________________
टिप्पनक-परागविवृतिसंवलिता अखण्डदण्डकारण्यभाजः प्रचुरवर्णकात् । व्याघ्रादिव भयाघ्रातो गद्याद् व्यावर्तते जनः ॥ १५॥ [ पथ्या]
टिप्पनकम्-ईदृशं गधं न कार्यमिति दर्शयितुमाह-गद्यात् छन्दोरहितवचनात्, व्यावर्तते निवर्तते, जनः लोकः, न स्वीकरोतीत्यर्थः, कीरशः सन् ? भयाघ्रातः भीग्रस्तः । कस्मादिव ? व्याघ्रादिव पुण्डरीकादिव । कीदशाद गद्यात् ? कीदृशाच व्याघ्रात् ? अखण्डदण्डकारण्यभाज: अखण्डाः-परिपूर्णाः, ये दण्डका:-बहक्षरबहुसमासवचनानि, त एव अरण्यम् अतिगम्भीरार्थत्वात्, तद् भजते यद् गद्यं तत् तथोक्तं तस्मात्, तद्युक्तादित्यर्थः । तथा प्रचुरवर्णकात् प्रचुराः-बहुतराः, वर्णकाः-वर्णनानि, यस्मिन् तत् तथोक्त तस्मात्, बहुवर्णकं हि गद्यमुद्वेजनीय भवति, तथा अखण्डदण्डकं च । व्याघ्रादपि कीदृशात् ? अखण्डं निरन्तरं यद् दण्डकारण्यम्-अतिप्रचुरो मानुष, रहितो देशः, तगाजः तत्सेविनः, तथा प्रचुरवर्णकात् अनेकवर्णात् ॥ १५॥
ईक्षणं नयनं यस्य, अधः- अधःस्थितम् , मुखेक्षणम्-मुख-नयनं यस्य वा तादृशः सन् , काव्ये दोषचेद् मुखमुच्चैः कृत्वा प्रमोदोत्फुल्लनयनमभितो घूर्णयंस्तवुद्धोषप्रवणः स्यात् , अस्ति तु तदनभिप्रेतो गुण एवेति तदुपलम्भावनतमुखनयन इत्यर्थः । कषाश्मनेव कनकपरीक्षणाधारपाषाणखण्डेनेव, श्यामेन केवलगुणोपलम्भमलिनेन मुखेन, काव्यहेनः काव्यमेव प्रचुरपुण्योपादेयतया हेम-सुवर्णम् , तस्य गुणान् माधुर्यादीन् , वक्ति दुर्जनत्वेऽपि सज्जनसाधिवेशनमहात्म्येन वर्णयति, अथवा वचेरन ज्ञापनसामान्यपरतया निजावनतमुखमालिन्येन ज्ञापयति, अनुमापयतीत्यर्थः। क इव ? कलाद' इव कलाम्-परकीयसवर्णस्यांशम् , आदत्ते-गृह्णातीति कलादः स्वर्णकारः, म इब, स यथा कषाश्मना कषपाषाणेन, तत्र रेखाङ्कनेन परीक्षणे सतीत्यर्थः, अधोमुखेक्षणः गुणकथनक्षणे परीक्षितपूर्वत्वनिरूपणाय स्वकरतले भूतले वा स्थितं कनकमवलोकितुमधःकृतमुखनयनः, श्यामेन ध्मानकालोस्थितधूममलिनेन मुखेन, यद्वा श्यामेन' इति 'कषायमना' इत्यत्र विशेषणतया योजनीयं कषपाषाणस्य कृष्णवर्णत्वात् । हेनः कनकस्य, गुणान् विषापनयनादीन् , वक्ति कथयति ।
अत्र दुर्जन-स्वर्णकारयोरुपमानोपमेयभावादुपमालङ्कारः ॥ १४ ॥
परागाभिधा विवृतिः--अथातिदुरवगाहगद्यकाव्यमवद्यमित्याह-अखण्डेति । 'अखण्डदण्डकारण्यभाजः प्रचुरवर्णकाद् गद्याद् व्याघ्रादिव भयाघ्रातो जनो व्यावर्तते' इत्यन्वयः । अखण्डदण्डकारण्यभाजः अखण्डाः-समयाः, ये दण्डकाः-दण्ड इव प्रतिकृतिर्दण्डकः, ते दण्डाकारा अतिदीर्घबहुतरपदघटितसमासवहुला आलापकाः, त एवातिदुरवगाहतयाऽरण्यम् , तद् भजते-तदाकारं धत्त इति तद्भाक् तस्मात् । न केवलं समासबहुलादू , अपि त्वर्थबहुलादपीत्याह-प्रचुरवर्णकात् प्रचुरा वो वर्णनानि यस्मिंस्तस्मात् । गद्यात् छन्दोऽनियन्त्रितकाव्यान् । भयाघ्रातः तत्पारप्राप्तिप्रतिबन्धभयग्रस्तः सन् , जनः लोकः, व्यावर्तते निवर्तते, न तु प्रवर्तते । कस्मादिय? व्याघ्रादिव । कीदृशाद् व्याघ्रात् ? अखण्डदण्डकारण्यभाजः अखण्डम्-अवान्तरखण्डरहितम् , निरन्तरमित्यर्थः, यद् दण्डकारण्यम्-अदवी विशेषः, तद्भाजःतद्वासिनः, प्रचुरवर्णकात् प्रचुरा:-पीतादिप्रचुरप्रकाराः, वर्णाः-रूपाणि यस्य तस्मात् , चित्रवर्णादित्यर्थः । गद्यकाव्यम् 'मुक्तकम् , वृत्तगन्धि, चूर्णकम् , उत्कलिकाप्रायम्' इति चतुर्विधम् , तत्र सर्वथा समासशून्यं गयं मुक्तकम् , अंशतश्छन्दोबद्धं तु तत् वृत्तगन्धि, द्वित्रमात्रपदघटितसमासात्मकं च तचूर्णकम् , बहुतरपदघटितदीर्घतरसमासमयं च तद् उत्कलिकाप्रायमुच्यते, उच्चारणवेलायामुच्चावचतरङ्गसदृशवात् , तचातिदुरवगाहतया लोकोपादेयतामतिवर्तते, तस्माद् वैदभीमेव रीतिमनुसृत्य . गद्यकाव्यं रचनीयमिति भावः ।
अत्र श्लेषमहिना गद्य-व्याघ्रयोरुपमानोपमेयभावात् श्लेषानुप्राणितोपमालङ्कारः ॥ १५॥