________________
तिलकमञ्जरी। अव्याजगन्ति पुरुषोत्तमनाभिसूतेर्देवस्य वक्त्रकमलोदरमावसन्त्याः । धौतेव दन्तकिरणप्रकरण मूर्तिर्देव्या गिरामधिपतेः शरदिन्दुगौरी ॥ ५ ॥ [ वसन्ततिलका ]
टिप्पनकम्-पशमश्लोकव्याख्या क्रियते-अध्याद रक्षतु ! का? मूर्तिः तनुः । कस्याः? गिरामधिपतेर्देव्याः सरस्वत्याः । कीदृशी? शरदिन्दुगौरी शरश्चन्द्रधवला । उस्प्रेक्षते कांव:-धौतेव प्रक्षालितेव । केन ? दन्तकिरणप्रकरण दशनानां [दशनांशूनां] सुसंघातेन । किं कुर्वन्त्याः? आवसन्त्याः तिष्ठन्त्याः । किं तत् ? वक्रकमलोदरं मुखकमलमध्ये इत्यर्थः, कस्य ? देवस्य । किमभिधानस्य ? पुरुषोत्तमनाभिसूतेः पुरुषोत्तमश्चासौ नाभिसूतिश्च नाभेयश्च स तथोक्तस्तस्य, ऋषभस्येत्यर्थः, लोकभाषया पुरुषोत्तमः-विष्णुः, तस्य नाभिः-नाभिपनं तात्स्थ्यात्, तस्मिन् सूतिः-उत्पत्तिर्यस्य स तथोक्तस्तस्य, ब्रह्मण इत्यर्थः । कानि रक्षतु ? जगन्ति जगत्रयस्थितप्राणिनः ॥५॥
सद्य एवौत्सादयन्ती, न तु भेत्स्यन्ती । नन्वेकदा भगवदुचरितया कयाचिदेकया भाषया भिन्नभिन्नभाषाऽभिज्ञानो देवादीनामर्थबोधासम्भवान्मोहोत्सादयोगपद्यानुयपत्तिरिति चेत् ? न-भगवतः पुण्यातिरेकादेकयाऽप्यधेमागधीरूपया भाषया जलदमुक्तजलवदाश्रयानुगुण्येन विविधभाषात्मना परिणमनात्, तदुक्तम्-"देवा देवी नरा नारी शबराश्चापि शाबरीम् । तियञ्चोऽपि तैरश्ची मेनिरे भगवद्गिरम् ॥ १॥ इति । पुनः कथंभूताम् ? उद्यदपूर्वविस्मयरसैः उद्यन्-तद्वेलायामुद्वेलन् , अपूर्वःअनास्वादितपूर्वः, विस्मयः-श्रवणयोः सुधारसोत्सेकजन्यं सद्यश्चेतश्चकासजन्यं वा आश्चर्यमेव, रसो येषु तैः, यद्वा उद्यन्तौ अपूर्वविस्मय-रसौ विस्मयः-मोहरूपान्तःशत्रूत्सादनजन्यदर्पः, रसः-शान्तिरूपश्च, येषु तैः, नृणां मनुष्याणाम् , वृन्दैः समूहैः, न तु वृन्देन, आकर्णिता श्रुता, देवानां क्षेत्रान्तरतोऽपि पुरा निरुक्तरसावादसम्भवात, तिरश्चामतिमन्दप्रतिभतया सद्य एवं तदसम्भवाच 'नुणाम्' इत्येवोक्तम् ।
'ध्वानेन' इत्यादौ दन्तस्थानोचार्यवर्णसंघातात् श्रुत्यनुप्रासोऽलङ्कारः ।
"योजनं तु चतुष्कोश्यां स्याद् योग-परमात्मनोः” इत्यादि । “विस्मयोऽद्भुत-गर्वयोः" इति चानेकार्थसङ्ग्रहः, "शब्दे निनाद-निनद-ध्वनि-ध्वान-रव-ध्वनाः" इत्यमरः ।
शार्दूलविक्रीडितवृत्तम् ; तल्लक्षणं तु “अतिधृत्या म्सौ सौ तो गः शार्दूलविक्रीडितं छै" [छन्दोऽनुशासनम् ] इति, तदर्थश्च-'म-स-ज-स-त-त-गाः, छैरिति द्वादशभिर्यतिः' इति ॥ ४ ॥
परागाभिधा विवृतिः-एतावताऽप्यपरितुष्य भगवन्नाभिनन्दनवदनारविन्दनिवासिनी भगवती सरखतीमाराधयतिअव्यादिति । 'पुरुषोत्तमनाभिसूतेदेवस्य कमलोदरमावसन्या गिरामधिपतेर्देव्याः, दन्तकिरणप्रकरेण धौतेव, शरदिन्दुगौरी मूर्तिः, जगन्ति, अव्याद्' इत्यन्वयः। पुरुषोत्तमनाभिसूतेः पुरुषेषूत्तमः श्लाघ्यस्तीर्थङ्करोत्पादकत्वादिति पुरुषोत्तमः, स चासौ नाभिः-नाभिरेव नाभिः, नाभिनामा नृपतिः, नाभिशब्दस्य नृपतावपि प्रसिद्धेः, तस्मात् सूतिः-उत्पत्तियस्य स तथा, तस्य, यद्वा पुरुषोत्तमश्चासौ नाभिसूतिः-नाभिनन्दन इति पुरुषोत्तमनाभिसूतिस्तस्य, अथवा पुरुषोत्तमेषु-उत्तमपुरुषमध्येऽपि, नाभिः-प्रधाना, कल्याणककलितेत्यर्थः, सूतिः- उत्पत्तिर्यस्य तस्य, तीर्थङ्करस्येत्यर्थः, तदुद्भवोत्सवकल्याणके त्रिभुवनव्यापिन उद्योतस्य षट्पञ्चाशतो दिकुमारीण चतुष्षष्टेरिन्द्राणां च सपरिवाराणामागमनस्य सुमेरुशिखरेऽभिषेकस्य, तदन्यस्य च माङ्गलिककर्मणः श्रवणात् । देवस्य भगवत ऋषभदेवस्य । वऋकमलोदरं व कमलमिव मन्दहासात्मकविकासाश्रयत्वाद् राजतनयोचितताम्बूलेलालवङ्गपरिमलाश्रयत्वात् तीर्थङ्करनामकर्ममहिना कमलामोदसोदरामोदमेदुरवदनानिलकलितत्वाद् वर्तुलत्वाच, तस्योदरं-मध्यम् , तत्रैव वागात्मनाऽभिव्यञ्जनात् , आवसन्त्याः वागात्मना निवसन्त्याः, गिरामधिपतेः वागधिष्ठात्र्याः, देव्याः भगवत्याः सरस्वत्याः,शरदिन्दुगौरी शरदि-आश्विन कार्तिकयोरतीव विमलेऽम्बरतले विभ्राजमानो य इन्दुः-चन्द्रः, तद्वद् गौरी-निर्मला, विशुद्धेत्यर्थः, कथमित्याह-दन्तकिरणप्रकरण भगवद्वदननिर्गमनसमयोदश्चत्तदीयदन्तमरीचिनिचयेन, धौतेव क्षालितेवेत्युत्प्रेक्षा। जगन्ति जगत्रयम. नतु किञ्चिदेव जगत्, अव्यात पायात् । पक्षे पुरुष नाभिः-तास्थ्यात् तद्वयपदेशेन नाभिस्थितं पद्मम्, तत्र सूतिः-उत्पत्तिर्यस्य तस्य, देवस्य-ब्रह्मणो वककमलं च, पितृलेहेन तदुत्सङ्गसङ्गिन्यास्तत्पुत्रीत्वेन प्रसिद्धायाः सरस्वत्या उदरं च, तस्याः पुत्रीत्वोचितचुम्बनावसरे समाहार इति कक्रकमलोदरम्, तद् यथा स्यात् तथा, आवसन्त्याः, गिरामधिपतेर्देव्याः-सरस्वत्याः, शरदिन्दुगौरी-शरच्चन्द्रवद् गौरवर्णा, कथमित्याह-दन्त