Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 57
________________ तिलकमञ्जरी। वर्णयुक्तिं दधानाऽपि स्निग्धाञ्जनमनोहराम् । नातिश्लेषघना श्लाघां कृतिलिपिरिवाश्नुते ।। १६ ॥ [पध्या ] अश्रान्तगद्यसन्ताना श्रोतृणां निर्विदे कथा । जहाति पद्यप्रचुरा चम्पूरपि कथारसम् ॥१७॥ [ भविपुला ] टिप्पनकम्-ईदृशी च कृतिर्न कार्येति दर्शयति-नाश्रुते न प्रामोति । काऽसौ ? कृतिः काव्यरचना । केव ? लिपिरिव लिपियथा । कां च नाश्नुते ? श्लाघां प्रशंसाम् । किम्भूता कृतिः ? लिपिश्च ? अतिश्लेषधना अति-अतिशयेन, श्लेषेण-व्यर्थ प्रतिपादकवचनेन, घना-व्याप्ता, निरन्तरेत्यर्थः, लिपिः, अतिश्लेषधना इति-वर्णान्योऽन्यलेपेण धना-निरन्तरा । कीदृश्यपि द्वयी ? वर्णयुक्तिं दधानाऽपि वर्णकयोगं दधाना-बिभ्राणाऽपि, वर्णयुक्ताऽपीत्यर्थः, लिपिश्च वर्णयुक्तिम्-अक्षरयोगं दधानाऽपि, वर्णयुक्ताऽपीत्यर्थः, किम्भूतां वर्णयुक्तिम् ? स्निग्धाञ्जनमनोहरां स्निग्धाम्-अरूक्षां माधुर्यादियुक्ताम् , जनमनोहराम्-लोकचित्तरञ्जिकाम्, अन्यत्र स्निग्धं यद् अञ्जनं तेन मनोहराम्-रमणीयामतिकृष्णत्वात् ॥ १६ ॥ टिप्पनकम्- ईदृशी कथा न कार्येति दर्शयति-निर्विदे या विरागार्था भवति । का? कथा, केषाम् ? श्रोतृणां श्रावकाणाम् । कीदृशी? अश्रान्तगद्यसन्ताना निरन्तरगयप्रवाहा । तथा जहाति त्यजति । कम् ? कथारसं कथाया रसः-शृङ्गारादिः, तम् । काऽसौ ? चम्पूरपि गद्यपथमयी कथा । कीदृशी? पद्यप्रचुरा निरन्तर पद्या, तस्मादीदृश्यपि न कार्या ॥ १७ ॥ परागाभिधा विवृतिः-अथ श्लेषबहुलाऽपि रचना न रोचकतामजतीत्याह-वर्णयुक्तिमिति । 'निग्धाजनमनोहरां वर्णयुक्तिं दधानाऽपि अतिश्लेषघना कृतिः, लिपिरिव श्लाघां नाश्नुते' इत्यन्वयः । स्निग्धा व्यजकासम्बन्धेन सरसाम् , न तु रूक्षाम् , अत एव जनमनोहरां राहृदयजनमनोरञ्जिनीम् , वर्णयुक्ति पद-वाक्यात्मना वर्णयोजनाम् , दधानाऽपि धारयन्यपि, अतिश्लेषधना बहुतरश्लेषालङ्कारसङ्कीर्णा, कृतिः काव्यरचना, श्लाघां पर्यवसितार्थप्रतिपित्सुजनकर्तृकां प्रशंसाम् , नाचते न प्राप्नोति । केव? लिपिरिव पत्रादावक्षरविन्यास इव, सा यथा स्निग्धम्-सान्द्रम् , अथवा आईम् , न तु शुष्कम् , यद् अञ्जनम्-मषी, तेन मनोहराम्-दर्शकमनोविनोदिनीम् , वर्णयुक्तिम् अक्षरसन्निवेशं दधानाऽपि, अतिश्लेषघना अतिश्शेषेण अक्षराणामतिसङ्कारेण, अविभक्तात्मना सन्निवेशेनेत्यर्थः, घना-व्याप्ता, न श्लाधामथते तथा, यद्वा नातिश्लेषवना, इत्यत्र 'न' इति न पृथक् पदमपि तु 'अतिश्लेषघना' पदेन समस्तम्, एवं च अल्पश्लेषा कृतिलिपिरिव श्लाघामश्चत इतीत्थं भावमुखेन व्याख्येयम् । अत्रापि श्लेषानुप्राणितोपमालङ्कारः। “धनः सान्द्रे दृढे दाये, विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते" इत्यनेकार्थसङ्ग्रहः ॥१६॥ परागाभिधा विवृतिः-अथ 'गद्याद् व्यावर्तते जनः' इत्यनुपदोक्तमेवार्थ हेतूपन्यासमुखेन कविः पुष्णातिअश्रान्तगद्यसन्तानेति । 'अश्रान्तगद्यसन्ताना कथा श्रोतृणां निर्विदे [ कल्पते ], पद्यप्रचुरा चम्पूरपि कथारसं जहाति' इत्यन्वयः । अश्रान्तगद्यसन्ताना अश्रान्तः-अविश्रान्तः, गद्यसन्तानः-गद्यधारा यस्यां सा, गौडी रीतिमनुसृत्य निबद्धेत्यर्थः। कथा गद्यकाव्यम् , श्री विदे विरागाय कल्पते, विश्रामधामार्थानुसन्धानव्यग्रतया रसास्वादासिङ्ख्या रसैकलोलुपानां तत्रानुरागयोगात् । एवं पद्यप्रचुरा श्लोकबहुला, चम्पूरपि चमत्कृत्य पुनाति रसामृतधारया सहृदयजनहृदयमित्यर्धकचम्पूनानी गद्यपद्यमयी कथाऽपि “गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते” इत्यभियुक्तोः । कथारसं कथाभिव्यङ्गय रसं शृङ्गारादिकम् । जहाति नाभिव्यनक्ति, परिर्थप्रतिपत्तेरायाससाध्यतया गद्यांशैरनायासरसास्वादशीलानां ततस्तदास्वादायोगात्। यद्वा विशिष्टकथा चम्पूरपि अान्तगद्यसन्ताना पद्यप्रचुरा च सती यतः कथारसं जहाति, अतो रसैकलिप्सूनां श्रोतृणां निर्विदे भवति किमुत? अन्या सामान्यकथेत्येवं व्याख्येयमिदं पद्यम् । ___आयव्याख्यापक्षे समुचयालङ्कारः, अन्त्यव्याख्यापक्षेऽर्थापत्त्यलङ्कारोऽत्र बोध्यः ॥ १७ ॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196