________________
३२
टिप्पनक- परागविवृतिसंवलिता
सन्तु कर्दमराजस्य कथं हृद्या न सूक्तयः ।
wwwwwwwwww
कवित्रैलोक्य सुन्दर्या यस्य प्रज्ञानिधिः पिता ॥ ३६ ॥ [ पध्या ] केचिद् वचसि वा*येऽन्ये केsयशून्ये कथार से |
केचिद् गुणे प्रसादादौ धन्याः सर्वत्र केचन || ३७ ॥
अस्त्याश्चर्यनिधानमर्बुद इति ख्यातो गिरिः खेचरैः कृच्छ्रालङ्घितदिग्विलङ्घशिखरग्रामोऽग्रिमः क्ष्माभृताम् । मैनाकेन महार्णवे हरतनौ सत्या प्रवेशे कृते येनैकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ||३८|| [ शार्दूलविक्रीडितम् ]
टिप्पनकम् - [ नेह व्याख्यातम् ] ॥ ३६ ॥
टिप्पनकम् - [ नेह व्याख्यातम् ] ॥ ३७ ॥
टिप्पनकम् - श्रीभोजदेवराजवंशवर्णन पूर्वक भोज देववर्णनार्थमर्बुद गिरिवर्णनमाह - अस्तीत्यादि । खेचराः - विद्याधरादयः । ग्रामः समूहः । सत्या गौर्या ॥ ३८ ॥
परागाभिधा विवृतिःतेः अथ कर्दमराजकविमनुपदीपवणितरुद्र कवितनयतया स्तौति - सन्तु कर्दमराजस्येति । [तस्य ] कर्दमराजस्य सूक्तयः कथं न हृद्याः सन्तु, यस्य प्रज्ञानिधिः त्रैलोक्यसुन्दर्याः कविः पिता [आसीत् ]' इत्यन्वयः । अत्रोत्तरार्धनिवेशित यत्पदोत्थिताऽऽकाङ्क्षया पूर्वार्धे तत्पदमध्याहार्यम् एवं च तस्य कर्दमराजस्य तन्नाम्नः श्रीमदुद्रकविअन्मनः कवेः सूक्तयः गुणालङ्कारादिचमत्कृता वाचः, हृद्याः सद्योरसामृतस्यन्दितया सहृदयहृदयाह्लादिकाः, कथं न सन्तु ? सन्त्येवेत्यर्थः । कुतः ? प्रज्ञानिधिः प्रज्ञायाः - नवनवानल्पकल्पनात्मिकायाः, आन्तररत्नरूप प्रतिभाया इत्यर्थः, निधिः-सङ्ग्रहास्पदम्, अत एव त्रैलोक्यसुन्दर्याः अनुपदोपश्लोकितायास्तन्नाश्याः कथायाः, कविः विरचयिता, यस्य कवेः, पिता जनकः, आसीदिति शेषः । एवं च "आत्मा वै जायते पुत्रः" इति श्रुति सिद्धरुद्रकवितादात्म्यस्य तस्य कवेरपि सहृदयरोचकोक्तिकत्वमुचितमेवेति भावः । अस्यां व्याख्यायां पूर्वार्धविवक्षितार्थं प्रति उत्तरार्धवाक्यार्थस्य हेतुतया काव्यलिङ्गालङ्कारः । श्लेषबलानुरणितोऽर्थस्तु कर्दमानाम्- पङ्कानाम्, ताद्धर्म्येण तदुपलक्षितानां नदीनाम्, राजा - पतिः समुद्रः, तस्य तद्वर्णनपराः सूतयः, हृद्याः श्रोतॄणां हृदयप्रियाः, कथं न सन्तु सन्त्येवेत्यर्थः, समृद्धवस्तुवर्णनस्य सर्वप्रियत्वात् । प्रज्ञामधिः प्राज्ञप्रवरः, त्रैलोक्य सुन्दर्याः पार्वत्याः, पिता हिमालय एव यस्य समुद्रस्य, कविः अभिज्ञः, पश्चिमोत्तरभागयोः पूर्वपश्चिमपार्श्वाभ्यामवगाह्य समुद्रे साक्षी अस्ति । एवं च तत्समृद्धेर्न कविप्रौढोक्तिसिद्धत्वम् अपि तु ससाक्षिकतया स्वतः सिद्धत्वमेवेति तद्वर्णनस्य हृद्यत्वमुपपद्यते । "कविर्वाल्मीकि - काव्ययोः । सूरौ काव्यकरे पुंसि” इति मेदिनी ॥ ३६ ॥
परागाभिधा विवृतिः - अथ प्रकृतकथोपोद्धातमुपक्षेतुकामः कविः काचिदेकां कलामाकलय्य तत्कलाविकलान् प्रति नाहङ्करणीयम्, बिरलस्यैव सकलकलाकत्वेनाहङ्कर्तुरपि कतिपयकला वैकल्यसम्भवादिति ध्वनयन् कविजनविनयाधान सम्भारमुपसंहरति---केचिद् वचसीति । 'केचिद् वचसि धन्याः, अन्ये वाच्ये धन्याः केऽप्यशून्ये कथारसे धन्याः केचित् प्रसादाद गुणे धन्याः केचने सर्वत्र धन्याः' इत्यन्वयः । केचित् कतिचित् कवयः, वचसि अवधारणन्यायाद् वचस्येव अलङ्काररीतिविशेष पुरस्कारेण शब्दात्मक काव्य शरीरांशसन्निवेशनकलायामेवेत्यर्थः, धन्याः कुशलाः, न त्वनुपदमुच्यमानायामन्य कलायामित्यर्थः । अन्ये अपरे कवयः, वाच्ये अलङ्कारविशेषपुरस्कारेण वाच्य एव, अर्थात्मकशरीरांशयोजनात्मक कलायामेवेत्यर्थः, धन्याः । केऽपि केचन कवयः, अशून्ये अविकले, कथारसे स्वनिबध्यमानकथायामभिव्यङ्ग्यतया शृङ्गारादिरसनिवेशन एव, शब्दार्थयुगलात्मक काव्यशरीरे रसात्मकजीवनावान कलायामेवेत्यर्थः, धन्याः निपुणाः । केचित् कतिपये, प्रसादादौ गुणे प्रसादमाधुर्यौ जोरूपगुण एव, रसरूपकाव्यात्मनि तत्तद्र सोचितगुणाधानकलायामेवेत्यर्थः, धन्याः विचक्षणाः । केचन केचिदेव सु, विरला एवेत्यर्थः, सर्वत्र अनुपदोक्तसकलकलासु, धन्याः विदग्धाः, न तु सर्व इत्यर्थः ।
अत्रालङ्काररीतिकलयोरनुल्लेखात् कवेर्च्यूनत्वं नोद्भावनीयम्, तयोः शब्दार्थगतत्वेन मयाख्यानदिशा शब्दार्थविन्यास - कलायामेवान्तर्भावात् । अत्र परिसंख्यालङ्कारः ॥ ३७ ॥
परागाभिधा विवृतिः - अथाधिकृतकथाप्रणयनप्रीणनीय श्रीमद्भोजराजवर्णनाङ्गतया तद्वंशं प्रशंसितुकामः कविः
wwwww