Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 60
________________ टिप्पनक-परागविवृतिसंवलिता सत्यं बृहत्कथाम्भोधैबिन्दुमादाय संस्कृताः । तेनेतरकथाः कन्थाः प्रतिभान्ति तदप्रतः ॥ २१ ॥ [ पथ्या ] जितं प्रवरसेनेन रामेणेव महात्मना । . तरत्युपरि यत्कीर्तिः सेतुर्वाङ्मयवारिधः ॥ २२॥ [पथ्या] टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ २१ ॥ टिप्पनकम्-जितं जयः प्रातः कतिमध्ये । केन ! प्रवरसेनेन कविना । कीदृशेन ? महात्मना बृहत्तरेण । यत्कीर्तिः यस्य यशः । कोऽसौ ? सेतुः सेतुबन्धशास्त्र कीर्तिहेतुत्वात् कीर्तिः । किम् ? तरति प्लवते । क्व ? उपरि उपरिष्टात् । कस्य ? वाङ्मयवारिधेः निःशेषशास्ववृन्दमहोदधेः, सकलशास्त्राणामुपरि वर्तत इत्यर्थः । केनेव ? रामेणेवं यथा रामेण-दशरथात्मजेन जयः प्राप्तो लोकमध्ये । तेनापि कथम्भूतेन ? प्रवरसेनेन, तथा महात्मना पूज्येन विष्णोरवतारांत् । यत्कीर्तिः सेतुबन्धः गिरिकृतः, तरति प्लवते, न निमजते । क्व तरति ? उपरि, कस्य ? वारिधे लवणसमुद्रस्य ॥ २२ ॥ परागाभिधा विवृतिः-अथ गुणाढ्यकविप्रथिता बृहत्कथा प्रशंसति-सत्यमिति । 'इतरकथा बृहत्कथाम्भोधेबिन्दुमादाय सत्यं संस्कृताः, तेम तदप्रत इतरकथाः कन्थाः प्रतिमान्ति' इत्यन्वयः । इतरकथाः इतरकविनिबद्धाः कथाः । बृहत्कथाम्भोधेः बृहत्कथा नाम पैशाचवाचोक्तकविनिबद्धोऽतिविस्तृतकथाविशेषः, सैवानेककथानकरूपरत्नाकरत्वात् बृहत्त्वाचाम्भोधिः समुद्रस्तस्मात् । बिन्दु कथालेशम् । आदाय उद्धृत्य । सत्यम् अवश्यमेव । संस्कृताः संस्कारमापाद्य संस्कृतप्राकृतगद्यपद्यात्मना प्रणीताः । तेन तस्माद्धेतोः । तदनतः तस्याः- बृहत्कथायाः, अग्रतः-पुरस्तात् । इतरकथा कन्थाः जीर्णविविधवसनखण्डमयाः प्रावरणविशेषाः । प्रतिभान्ति अन्यदीयखण्डात्मकत्वेन तत्सादृश्यात् तदभेदेन प्रतीयन्ते । अत्र रूपकालङ्कारः । “कन्था पुरे प्रावरणे" इत्यनेकार्थसङ्ग्रहः ॥ २१ ॥ परागाभिधा विवृतिः-अथ श्रीप्रवरसेनकवि श्रीरामचन्द्रोपमाचमत्कारेणोपवर्णयति-जितमिति । रामेणेव महामना [ तेन } प्रवरसेनेन जितम् , यत्कीर्तिः सेतुझियवारिधेहपरि तरति' इत्यन्वयः । अत्रोत्तरार्होपात्तयच्छन्दानुरोधेन पूर्वार्धे 'तेन' इत्यध्याहृत्य योजनीयम् । महात्मना कविताकौशलशालिना । तेन प्रवरसेनेन प्रवरसेननाम्ना सेतुबन्धाख्यकथाकृता कविना । जितम् अतिकमनीयकाव्यरचनया कविजगति महोत्कर्षः प्रापि । कुतः ? यत्कीर्तिः यत्प्रणीता कीर्तिः-कीर्तिहेतुत्वेनोपचारात् कीर्तिरूपः, सेतुः नामैकदेशे नामोपचारात् सेतुबन्धनाम्नी कथा । वानयवारिधेः वाचो विकारा वाङ्मयानि शास्त्राणि, तान्येव विविधाश्ररत्नाकरत्वाद् वारिधिः-जलधिः, तस्य उपरि उत्कृष्टकोटौं, तरति प्लवते, प्रसिद्ध्यतीत्यर्थः । नेव ? रामेणेव यथा महात्मना, प्रवरसेनेन प्रवरा-पराक्रमवती, सेना-हनूमत्प्रमुखा यस्य तेन रामेण-~-दशरथात्मजेन श्रीरामचन्द्रेण, जितं योद्धजनेषत्कर्षः प्राप्तः, यद्वा जितं रावणादिबलमभिभूतम् । कथम् ? यत्कीर्तिः यदीयकीर्तिहेतुः, सेतुः लङ्कागमनाय तन्मार्गस्थसागरोपरि कपिप्रणीतः सेतुबन्धः, वारिधेः समुद्रस्य उपरि ऊर्श्वभागे, तरति प्लवते, बौद्धास्मनाऽद्यत्वेऽपि विद्यमानत्वाद् वर्तमाननिर्देशः । अत्रापि श्लेषानुप्राणितोपमालकारः ॥ १२ ॥

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196