________________
तिलकमअरी।
उत्पतन्त्यजवद व्योन्नि केचित् प्राप्तपदत्रयाः। विशन्त्यन्ये प्रबन्धेऽपि लब्धे बलिरिव क्षितिम् ॥ १३॥ [पथ्या ] कपाश्मनेव श्यामेन मुखेनाधोमुखेक्षणः । काव्यहेनो गुणान वक्ति कलाद इव दुर्जनः ।। १४ ॥ [मविपुला ]
wwwimm
टिप्पनकम्-कविविशेषमाह-उत्पतन्ति उद्गच्छन्ति, उदयन्त इत्यर्थः, केचित् कवयः । क ? व्योम्नि आकाशमपि बुद्ध्या व्याप्नुवन्ति, किम्भूताः सन्तः ? प्राप्तपदत्रयाः उत्पाद-व्यय ध्रौव्यलक्षणं पदवयं प्राप्ताः, अथवा सुबन्त-तिङन्तपदवयं प्राप्ता 1 अन्ये तु विशन्ति, काम् ? क्षिति क्षयं बुद्धिरहिततां यान्ति । कस्मिन् सत्यपि ? प्रवन्धेऽपि शास्त्रेऽपि। किम्भूते? लब्धे प्राप्ते । क इवोत्पतन्ति ? क इव विशन्ति ? अजवद विष्णुवत् , यथा विष्णु. राकाशे उत्पनितः, किम्भूतः? प्राप्तपदत्रयः लब्धाऽधऊर्वतिर्यकमत्रितयः । बलिरिव यथा बलिः प्रबन्धे प्रकृष्ट. बन्धने प्राप्ते, क्षितिं भूमिम् , प्रविष्टः, विभक्तिविपरिणामेनैकवचनं योजनीयम् ॥ १३ ॥
टिप्पनकम्-दुर्जनस्वरूपमाह-वक्ति ब्रूते, कः ? दुर्जनः, कान् ? गुणान् श्लेषादीन् , कस्य ? काव्यस्य, क इव कस्य ? कलाद इव सुवर्णकार इव, हेम्नः सुवर्णस्य, यथा वक्ति, गुणान् विषाद्यपनयादीन , केन ? मुखेन वक्रेण, किम्भूतेन ? श्यामेन कृष्णेन, काव्यस्यानेकगुणदर्शनेन श्यामता । कीदृशो दुर्जनः? अधोमुखेक्षणः अवाग्लोचनः, केनेव ? कपाश्मनेव कपवर्तकप्रस्तारेणेव मुखेन, तेनापि किम्भूतेन ? श्यामेन कृष्णेन, कलादोऽप्यधोर मुखेक्षणः सुवर्णदत्तलोचनत्वात् ॥ १४ ॥
परागाभिधा विवृतिः-अथ क्षुद्रकवेरुच्छहलतामुपहसन् गम्भीरकबेरतिनम्रता श्लायते कविः-उत्पतन्त्यजवदिति । 'प्राप्तपदत्रयाः केचिद् अजवद् व्योनि उत्पतन्ति, अन्ये प्रबन्धे लब्धेऽपि बलिरिव क्षिति विशन्ति' इत्यन्वयः । प्राप्तपदत्रयाः प्राप्तम्-श्रवणेन्द्रियेण गृहीतम् , पदत्रयं विभक्त्यन्तशब्दत्रयमानं यैस्तथाभूता अपि, अल्पश्रुता अपीत्यर्थः । केचित केचन कवयः। व्योम्नि आकाशे, उत्पतन्ति बहुश्रुतंमन्याः सन्त उच्छलन्ति । क इव ? अजवद विष्णुरिव, स यथा बलेः सकाशात् प्राप्तम्-लब्धम् , पदत्रयम्-वामनरूपेणावतीर्य स्खपादत्रयमितं लोकत्रयम् , येन तथा भूत्वा च्याम्नि उत्ततितवान् आसीत् । अन्ये निरुक्तोद्धताल्पज्ञकविव्यतिरिक्ताः कवयः, प्रबन्धे सम्पूर्ण शास्त्रे, लब्धेऽपि श्रुतेऽपि, क्षितिं पृथिवीमेव विशन्ति निविशन्ते, नम्रतमास्तिष्ठन्ति न तुत्पतन्तीत्यर्थः । क इव ? बलिरिव बलिनामा नृपति रिव. स यथा प्रबन्ध परस्वत्वापादनरूपे स्वभूमिनियन्त्रणे, लब्धे प्राप्ते सति, क्षिति पातालभूमिम् , विशति स्म तथा। बलिनानो नृपतेरदनवदान्यतादर्पमसहिष्णुर्विष्णुामनरूपेणावतीर्य स्खपादत्रयमितवसुमतीमर्थयित्वा तेन दातुमूरीकृतां सां सपदि द्राधीयसीमाकृतिमाधाय, एकेन पादेन मर्त्यलोकम् , द्वितीयेनाऽऽकाशलोकम् , तृतीयेन खलोकं प्रमाय तत्र स्वत्वमापाद्य वियत्युत्पपात, बलिरप्यनुतप्य परस्वत्वापन्नमदो लोकत्रयमुत्राज्य पाताललोकमशिधियदिति पौराणिकी वार्ता । अथ स्वसम्प्रदायोचितसरण्या व्याख्यायते-प्राप्तपदत्रयाः प्राप्तम्-तीर्थङ्करादधिगतम् , पदत्रयम्-'उत्पद्यते, विनश्यति, ध्रुवति च' इत्युत्पत्ति-व्यय-ध्रौव्यलक्षणा त्रिपदी यैस्ते स्याद्वादिन इत्यर्थः, केचित गौतमगणधरादयः केचन कवयः, न तु सर्वे, व्योनि लोकालोकरूप आकाशे. उत्पतन्ति विन स्प्रेक्षापक्षानाश्रित्य उड्डीयन्ते, गौतमगणधरादयस्तीर्थङ्करसकाशादुक्तत्रिपदीमधिगम्योपचितप्रेक्षाप्रणीतसकलश्रुतमयद्वादशाङ्यामतिसूक्ष्ममपि निखिलभायसङ्कलभुक्तरूपमाकाशं करतलामलकवनिरूपयन्तीत्यर्थः । क इव ? अजवदन जायत इत्यजः, मुक्तात्मा, स यथा प्राप्ताव्यवहारराशिपद-व्यवहारराशिपदमुक्तावस्थापदत्रयः केवलज्ञानेनोक्तरूपमाकाशं व्याप्नोति । अन्ये त्रिपदीज्ञानशून्या अपरे कवयः, प्रबन्धे एकान्तवादात्मके शास्त्रे, लब्धेऽपि अधिगतेऽपि, क्षिति क्षयम् , व्यापकबुद्धिवैकल्यमित्यर्थः, विशन्ति प्रविशन्ति, आश्रयन्तीत्यर्थः । क इव ? बलिरिव बलि:-नैवेद्यादिकं पूजोपहारद्रव्यम् , स यथा प्रबन्धे समुद्ग कादिको प्रकृष्ट बन्धे लब्धे सति पर्युषितत्वादिना विनाशं प्राप्नोति तथा ।
अत्रोपमाऽलङ्कारः 1 "व्योम पुष्करमम्बरम्" इत्यमरः, “अजइछागे हरे विष्णौ” इत्यनेकार्थसङ्ग्रहः ॥ १३ ॥
परागाभिधा विवृतिः-अथ दुरात्मनां काव्यगुणकीर्तनचेष्टामभिनयति-कपाश्मनेवेति । 'कलाद इव अधोमुखेक्षणो दुर्जनः कषाश्मनेव श्यामेन मुखेन काव्यहेनो गुणान् वक्ति' इत्यन्वयः । दुर्जनः खलः, अधोमुखेक्षणः अधोमुखम्