________________
टिप्पनक-परागविवृतिसंवलिता स्वादुतां मधुना नीताः पशूनामपि मानसम् । मदयन्ति न यद्वाचः किं तेऽपि कवयो भुवि ? ॥११॥[पथ्या] काव्यं तदपि किं वाच्यमवाश्चि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ॥ १२॥ [पथ्या]
टिप्पनकम्--किं तेऽपि कवयः कवितारः, न कवय इत्यर्थः । कस्याम् ? भुवि जगति । यद्वाचः येषां गिरः, न मदयन्ति न हर्षयन्ति । किं तत् ? मानसम् । केषाम् ? पशूनां मूर्खाणाम् , अथाऽऽस्ता विदुषाम् । किंभूताः? नीताः प्रापिताः । काम् ? खादुतां मधुरताम् । केन? मधुना माधुर्येण, इत्येकोऽर्थः । अपरश्व-किं तेऽपि कवयः? कं---जलम् , तस्य वयः-पक्षिणो हंसादयः, कस्य ब्रह्मणो वा, वयः-हंसा वाहनस्वात् , एतचोपलक्षणं कोकिलादिपक्षिणाम् , न कवय इत्यर्थः । यद्वाचः यद्गिरः, भुवि पृथिव्याम् , पशूनां तिरश्चाम् , अथाऽऽस्ता मनुष्याणाम् , मानसं न मदयन्ति न मतं कुर्वन्ति । किंभूता यद्वाचः? नीताः प्रापिताः, काम् ? खादुतां माधुर्यम् । केन? मधुना चैत्रेण सत्र पुष्परसपानादिना स्वरमाधुर्यप्राप्तेः, अथवा पिकवयः किं कोकिलपक्षिणस्ते ? भुवि पृथिव्याम्, नैवेत्यर्थः ॥११॥
टिप्पनकम्-तदपि किं काव्यं वाच्यं भणनीयम् ?, न काव्यं वाच्यमित्यर्थः, यन्न करोति, किम्भूतं सत् ? श्रुतमात्रम् आकर्णितमात्रम् , भास्तामर्थादिनाऽवधारितम् , कानि ? वक्राणि मुखानि, शिरांसि च मस्तकानि च, चकारी परस्परापेक्षया समुच्चयार्थी, केपाम् ? अमित्राणां दुर्जनानामित्यर्थः, किंभूतानि च करोति ? अवाश्चि वचनरहितानि वक्त्राणि, शिरांसि चाधोमुखानि, गुणयुक्तत्वेन दोषरहिसत्वेन च ॥ १२॥
परागाभिधा विवृतिः-न केवलं कवनमात्रेण कवित्वं किन्तु चमत्कृतिकृति कमनीये कवने सति तदित्याहखादृतामित्यादि । “मधुना स्वादुतां नीताः यद्वाचः पशूनामपि मानसं न मदयन्ति, किं तेऽपि भुवि कवयः ? किं ते भुवि पिकवयः ?" इत्यन्वयः । मधुना क्षीरेण पुष्परसेन द्राक्षासवादिना वा, तत्कृतकण्ठसुखरत्वादिनेत्यर्थः, स्वादुतां मिष्टताम् , कर्णपेयपीयूषभावमित्यर्थः, यद्वा मधुना मधुरेण, भावप्रधाननिर्देशाद् माधुर्येण काव्यगुणविशेषेण, स्वादुतां मिष्टताम्-सहृदय. हृदयाऽऽस्वाद्यताम् , यद्वा सचेतश्चेतश्चमत्कृतिकरणेन मनोज्ञताम् , नीताः प्रापिताः, यद्वाचः येषां कवितॄणां सुभाषितानि, पशूनामपि पशुसदृशानामपि, मूर्खाणामित्यर्थः, आस्तां विदुषाम् , मानसं मनः, न मदयन्ति न हर्षयन्ति, न रञ्जयन्तीत्यर्थः, भुवि जगति किं तेऽपि कवयः काव्यकर्तारः ?, नेत्यर्थः । पक्षे मधुना चैत्रमासेन, स्वादुतां मजुलमञ्जरीपुज-कुसुमरसादिना मिष्टभावम् , नीताः प्राषिताः, यद्वाचः येषां वाचः-कलानि कूजितानि, पशूनामपि देवानामपि मृगादीनामपि वा, आस्तामितरेषाम् , मानसं मनः, न मदयन्ति न रखयन्ति, किं ते पिकवयः? कोकिलपक्षिणः?, नेत्यर्थः ।
“पशु गादिदेवाऽजे नाऽव्ययं पशुदर्शने” “खादु मिष्ट-मनोज्ञयोः इति मेदिनी, मधुश्चैत्रर्तुदैत्येषु जीवाशोक-मधूकयोः । मधु क्षोरे जले मधे क्षौद्रे पुष्परसेऽपि च" इत्यनेकार्थसंग्रहः । अत्र श्लेषालङ्कारः ॥ ११ ॥
परागामिधा विवृतिः-तस्मात् तद्विरचितस्य काव्यस्य काव्यत्वमेव नेत्याह-काव्यं तदपि किं वाच्यमिति । 'यत् श्रुतमात्रम्, अमित्राणां वक्त्राणि च शिरांसि च अवाचि न करोति तदपि किं काव्यं वाच्यम् ?' इत्यन्वयः । यत् काव्यम् , श्रुतमात्रं श्रवणमात्रेण, अमित्राणां खग्रणेतुर्विद्वेषिणां प्रतिस्पर्धालनामिति यावत् , वक्त्राणि उच्यन्ते यैतानि मुखानि, अवाञ्चि अविद्यमाना वाक् आक्षेपवाक्यं येषु तानि, दूषणानुपलब्ध्या खविषये मूकानीत्यर्थः, न करोति
वियति । एवं तेषां शिरांसि च मस्तकानि च, अवाञ्चि अवाश्चन्ति-अधोगच्छन्ति यानि तानि, अद्भुतगुणोपलम्भोद्भूतलजया अधोमुखानि, अधोऽवनतानीति यावत्, न करोति तदपि किं काव्यं वाच्यम? काव्यत्वेन ब्यपदेश्यम् ? नेत्यर्थः ।
अत्र वक्त्र-शिरसामवाकरणकर्मत्वाभावरूपैकधर्माभिसम्बन्धात् तुल्ययोगिताऽलङ्कारः। “मूकोऽवाक्” इति, “अधोमुखस्त्ववाङ्” इति चाभिधानचिन्तामणिः ॥ १२ ॥
woman