Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 49
________________ तिलकमञ्जरी। अव्याजगन्ति पुरुषोत्तमनाभिसूतेर्देवस्य वक्त्रकमलोदरमावसन्त्याः । धौतेव दन्तकिरणप्रकरण मूर्तिर्देव्या गिरामधिपतेः शरदिन्दुगौरी ॥ ५ ॥ [ वसन्ततिलका ] टिप्पनकम्-पशमश्लोकव्याख्या क्रियते-अध्याद रक्षतु ! का? मूर्तिः तनुः । कस्याः? गिरामधिपतेर्देव्याः सरस्वत्याः । कीदृशी? शरदिन्दुगौरी शरश्चन्द्रधवला । उस्प्रेक्षते कांव:-धौतेव प्रक्षालितेव । केन ? दन्तकिरणप्रकरण दशनानां [दशनांशूनां] सुसंघातेन । किं कुर्वन्त्याः? आवसन्त्याः तिष्ठन्त्याः । किं तत् ? वक्रकमलोदरं मुखकमलमध्ये इत्यर्थः, कस्य ? देवस्य । किमभिधानस्य ? पुरुषोत्तमनाभिसूतेः पुरुषोत्तमश्चासौ नाभिसूतिश्च नाभेयश्च स तथोक्तस्तस्य, ऋषभस्येत्यर्थः, लोकभाषया पुरुषोत्तमः-विष्णुः, तस्य नाभिः-नाभिपनं तात्स्थ्यात्, तस्मिन् सूतिः-उत्पत्तिर्यस्य स तथोक्तस्तस्य, ब्रह्मण इत्यर्थः । कानि रक्षतु ? जगन्ति जगत्रयस्थितप्राणिनः ॥५॥ सद्य एवौत्सादयन्ती, न तु भेत्स्यन्ती । नन्वेकदा भगवदुचरितया कयाचिदेकया भाषया भिन्नभिन्नभाषाऽभिज्ञानो देवादीनामर्थबोधासम्भवान्मोहोत्सादयोगपद्यानुयपत्तिरिति चेत् ? न-भगवतः पुण्यातिरेकादेकयाऽप्यधेमागधीरूपया भाषया जलदमुक्तजलवदाश्रयानुगुण्येन विविधभाषात्मना परिणमनात्, तदुक्तम्-"देवा देवी नरा नारी शबराश्चापि शाबरीम् । तियञ्चोऽपि तैरश्ची मेनिरे भगवद्गिरम् ॥ १॥ इति । पुनः कथंभूताम् ? उद्यदपूर्वविस्मयरसैः उद्यन्-तद्वेलायामुद्वेलन् , अपूर्वःअनास्वादितपूर्वः, विस्मयः-श्रवणयोः सुधारसोत्सेकजन्यं सद्यश्चेतश्चकासजन्यं वा आश्चर्यमेव, रसो येषु तैः, यद्वा उद्यन्तौ अपूर्वविस्मय-रसौ विस्मयः-मोहरूपान्तःशत्रूत्सादनजन्यदर्पः, रसः-शान्तिरूपश्च, येषु तैः, नृणां मनुष्याणाम् , वृन्दैः समूहैः, न तु वृन्देन, आकर्णिता श्रुता, देवानां क्षेत्रान्तरतोऽपि पुरा निरुक्तरसावादसम्भवात, तिरश्चामतिमन्दप्रतिभतया सद्य एवं तदसम्भवाच 'नुणाम्' इत्येवोक्तम् । 'ध्वानेन' इत्यादौ दन्तस्थानोचार्यवर्णसंघातात् श्रुत्यनुप्रासोऽलङ्कारः । "योजनं तु चतुष्कोश्यां स्याद् योग-परमात्मनोः” इत्यादि । “विस्मयोऽद्भुत-गर्वयोः" इति चानेकार्थसङ्ग्रहः, "शब्दे निनाद-निनद-ध्वनि-ध्वान-रव-ध्वनाः" इत्यमरः । शार्दूलविक्रीडितवृत्तम् ; तल्लक्षणं तु “अतिधृत्या म्सौ सौ तो गः शार्दूलविक्रीडितं छै" [छन्दोऽनुशासनम् ] इति, तदर्थश्च-'म-स-ज-स-त-त-गाः, छैरिति द्वादशभिर्यतिः' इति ॥ ४ ॥ परागाभिधा विवृतिः-एतावताऽप्यपरितुष्य भगवन्नाभिनन्दनवदनारविन्दनिवासिनी भगवती सरखतीमाराधयतिअव्यादिति । 'पुरुषोत्तमनाभिसूतेदेवस्य कमलोदरमावसन्या गिरामधिपतेर्देव्याः, दन्तकिरणप्रकरेण धौतेव, शरदिन्दुगौरी मूर्तिः, जगन्ति, अव्याद्' इत्यन्वयः। पुरुषोत्तमनाभिसूतेः पुरुषेषूत्तमः श्लाघ्यस्तीर्थङ्करोत्पादकत्वादिति पुरुषोत्तमः, स चासौ नाभिः-नाभिरेव नाभिः, नाभिनामा नृपतिः, नाभिशब्दस्य नृपतावपि प्रसिद्धेः, तस्मात् सूतिः-उत्पत्तियस्य स तथा, तस्य, यद्वा पुरुषोत्तमश्चासौ नाभिसूतिः-नाभिनन्दन इति पुरुषोत्तमनाभिसूतिस्तस्य, अथवा पुरुषोत्तमेषु-उत्तमपुरुषमध्येऽपि, नाभिः-प्रधाना, कल्याणककलितेत्यर्थः, सूतिः- उत्पत्तिर्यस्य तस्य, तीर्थङ्करस्येत्यर्थः, तदुद्भवोत्सवकल्याणके त्रिभुवनव्यापिन उद्योतस्य षट्पञ्चाशतो दिकुमारीण चतुष्षष्टेरिन्द्राणां च सपरिवाराणामागमनस्य सुमेरुशिखरेऽभिषेकस्य, तदन्यस्य च माङ्गलिककर्मणः श्रवणात् । देवस्य भगवत ऋषभदेवस्य । वऋकमलोदरं व कमलमिव मन्दहासात्मकविकासाश्रयत्वाद् राजतनयोचितताम्बूलेलालवङ्गपरिमलाश्रयत्वात् तीर्थङ्करनामकर्ममहिना कमलामोदसोदरामोदमेदुरवदनानिलकलितत्वाद् वर्तुलत्वाच, तस्योदरं-मध्यम् , तत्रैव वागात्मनाऽभिव्यञ्जनात् , आवसन्त्याः वागात्मना निवसन्त्याः, गिरामधिपतेः वागधिष्ठात्र्याः, देव्याः भगवत्याः सरस्वत्याः,शरदिन्दुगौरी शरदि-आश्विन कार्तिकयोरतीव विमलेऽम्बरतले विभ्राजमानो य इन्दुः-चन्द्रः, तद्वद् गौरी-निर्मला, विशुद्धेत्यर्थः, कथमित्याह-दन्तकिरणप्रकरण भगवद्वदननिर्गमनसमयोदश्चत्तदीयदन्तमरीचिनिचयेन, धौतेव क्षालितेवेत्युत्प्रेक्षा। जगन्ति जगत्रयम. नतु किञ्चिदेव जगत्, अव्यात पायात् । पक्षे पुरुष नाभिः-तास्थ्यात् तद्वयपदेशेन नाभिस्थितं पद्मम्, तत्र सूतिः-उत्पत्तिर्यस्य तस्य, देवस्य-ब्रह्मणो वककमलं च, पितृलेहेन तदुत्सङ्गसङ्गिन्यास्तत्पुत्रीत्वेन प्रसिद्धायाः सरस्वत्या उदरं च, तस्याः पुत्रीत्वोचितचुम्बनावसरे समाहार इति कक्रकमलोदरम्, तद् यथा स्यात् तथा, आवसन्त्याः, गिरामधिपतेर्देव्याः-सरस्वत्याः, शरदिन्दुगौरी-शरच्चन्द्रवद् गौरवर्णा, कथमित्याह-दन्त

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196