________________
तिलकमञ्जरी।
वर्णयुक्तिं दधानाऽपि स्निग्धाञ्जनमनोहराम् । नातिश्लेषघना श्लाघां कृतिलिपिरिवाश्नुते ।। १६ ॥ [पध्या ] अश्रान्तगद्यसन्ताना श्रोतृणां निर्विदे कथा । जहाति पद्यप्रचुरा चम्पूरपि कथारसम् ॥१७॥ [ भविपुला ]
टिप्पनकम्-ईदृशी च कृतिर्न कार्येति दर्शयति-नाश्रुते न प्रामोति । काऽसौ ? कृतिः काव्यरचना । केव ? लिपिरिव लिपियथा । कां च नाश्नुते ? श्लाघां प्रशंसाम् । किम्भूता कृतिः ? लिपिश्च ? अतिश्लेषधना अति-अतिशयेन, श्लेषेण-व्यर्थ प्रतिपादकवचनेन, घना-व्याप्ता, निरन्तरेत्यर्थः, लिपिः, अतिश्लेषधना इति-वर्णान्योऽन्यलेपेण धना-निरन्तरा । कीदृश्यपि द्वयी ? वर्णयुक्तिं दधानाऽपि वर्णकयोगं दधाना-बिभ्राणाऽपि, वर्णयुक्ताऽपीत्यर्थः, लिपिश्च वर्णयुक्तिम्-अक्षरयोगं दधानाऽपि, वर्णयुक्ताऽपीत्यर्थः, किम्भूतां वर्णयुक्तिम् ? स्निग्धाञ्जनमनोहरां स्निग्धाम्-अरूक्षां माधुर्यादियुक्ताम् , जनमनोहराम्-लोकचित्तरञ्जिकाम्, अन्यत्र स्निग्धं यद् अञ्जनं तेन मनोहराम्-रमणीयामतिकृष्णत्वात् ॥ १६ ॥
टिप्पनकम्- ईदृशी कथा न कार्येति दर्शयति-निर्विदे या विरागार्था भवति । का? कथा, केषाम् ? श्रोतृणां श्रावकाणाम् । कीदृशी? अश्रान्तगद्यसन्ताना निरन्तरगयप्रवाहा । तथा जहाति त्यजति । कम् ? कथारसं कथाया रसः-शृङ्गारादिः, तम् । काऽसौ ? चम्पूरपि गद्यपथमयी कथा । कीदृशी? पद्यप्रचुरा निरन्तर पद्या, तस्मादीदृश्यपि न कार्या ॥ १७ ॥
परागाभिधा विवृतिः-अथ श्लेषबहुलाऽपि रचना न रोचकतामजतीत्याह-वर्णयुक्तिमिति । 'निग्धाजनमनोहरां वर्णयुक्तिं दधानाऽपि अतिश्लेषघना कृतिः, लिपिरिव श्लाघां नाश्नुते' इत्यन्वयः । स्निग्धा व्यजकासम्बन्धेन सरसाम् , न तु रूक्षाम् , अत एव जनमनोहरां राहृदयजनमनोरञ्जिनीम् , वर्णयुक्ति पद-वाक्यात्मना वर्णयोजनाम् , दधानाऽपि धारयन्यपि, अतिश्लेषधना बहुतरश्लेषालङ्कारसङ्कीर्णा, कृतिः काव्यरचना, श्लाघां पर्यवसितार्थप्रतिपित्सुजनकर्तृकां प्रशंसाम् , नाचते न प्राप्नोति । केव? लिपिरिव पत्रादावक्षरविन्यास इव, सा यथा स्निग्धम्-सान्द्रम् , अथवा आईम् , न तु शुष्कम् , यद् अञ्जनम्-मषी, तेन मनोहराम्-दर्शकमनोविनोदिनीम् , वर्णयुक्तिम् अक्षरसन्निवेशं दधानाऽपि, अतिश्लेषघना अतिश्शेषेण अक्षराणामतिसङ्कारेण, अविभक्तात्मना सन्निवेशेनेत्यर्थः, घना-व्याप्ता, न श्लाधामथते तथा, यद्वा नातिश्लेषवना, इत्यत्र 'न' इति न पृथक् पदमपि तु 'अतिश्लेषघना' पदेन समस्तम्, एवं च अल्पश्लेषा कृतिलिपिरिव श्लाघामश्चत इतीत्थं भावमुखेन व्याख्येयम् ।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः। “धनः सान्द्रे दृढे दाये, विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते" इत्यनेकार्थसङ्ग्रहः ॥१६॥
परागाभिधा विवृतिः-अथ 'गद्याद् व्यावर्तते जनः' इत्यनुपदोक्तमेवार्थ हेतूपन्यासमुखेन कविः पुष्णातिअश्रान्तगद्यसन्तानेति । 'अश्रान्तगद्यसन्ताना कथा श्रोतृणां निर्विदे [ कल्पते ], पद्यप्रचुरा चम्पूरपि कथारसं जहाति' इत्यन्वयः । अश्रान्तगद्यसन्ताना अश्रान्तः-अविश्रान्तः, गद्यसन्तानः-गद्यधारा यस्यां सा, गौडी रीतिमनुसृत्य निबद्धेत्यर्थः। कथा गद्यकाव्यम् , श्री विदे विरागाय कल्पते, विश्रामधामार्थानुसन्धानव्यग्रतया रसास्वादासिङ्ख्या रसैकलोलुपानां तत्रानुरागयोगात् । एवं पद्यप्रचुरा श्लोकबहुला, चम्पूरपि चमत्कृत्य पुनाति रसामृतधारया सहृदयजनहृदयमित्यर्धकचम्पूनानी गद्यपद्यमयी कथाऽपि “गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते” इत्यभियुक्तोः । कथारसं कथाभिव्यङ्गय रसं शृङ्गारादिकम् । जहाति नाभिव्यनक्ति, परिर्थप्रतिपत्तेरायाससाध्यतया गद्यांशैरनायासरसास्वादशीलानां ततस्तदास्वादायोगात्। यद्वा विशिष्टकथा चम्पूरपि अान्तगद्यसन्ताना पद्यप्रचुरा च सती यतः कथारसं जहाति, अतो रसैकलिप्सूनां श्रोतृणां निर्विदे भवति किमुत? अन्या सामान्यकथेत्येवं व्याख्येयमिदं पद्यम् । ___आयव्याख्यापक्षे समुचयालङ्कारः, अन्त्यव्याख्यापक्षेऽर्थापत्त्यलङ्कारोऽत्र बोध्यः ॥ १७ ॥