबुधाराधितक्रमः विबुधानां-देवानां समूहो वैबुधम् , तेन आराधितक्रमः-सेवितचरणः सुराधिपतित्वात् , स महेन्द्र एव महान् इन्द्र एव, एकः अद्वितीयः, सूरिः विद्वान् अस्ति, यस्य वचः विविधवैदग्भ्यमयी चाक, अमोचितप्रौढिकविविस्मयकृत् अमर्त्यः-देवरूपः, अत एव उचितप्रौढिः अभ्यस्तप्रगल्भताकश्च, यः कविः-वाचस्पत्येन कबनकुशलस्तदाचार्यो वृहस्पतिः, तद्विस्मयकृत्-स्खशिष्येऽपि खसमधिकवाग्वदग्ध्योपलब्ध्या तस्याप्याश्चर्यजनकम् , अथवा मत्सः-मानवैः, उचिता-अभ्यस्ता, इति मोचिता, न मलोंचिता अमयोचिता तादृशी, अथवा अमोचिता-देवयोग्या, प्रौढिर्यस्य तस्य कवेः-दैत्यगुरोरपि, विस्मयकृत्-आश्चर्यजनकम् , पदपार्थक्ये तु अमोचितप्रौढि देवपरिचितप्रौढताकम् , कविविस्मयकृत कवेः कवनकर्मणः, बृहस्पतेः शुक्रस्य वा, आश्चर्यजनकं च। अत्रातिशयोक्तिश्लेषालङ्कारयोः संसृष्टिः । “धीमान् सूरिः कृती कविः” इति, “सन् सुधीः कोविदो बुधः" इति चामरः, "क्रमः कल्पाऽद्धि-शक्तिषु । परिपाट्याम्" इति, "कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्" इति चानेकार्थसङ्ग्रहः ॥३४॥ परागाभिधा विवृतिः-अथ त्रैलोक्यसुन्दरीसंज्ञककथां ग्रथितवन्तं श्रीमन्तं रुद्रकवि रुद्रश्लिष्टविशेषगैरुपश्लोकयतिस मदान्धकवीति । 'यस्य सुश्लिष्टललिता त्रैलोक्यसुन्दरी कथा [ अस्ति ], मदान्धकविध्वंसी स रुद्रः कैर्नाभिनन्यते ?' इत्यन्वयः । मदान्धकविध्वंसी मदेन खकवित्वाभिमानेन अन्धा:-अन्यदीयकाव्योत्कर्षदृष्टिशून्याः, ये कवयस्तान् ध्वंसयतितदीयमदान्धतां निरस्यति तच्छोलो यः, 'शिखी ध्वस्तः' इत्यत्रेवात्रापि विशेष्यांशबाधिताया ध्वसनक्रियाया | मदान्धत्वलक्षण - विशेषणांशमात्रपर्यवसानात् । रुद्रः रुद्रनामा कविः, कैः गुणप्रणयिभिः । न अभिनन्द्यते श्लाघ्यते, सर्वैरेवेत्यर्थः । कुतः? यस्य कविवरेण्यस्य । सुश्लिष्टललिता सुश्लिष्टा-सुन्दर श्लेषालङ्कारालङ्कृता, अत एव ललिता-लोकप्सिता च, अथवा सुश्लिष्टैःसुन्दर श्लेषाञ्चितैः पदैः ललिता। त्रैलोक्यसन्दरी तत्संज्ञिका, कथा काव्यविशेषः, अस्तीति शेषः । श्लेषानुरणितोऽर्थस्तुसमदान्धकविध्वंसी मदेन-बलावलेपेन, सहितः समदः, यः, अन्धकः अन्धकनामा दैत्यः, तं विध्वंसयति-विनाशयति, तच्छीलो यः सः, रुद्रः शङ्करः। कैः बलाबलविवेचकैः । न अभिनन्द्यते बलवत्तरत्वेन प्रशस्यते, सरेवेत्यर्थः । कुतः? यस्य यन्निरूपितदाम्पत्यवती, सुश्लिष्टललिता अर्धाङ्गभावेन सम्यगालिङ्गिता, कुतः ? यतो ललिता-अभीप्सिता, यद्वा यतस्तेन सुश्लिष्टा, अतो ललिता-तदीप्सितत्वेन लोकैः प्रतीयमाना, अनीप्सितत्वे सुम्लेषानुपपत्तेः, यद्वा सुश्लिष्टम्-सम्यगन्वितम्, ललितम्-हावविशेषः, यस्यां सा, त्रैलोक्यसुन्दरी त्रैलोक्ये-त्रिभुवने, सुन्दरी-निरतिशयसौन्दर्यशालिनी स्त्री, अस्ति-शक्तिरूपेण तिष्ठति, अतस्तादृशशक्तिशालितया तस्य तद्योग्यत्वमिति भावः ॥ अत्र सभामङ्गश्लेषालङ्कारः॥"ललितमीप्सिते" इत्यमरवृत्तिः,"स्त्रीणां विलास-किव्वोकविभ्रमा ललितं तथा" इत्यमरः॥३५॥ M
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy