Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 42
________________ टिप्पनक-परागविवृतिसंवलिता लावण्यपूर्णमतिहृद्यगुणस्वरूपं, सन्नन्दन खवयसाऽमृतमेधयन्तम् ।। श्रीनेमिसूरिमतिभूरिविभूतिभाजं, भ्राजन्तमन्सरनिशं गुरुमानमामि ॥ ११॥[वसन्ततिलका] कम्रालङ्कारकीर्णा सुललितपदन्यासनैपुण्यपूर्णा, प्रोदञ्चचारुवर्णा स्वररुचिरतया शश्वदाकृष्टकर्णा । उन्मीलङ्कारभावा नवरसहृदया श्लिष्यमाणा प्रसन्ना, स्वान्ते कान्तेव पुंसामुपहरति रसं भारती नेमिसूरेः ॥ १२ ॥ स्रग्धरा] यः सर्वदारोचितचित्तवृत्तिस्तथाऽप्यदारोचितचित्तवृत्तिः । सिद्धानुरागान्वितचित्तवृत्तिस्तथापि सिद्धान्तसुचित्तवृत्तिः ॥ १३ ॥ [ उपजातिः ] निरस्तधामाऽपि विकीर्णधामा, सुधीवरो धीवरताहरोऽपि । सदर्पणो वर्जितदर्पणोऽपि, स नेमिसूरिर्जगतीह जीयात् ॥ १४ ॥ युग्मम् ॥ [ उपेन्द्रवा] _ लावण्यपूर्ण लावण्येन बाह्यान्तरिकसौन्दर्येण, नामैकदेशन्यायाद् विजयलावण्यसूरिणा शिष्येण च, पूर्ण समेधितम् । अतिहृद्यगुणस्वरूपम् अतिढ्यानामतिप्रियाणां गुणानां स्वरूपं मूर्तिम् , अतिहृद्यमतिप्रियं गुणस्य श्रीगुणविजयस्य स्वरूपं यस्य तं च । समन्दर्न सतां सुधियां साधूनां वा, नन्दनं स्वसुधीस्वातिशय-साधुत्वातिशयानुभवानन्देन समेधकम् , नन्दनः श्रीविजयनन्दनसूरिः, सन् सुधीः साधुश्च येन तं च । स्ववचसा स्वसदुपदेशवाक्येन, अमृतं भव्यजनानां मोक्षं श्रीविजयामृतसूरिंच, एधयन्तं वर्धयन्तम् , श्रीनेमिसूरिं गुरुम् , अन्तः अन्त:करणे, भनिशं सदा, भ्राजन्तं दीप्यमानम् , आनमामि आ समन्ताद् नमामि । अत्र विजयलावण्यमूरिप्रभृतीनामन्योन्यमैत्रीनियन्त्रितानां सह दीक्षा जिघृक्षणां सौराष्ट्रान्तर्गतवोदादाख्यैकग्रामजन्मनां मुनीशानामुल्लिखितनामान्यप्येकदेशन्यायेन निस्सरन्तीति वैचित्र्यम् ॥११॥ कम्रालारकी कौः कमनीयैः, अलङ्कारः-अनुप्रासोपमादिभिः शब्दा-ऽर्थालङ्कारः, पक्षे हार-करणादिभिः शरीरालङ्कारः, कीर्णा व्याप्ता। सुललितपदन्यासमैपुण्यपूर्णा सुललितानाम् अतिमनोहराणाम् , पदानां विभक्तयन्तशब्दानाम् , न्यासे विन्यासे नैपुण्यं निपुणता, तेन पूर्णा, पक्षे सुललितः पदन्यासश्चरणविक्षेपः, तन्नपुण्यपूर्णा । प्रोदचच्चारुवर्णा प्रकरण उदञ्चन् उच्चरन् चारुवों माधुर्यादिव्यजकमक्षरं यस्याम् , प्रकर्षेण उदचन् उद्भाजन्, चारो हस्पतेः, वर्ण इव वणों यश इव यशो यस्या वा, सा तथा, पक्षे उदअन् चारुवर्णो गौरवों यस्याः सा तथा । स्वररुचिरतया स्वराणाम् अकारादीनाम् , रुचिरतया लघुत्वादिवशेन रुचिरच्छन्दोऽनुगुणतया, पक्षे निषादर्षभादिस्वरसौष्ठवेन, शश्वदाकृष्टकर्णा शश्वत् सन्ततम् , आकृष्टः सर्वतो व्यावृत्त्य स्वस्सिन्' एकाभितः, कणों लोकानां ओनेन्द्रियवृत्तियया सा तथा । उन्मीलभूरिभावा उन्मीलन्तः शब्दवृत्त्या आविर्भवन्तः, भूरिभावा वक्तुविविधाभिप्रायाः, पक्षे कटाक्षविक्षेपादिभिः स्फुटीभवन्तो विविधसम्भोगाभिप्रायाः स्वेदकम्पादयो व्यभिचारिभावा वा यया सा तथा ! नवरसहृदया नवसङ्खकरससहिता, पोषकशक्या, व्यापत्या तु प्रशस्तरसप्रधाना, पक्षे नवोऽभिनवः, लोकोत्तर इत्यर्थः, रसः शृङ्गाररसो यस्मिंस्तादृशं ददयं यस्याः सा तथा। शिष्यमाणा एकवृन्ताश्रितानेकफलन्यायेन नानाथैः सम्बध्यमाना प्रसन्ना प्रसादगुणान्विता, पक्षे श्लिष्यमाणा आलिङ्गयमाना सती, प्रसन्ना बष्टा । नेमिसूरेरिती वाणी, कान्तेव कामिनीव, पुंसां सहृदयजनानाम् , स्वान्ते, रसं शान्तिरसम्, पक्षे आलम्बनविघया शृङ्गाररसम्, उपहरति उपानयीकरोति । अत्र वेषानुप्राणितरूपकालङ्कारः !! "अलङ्कारस्तु हारादावुपमादावलङ्कतो" इति, "भावः सत्ता-स्वभावा-ऽभिप्राय-चेष्टात्म-जन्मसु । क्रिया-लीला-पदार्थेषु विभूतिबुध-जन्तुषु ॥ इत्यादौ च" इति, "प्रसादोऽनुग्रहे काव्यगुण-स्वास्थ्य-प्रसत्तिषु"। इति च मेदिनी "वणों गुणा-ऽक्षर-यशः शुक्लादिब्राह्मणादिषु । वर्णः स्तुतौ कुथायां च वर्गः स्याद्भेद-रूपयोः” ॥ इति शाश्वतः, "स्वरो नासासमीरे स्यान्मध्यमादित्रिकस्वरे । उदातादावकारादौ षड्जादौ च ध्वनौ पुमान्" ।। इति विश्वः ॥ १२ ॥ यः सर्वदेत्यादि । सर्वदाराणामुचिता तुल्यप्रणयास्पदत्वेन अनुकूला परिचिता वा चित्तवृत्तिर्यस्य स सर्वदारोचितचित्तवृत्तिः, तथाप्यदारोचितचित्तवृत्तिरिति विरोधः, परिहारे तु सर्वदा रोचिता रागादिमलापसारणेन उज्वलिता स्वस्य परस्य च चित्तवृत्तिर्येन स तथा । सिदेषु अणिमादिसिद्धिशालिषु, अनुरागः प्रीतिः, तदन्विता चित्तवृत्तिर्यस्य स तथा, तथापि सिद्धान्ते सिद्धजननिधने सुचित्तवृत्तिरिति विरोधः, परिहारे तु सिद्धान्तेषु आगमेषु सुचित्तवृत्तिः । निरस्तं त्यक्तं धाम तेजः प्रभावो वा येन तथाभूतोऽपि विकीर्णधामा विस्तीर्णधामेति विरोधः, परिहारे तु निरस्तधामा त्यक्तगृहः, मुनिरिति यावत् । हिंसाप्रतिषेधकतया भीवरताहरोऽपि मात्स्यिक्तानिवार

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196